________________ णमोकार 1933 - अभिधानराजेन्द्रः भाग-४ णमोकार सम्मत्तनाणदंसण-संजयउवओगओय आहारे। भासगपरित्तपज्ज-तसुहुमसन्नी य भवचरिमे / / 2620 // सच तत्पदं च सत्पदं, विद्यमानार्थ पदमित्यर्थः, तचेह नमस्कारलक्षणम् / तस्य नमस्कारलक्षणस्य सतपदस्य पूर्वप्रतिपन्नान् , प्रतिपद्यमानकांश्वाऽऽश्रित्य (मग्गण त्ति) मार्गणा अन्वेषणा कर्त्तव्या / कासु ? चतसृष्वपि गतिषु / तद्यथा-नमस्कारः किमरित, न वा ? अस्तीति ब्रूमः / तत्र चतुष्प्रकारायामपि गतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याःकदाचिद्भवन्ति, कदाचिन्नेति / एवमिन्द्रियाऽऽदिष्वपि चरमान्तेषु द्वारेषु यथा पीठिकायां मतिज्ञानस्य सत्पदप्ररूपणता कृता, तथा नमस्कारस्यापि कर्तव्या, तयोरभिन्नस्वामित्वेनैकवक्तव्यत्वादिति। तदेवं गतं सत्पदप्ररूपणताद्वारम् / / 2616 / / 2620 / / अथद्रव्यप्रमाणद्वारमुच्यते-तत्र नमस्कारवज्जीवद्रव्यप्रमाणं वक्तव्यम्। एकस्मिन् समये कियन्तो नमस्कारं प्रतिपद्यन्ते, सर्वे वा कियन्त इति? क्षेत्रमिति क्षेत्रं वक्तव्यम्-कियतिक्षेत्रे नमस्कारः रांभवति ? स्पर्शना च वक्तव्या-कियद्भुवं नमस्कारवन्तः स्पृशन्ति। इदं च द्वारत्रयमधिकृत्याऽऽहपलियमसंखेजइमो, पडिवन्नो होज खेत्त लोगस्स। सत्तसु चोद्दसभागे -सु होज फुसणा वि एमेव / / 2621 / / (पलियेत्यादि) इह सूचनात्सूत्रख्यायमर्थ:-नगस्कारस्य प्रतिपत्तिमङ्गीकृत्य लोके कदाचिद्भवन्ति, कदाचिन्नेति / यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु सूक्ष्मक्षेत्रे पल्योपमासंख्येयभागप्रदेशराशितुल्या इति / पूर्वप्रतिपन्नास्तु जघन्यतः सूक्ष्मक्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्ट तस्तेभ्यो विशेषाधिका इति। (खेत्त त्ति) क्षेत्रद्वारमुच्यते-तत्र नमस्कारवान जीव ऊर्द्धमनुत्तरसुरेषु गच्छल्लोकेस्य सप्तसु चतुर्दशभागेषु भवति, अधस्तु षष्ठपृथिव्यां गच्छन् पशसु चतुर्दशभागेषु भवतीति द्रष्टव्य -म् / स्पर्शनाद्वारमप्येवं वक्तव्यम् / क्षेत्रस्पर्शनयोस्तु प्रामुक्तो विशेष इति / / 2621 // कालान्तरभावलक्षणं द्वारत्रयमधिकृत्याऽऽहएगं पडुच हेट्ठा, जहेव नाणाजियाण सव्वद्धा। अंतर पडुचमेगं, जहन्नमंतोमुहुत्तं तु / / 2622 / / उक्कोसणंतकालं, अवड्वपरियट्टगं च देसूणं / णाणाजीवे णत्थि उ, भावे य भवे खओवसमे / / 2623 / / एकं नमस्कारवन्तं जीवं प्रतीत्य (हेट्ठा जहेब त्ति) यथैवाऽधस्तादनन्तरमिहैव " उवओग पडुच्चंतो, मुहुत्तलद्धीएँ होइ उ जहन्ना / ' (2612) इत्यादिना काल उक्तः, तथेहापि वक्तव्यः / नानाजीवानां तु नमस्कारः सद्धिा सर्वकालं भवति, लोके तस्य सर्वदाऽविच्छेदादिति प्रतिपत्तिः। तस्य पुनर्लाभऽन्तरमप्येक जीवं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त भवति // 2622 / / उत्कृष्टतस्त्वपार्द्धपुद्गलपरावर्तलक्षणोऽनन्तकाल