________________ णमि 1818 - अभिधानराजेन्द्रः भाग - 4 णमि काङ्गया परिहरति; यथा ब्रह्मदत्तचक्रवादिः, सद्विवेकश्च भवानित्यादिहेतुकारणे सुचिते इति सूत्रार्थः / / 51 / / (तत्कथा 'बंभदत्त' शब्दे) तदनुएयमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी / / 52 / / प्राग्वत् / / 52 // सल्लं कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेजमाणा य, अकामा जंति दुग्गइं / / 53 / / (सल्लं ति) देहान्तश्चलतीति शल्यं शरीरन्तिःप्रविष्ट तोमराऽऽदि, शल्यमिवशल्यम्। के ते? काम्यमानत्वात् कामाः, मनोज्ञशब्दाऽऽदयः / यथाहि-शल्यमन्तश्चलद्विविधवाधाविधायि, तथैतेऽपि, तत्वत एषामपि सदा वाधाविधायित्वात्। तथा वेवेष्टि व्याप्नोतीति विषं तालपुटाऽऽदि, विषमिव विष कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ परिणतावतिदारुणम् , एवमेते अपि कामाः, तथा कामाः-आश्वो दंष्ट्राः, तासु विषमस्येत्याशीविषः, तदुपमाः / यथा ह्ययमहरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनाऽऽदिभिरनुभूयमानश्च विनाशायैव भवति, तथैतेऽपि कामाः ? किञ्च-कामान् प्रार्थयमाना अभिलषन्तः, अपि शब्दस्य लुप्तनिर्दिष्टत्वात्प्रार्थय-माना अपि, अकामा इष्यमाणकामाभावाद, यान्ति गच्छन्ति, दुर्गतिं दुष्टां नरकाऽऽदिगतिम् / तदनेन न केवलं शल्याऽऽदिवदनुभूयमाना एवामी दोषकारिणिः, किं तु प्रार्थ्यमाना अपीत्युक्तं भव-ति / तथा यः सद्विवेको, नासौ प्राप्तमप्राप्ताऽऽकाडया जहातीत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः। न ह्ययमेकान्तः, यथाप्राप्तमप्राप्तार्थेन ; प्राप्तस्याप्यपायहेतोस्तदुच्छेदकाप्राप्तार्थ विवेकिभिः परिह्रियमाणत्वात् ; अनभ्युपगतोपालम्भश्चायाम् , मुमुक्षूणां क्वचिदाकामाया एवासंभवात् / उक्तं हि-" मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः।" इति सूत्रार्थः / / 53 / / कथं पुनः कामान् प्रार्थयमाना दुर्गति यान्ति ? अत आहअहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडीधाओ,लोभाओ दुहओ भयं / / 54 / / अधो नरकगतो, व्रजति गच्छति, क्रोधेन कोपेन, मानेनाहङ्कारेण, अधमा नीचा गतिः, भवतीति गम्यते। (माय त्ति) सूव्यत्ययात् मायया परवञ्चनाऽऽत्मिकया, गते:-प्रस्तावात् सद्गतेः, प्रतिघातो विनाशो गतिप्रतिघातो भवति / लोभाद्गार्ग्यलक्षणात् , (दुहओ ति) द्विधा द्विःप्रकारम्-ऐहिक, पारत्रिकंच। विभ्यत्यस्मादिति भयं दुःखं, तदाशङ्खने साध्वसं च। कामेषु प्रार्थ्यमानेष्ववश्यंभावी क्रोधसंभवः, स चेद्दगिति कथन, तत् प्रार्थनातो दुर्गतिगमनमित्यभिप्रायः / यद्वा-सर्वमपि यदिन्द्रेणोक्तं तत्कषायानुपातीति तद्विपाकानुवर्णनमिदमिति सूत्रार्थः / / 54 / / एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोत् ? इ-त्याहअवउज्झिऊण माहण-रूवं च विउव्विऊण इंदत्तं / वदइ अभित्थुणंतो, इमाहि महुराहि वग्गूहिं / / 55 / / अहो ! ते निजितो कोहो, अहो ! माणो पराजितो। अहो ! निरकिया माया, अहो ! लोभो वसीकओ // 