SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ णमि 1817 - अभिधानराजेन्द्रः भाग - 4 णमि धर्मो यस्य सोऽयं स्वाख्यातधर्मा, तस्य, चारित्रिण इत्यर्थः / कलां भागमपि, अर्हति षोडशी षोडशपूरणीम्।। इदमुक्तं भवति-स समोऽपि न भवति, किं पुनस्तुल्यः, अधिको वा / ततो यदुक्तं-यद्यद् घोरं न तत्तद्धर्मार्थिनाऽनुष्ठेयम् , अनशनाऽऽदिवदित्यत्र धोरत्वादि-त्यनैकान्तिको हेतुः / घोरस्यापि व्याख्यातधर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वात् , अन्यस्य त्वात्मविघाताऽऽदिवदन्यथात्वात्। प्रयोगश्चात्रयत् स्वाख्यातधर्मरूपं न भवति घोरमपि न तद्धर्मार्थिनाऽनुष्ठेयम, यथा-आत्मवधाऽऽदिः, तथा च गृहाऽऽश्रमः, तद्रूपत्वं चास्य सावद्यत्वाद् हिंसाऽऽदिवदित्यलं प्रसङ्गेन। शेष प्राग्वदिति सूत्रार्थः / / 44 // ततश्चएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमव्ववी / / 45 / / 'एयं ' सूत्रं प्राग्वत्।। 45 // नवरं यतिधर्मे दृढोऽयमिति निश्चित्य, दुरन्तोऽयमभिष्वङ्ग इति तद्भावं परीक्षितमपि पुनः परीक्षितुमिन्द्र उवाचहिरण्णं सुवण्णं मणिसुत्तं, कंसं दूसं च वाहणं / कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिया !|| 46 // हिरण्यं सुवर्ण, स्वर्ण शोभनवर्णं, विशिष्टवर्णकमित्यर्थः / यद्वाहिरण्य घटितस्वर्णम् , इतरत्तु सुवर्ण, मणयश्वेन्द्रनीलाऽऽदयः, मुक्ताश्च मौक्तिकानि, मणिमुक्तम्। तथा काश्य काश्यभाजनाऽऽदि, दूष्यवस्वाणि, चःस्वगतानेकभेदसंसूचकम्। वाहन रथाश्वाऽऽदि। वाचनान्तरे पठन्ति च-(सवाहणं ति) सह वाहनैर्वति इति सवाहनम् , हिरण्याऽऽदीति संबन्धः / कोशं भाण्डागारं धर्मलाभाऽऽद्यनेकवस्तुस्वरूप (बद्धावइत्ता णं ति) वृद्धि प्रापय्य, ततः समस्तवस्तुविषयेच्छापरिपूर्ती, गच्छ क्षत्रिय ! अयमाशयः-यः साऽऽकासो नासौ धर्मानुष्ठानयोग्यो भवति, यथा मम्मणवणिक, साऽऽकासश्च भवान्, आकासश्च भवान्, आकाङ्क्षणीयविहरण्याऽऽदिवस्त्वपरिपूर्तेः, तथाविधद्रमकवदिति / शेषं प्राग्वदिति सूत्रार्थः // 46 // (तत्कथा' मम्मण शब्दे वक्ष्यते) कैलाशपर्वततुल्या एव, न त्वन्यलधुपर्वतप्रमाणाः, तेऽप्यसंख्याकाः संख्याविरहिताः, न तु द्वित्रा एव, नरस्य पुरुषस्य, उपलक्षणत्वात् स्त्रियः, पण्डकस्य वा / न तैः कैलाशसमैरसंख्यैरपि सुवर्णरूप्यपर्वतैः, किञ्चिदप्यल्पमपि, परितोषोत्पादन प्रति क्रियत इति शेषः / वाचनान्तरे पठ्यते च-(नतेण त्ति) अत्र च सूत्रत्वाद्वचनव्यत्ययः। कुतःपुनरिदम् ? इत्याह-इच्छा अभिलाषो, हुरिति यस्मात् , आकाशेन समा तुल्या आकाशसमा, अनन्तिका अन्तरहिता। तथा चैतदनुवादी वाचक:-"न तुष्टिरिह शताजन्तोर्न सहस्रान्न कोटितः / न राज्यान्नैव देवत्वान्नेन्द्रत्वादपि विद्यते॥१३॥" / / 48 // किं सुवर्णरूप्ये केवले एव नेच्छापरिपूर्तये ? इत्याशक्याऽऽह- पृथ्वी मही, शालयो लोहितशाल्यादयः, यवाः प्रतीताः, चः शेष-धान्यसमुच्चयार्थः / एवोऽवधारणे, स च भिन्नक्रमो नेत्यस्यान्तरं योज्यते। हिरण्यं सुवर्ण, ताम्राऽऽद्युपलक्षणमेतत् , पशुभिर्गवाश्वाऽऽदिभिः, सह सार्द्ध, प्रतिपूर्ण समस्तम्।