इति / नानाजीवास्तु प्रतीत्य नास्त्यन्तरं, तदविच्छित्तेरेवेति / भावे तु क्षायोपशमिके नमस्कारो भवेदिति प्राचुर्यमङ्गीकृत्यैतदुक्तम् , अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकाऽऽदीनाम् , आपशमिके श्रेण्यन्तर्गतानामिति / / 2623 // भागद्वारमाहजीवाणऽणंतभागो, पडिवन्नो सेसगा अणंतगुणा। वत्थु तरहंताई, पंच भवे तेसिमो हेऊ / / 2624 / / जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते / शेषकास्तु तमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः / इदं च भागद्वारं गाथायां भावद्वारा पूर्वमुपन्यस्तमपि व्यत्पयेन निर्दिष्ट, विचित्रत्वात्सूत्रगतेः / अल्पबहुत्वद्वारमपि नेह विवृतम् / पीठिकायां मतिज्ञानस्येव च भावनीयमिति / साम्प्रतं चशब्दाऽऽक्षिप्तां पञ्चविधाऽऽदि-प्ररूपणामनभिधाय वस्तुद्वार तावदाह-(वत्थुमित्यादि) वस्तु द्रव्यं दलिक नमस्कारस्य योग्यमहमित्यनर्थान्तरम् , तचेह नमस्कारार्हाः पश्चाईदादयो मन्तव्याः। तेषां च वस्तुत्वेन नमस्कारार्हत्वेऽयं वक्ष्यमाणलक्षणो हेतुः / इति नियुक्तिगाथासप्तकार्थः / / 2624 / / इह" एगं पडुच हेट्ठा जहेव" (2622) इत्यादिना नम स्कारस्य कालद्वार निरूपितम्। अथवा-अन्यथा त चिन्तनीय, कथम् ? इत्याह भाष्यकार:अहवोसप्पुस्सुप्पिणि-कालो नियओ य तस्विसिट्ठोय। तत्थऽत्थि नमोकारो, न व त्ति णेयं जहा सुत्तं / / 2625 / / अथवा-अबोत्सर्पिण्यवसर्पिणीलक्षणः कालो गृह्यते। स च भरतैरवतेषु नियतः प्रतिनियतेन निजस्वरूपेण वर्तते, हैमवतहरिवर्ष-देवकुरूत्तरकुरुमहाविदेहरम्यकरण्यवर्तषु पुनस्तद्विशिष्टः। तस्मादुत्सर्पिण्यवसपिणीकालाद्विशिरो विशेषितस्तत्प्रतिभागरूप एव कालोऽस्ति / तत्र द्विविधेऽपि काल नमस्कारोऽस्ति, न वा ? इति चिन्तायां यथा श्रुतं श्रुतसामायिक पूर्वमुक्तं, तथाऽत्रापि ज्ञेयं, नमस्कारस्यापि श्रुतविशेषरूपत्वादिति / / 2625 / / इह च "संतपयपरूपणया (2618) इत्यादिनवद्वाराणां कि शिवशाख्यातं, किञ्चिन्नेत्यतो भाष्यकारोऽतिदेशमाहमइसुयनाणं नवहा, नंदीए जह परूवियं पुव्वं / तह चेव नमोकारो, सो वि सुयभंतरो जम्हा।। 2626 / / सुगमा / / 2626 / / विशे० / आ० म०। (आभिनिबोधिक श्रुतज्ञानशब्दावलोकनावसेया चेयम्) अथ चशब्दसूचितां पञ्चविधप्ररूपणामाहआरोवणा य भयणा, पुच्छा तह दायणाय निजवणा। एसा वा पंचविहा, परूवणा रोवणा तत्थ / / 2627 / / आरोपणा च भजना, पृच्छा तथा-दायना दर्शना दापना वा, निर्यापना वक्ष्यमाणरूपा, एषा वा प्ररूपणा पश्चविधा ज्ञेया इति / / 2627 // तत्राऽऽरोपणा का? इत्याहकिं जीयो होज नमो, नमो व जीवो तिजं परोप्परओ। अज्झारोवणमेसो, पजणुजोगो मया रुवणा / / 2628 / / कि जीव एव भवेन्नमस्कारः, नमस्कार एव वा जीव इति यत् परस्परावधारणादध्यारोपणं पर्यनुयोजनमेष पर्यनुयोग आरोपणा मता संमतेति / / 2628 //