56 // / अहो ! ते अज्जवं साहु, अहो ! ते साहु महवं / / अहो ! ते उत्तमा खंती, अहो ! ते मुत्ति उत्तमा / / 57 / / (अवउज्झिऊण ति) अपोह्य त्यक्त्वा, ब्राह्मणरूपं धिन्वर्णवेष, (विउव्विऊणं ति) विकृत्य, इन्द्रत्वमुत्तरवैक्रियरूपमिन्द्रभाव, वन्दतेऽनेकार्थत्वात् प्रणमति, अभिष्टुवन्नभिमुखेन स्तुति कुर्वन् , इमाभिरनन्तरवक्ष्यमाणाभिः, मधुराभिः श्रुतिसुखाभिः, (वग्गूहि ति) आर्षत्वाद् वाग्भिर्वाणीभिः / / 55 / / तद्यथा-अहो ! इति विस्मये, (ते त्ति) त्वया, नितरामतिशयेन जितोऽभिभूतो निर्जितः, क्रोधः कोपः, यतस्त्वमनानमत्पार्थिववशीकरणप्रेरणायामपिन क्षुभित इत्यभिप्रायः / तथा अहो ! त्वया मानोऽहमितिप्रत्ययहेतुः, पराजितोऽभिभूतः, यस्त्वं मन्दिरं दह्यत इत्याधुक्तेऽपि कथं मयि जीवतीदमिति नाहड्कृति कृतवानिति॥५६॥ तथा-(अहो निरक्किय ति) प्राकृतत्वान्निराकृताऽपास्ता माया, यस्त्वं पुनः रक्षाहेतुप्राकाराट्टालकोच्छूलकाऽऽदिषु निकृतिहेतुकेष्वामोषकोत्सादनाऽऽदिषु च न मनो निहितवान् / तथाअहो ते लोभो वशीकृत इति नियन्त्रितः, यस्त्वं हिरण्याऽऽदि वर्द्धयित्वा गच्छति सहेतुकमभिहितोऽपि इच्छाया आकाशसमत्वमेवोदाहृतवान् , अतएव अहो ! तेतवाऽऽर्जवं विनयवत्त्वं, साधुशोभनम् , अहो! ते साधु मार्दवं मृदुत्वम् , अहो ! ते उत्तमा प्रधाना क्षान्तिः कोपोपशमलक्षणा, अहो ! ते मुक्तिर्निर्लोभता, उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्वपि प्ररूपणाङ्गमितिकृत्वेति सूत्रार्थः / / 57 / / इत्थं गुणोपवर्णनद्वारेणाभिष्टुत्व संप्रति फलोपदर्शनद्वारेण प्रस्तुवन्नाहइह सि उत्तमो भंते ! पच्छा होहिसि उत्तमो। लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ।। 58 // इहास्मिन् जन्मनि, असि भवसि, उत्तमः प्रधानः उत्तमगुणान्वितत्वात्। (भंते ति) पूज्याभिधानम् / पश्चात् प्रेत्य परलोके भविष्यस्युत्तमः / कथमित्याह-लोकस्य चतुर्दशरज्ज्वात्मकस्य, उत्तमम्परिवर्ति लोकोत्तमम् / उत्तमंदर्वलाकोऽऽद्यपेक्षया प्रधानम् / अथवा(लोगुत्तममुत्तम त्ति) मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा, उत्तमोत्तममतिशयप्रधानं लोकोत्तमम् तिष्ठन्त्यस्मिन्नातःपरं गच्छन्तीति स्थानं, किं तत् ? इत्याह-सिद्धिं मुक्तिं, गच्छसि सूत्रत्वाद् गमिष्यसि, निर्गतो रजसः कर्मणः, इति सूत्रार्थः / / 58 // उपसंहारमाहएवं अमित्थुणंतो, रायरिसिं उत्तमाएं सडाए। पायाहिणं करेंतो, पुणो पुणो वंदई सक्को / / 56 / / एवममुनोक्तन्यायेन, अभिष्टुवन् राजर्षिमुक्तरूपं, प्रक्रमान्नमिम् , उत्तमया प्रधानया, श्रद्धया भक्त्या, (पायाहिणं ति) प्रदक्षिणां, कुर्वन् विदधत्, पुनः पुनः वन्दते प्रणमति, शक्रः पुरन्दरः, इति सूत्रार्थः / / 56 / / अनन्तरं च यत्कृतवाँस्तदाहतो वदिऊण पाए, चकंकुसलक्खणे मुणिवरस्स / आगासेणुप्पइओ, ललियचवकुंडलतिरीडी।। 60 // ततस्तदनन्तरं, पाठान्तरतश्च-(स इति) शक्रः, वन्दित्वा, पादौ चरणी, चक्रं चाकु शश्च प्रतीतायेव, तत्प्रधानानि लक्षणानि