वाचनान्तरे पठन्ति च-(सव्वंतंति) सर्वमशेष, न तु कियदेव, तत् पृथिव्यादि / नेति नैव, अलं समर्थ, प्रक्रमादिच्छापरिपूर्तये / एकस्याद्वितीयस्य, जन्तोरिति गम्यते / इत्येतत् श्लोकदयोक्तम् , (विज त्ति) सूत्रत्वाद्विदित्वा / यद्वा-इतीत्यस्माद्धेतोः, विद्वान पण्डितः, तपोद्वादशविधं, चरेदासेवेत। ततएव निस्पृहतयेच्छापरिपूर्तिसंभवादिति भावः / अनेन च संतोष एव निराकासतायां हेतुर्न तु हिरण्याऽऽदिवर्द्धनमित्युक्तम् / तथा च हिरण्याऽऽदि वर्द्धयित्वेत्यत्र यदनुमानमुक्त, तत्र साकाङ्गत्वलक्षणो हेतुरसिद्धः, न चाऽऽकालणीयवस्त्वपरिपूर्ते स्तस्य सिद्धत्वं, संतुष्टतया ममाऽऽकामणीयवस्तुन एवाभावादिति सूत्रार्थः / / 46 / / भूयोऽपिएयमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमव्ववी / / 50 // 'एयमटुं ' सूत्रं प्राग्वत्॥५०॥ नवरम् , अविद्यमानविषयेषु विषयवाऽछानिवृत्तोऽयमिति निश्चित्य, सत्सु तेष्वभिषङ्गोऽस्तु, नवा ? इति, विवेचयितुमिन्द्र उवाचअच्छेरयमन्भुदए, भोए जहसि पत्थिवा! असंते कामे पत्थेसि, संकप्पेण विहण्णसि // 51 // (अच्छेरयं ति) आश्चर्यं वर्तते, यत् त्वमेवंविधोऽपि (अब्भु-दए त्ति) अद्भुतकानाश्चर्यरूपान, भोगान् कामान् , जहासि त्यजत्रि। वाचनान्तरेपठ्यतेच-(चयसि त्ति) पार्थिव ! पृथिवी-पते! पाठान्तरश्चक्षत्रिय ! अथवा-(अब्भूइए त्ति) अभ्युदये; ततश्च यदभ्युदयेऽपि भोगाँस्त्वं जहासि तदाश्चर्य वर्तते / तथा-तस्यागतश्च-असतोऽविद्यमानान्, कामान् , प्रार्थयसेऽभिलषसियत, तदप्याश्चर्यमिति संबन्धः। अथवा-कस्तवात्र दोषः? संकल्पेन उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन, विहन्यसे विविध वाध्यसे, एवंविधसंकल्पस्यापर्यवसितत्वादुक्तमः अमीषा स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनां शक्राऽऽदयोऽपि नो तृप्तिविशेषाणामुपागताः। यदा-(अच्छेरगमब्भुदए त्ति) मकारोऽलाक्षणिकः। ततश्चाssश्चर्यामृत्योरकार्थत्वेऽप्युपादानममतिशयख्यापनार्थम्। अतिशयाद्भुतान् भोगान् जहासि पार्थिव! असतश्च कामान् प्रार्थयसि यत्, तत्संकल्पेनैवोक्तरूपेण, विहन्यसे वाध्यसे / कथं ह्यन्यथा विवेकिनस्तवैतत्संभवेत्, एतेन च यः सद्विवेको, नासौ प्राप्तान विषयानप्राप्ताऽ5 ततः एयमढे निवामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी।। 47 / / प्राग्वत् / / 47 / / सुवण्णरुप्पस्स उपव्वया भवे, सिया हु के लाससमा असंखया! नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया // 48|| पुढवी साली जवा चेव, हिरण्णं पसुहिं सह। पडिपुण्णं नालमेगस्स, इह विजा तवं चरे।। 46 || सुवर्ण रूप्यं च सुवर्णरूप्यमिति समाहारः / तस्य, तुः पूरणे / यद्वाआर्षस्वाद्विभक्तिलोपः, तुशब्दश्च समुचये, ततः सुवर्णस्य रूप्यस्य चपर्वता इव पर्वताः पर्वतप्रमाणा राशयः, (भवे ति) भवयु : स्युः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युः, अत आह-(सिया हु त्ति) स्यात् कदाचित् हुरवधारण, भिन्नक्रमश्च, ततः कैलाशसमा एव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy