________________ णमि 1816 - अभिधानराजेन्द्रः भाग-४ णमि पञ्चेन्द्रियाऽऽदीनीति, किं पृथक् तज्जयाभिधानेन ? सत्यम्-तथाऽपि प्रत्येकं दुर्जयत्वख्यापनाय पृथगुपन्यास इत्यदोषः / यद्वा- (दुज्जयं चेव अप्पाणं ति) चकारो हेत्वर्थः, एवोऽवधारणे, भिन्नक्रमश्च-आत्मशब्दानन्तरं द्रष्टव्यः / ततश्च यस्मादात्मैव जीव एवदुर्जयस्ततः सर्वमिन्द्रियाऽ5द्यात्मनि जिते जितम्। अनेन चेन्द्रियाऽऽदीनामेव दुःखहेतुत्वात्तज्जयतः सुखप्राप्तिः समर्थिता भवति। एवं च फलोपदर्शनद्वारेणैवंविधैव जिगीषुता श्रेयसीत्याचष्टे / ततश्च यो नृपतिरित्याद्यपि तत्त्वतो विजिगीषुत्वदर्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रत्रयार्थः // 36 / / __ भूयोऽपिएयमढें निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमव्ववी।। 37 / / प्राग्वत्।। 37 // नवरमनन्तरपरीक्षातो द्वेषोऽप्यनेन परिहृत इति निश्वित्य, जिनप्रणीतधर्मं प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्जइत्ता विउले जपणे, भोएत्ता समणमाहणे। दचा भोचा य जिट्ठा य, तओ गच्छसि खत्तिया! / / 38 / / (जइत्त ति) याजयित्वा विपुलान् विस्तीर्णान् , यज्ञान यागान् , भोजयित्वा-अभ्यवहार्य, श्रमणाश्च निर्ग्रन्थाऽऽदयो, ब्राह्मणाश्च द्विजाः, श्रमणब्राह्मणाः, तान् , द्विजाऽऽदिभ्यो गोभूमिसुवर्णाऽऽदीन् दत्त्वा भुक्त्वा च मनोज्ञशब्दाऽऽदीन् इष्ट्वा च राजर्षित्वात् स्वयमेव यज्ञान ततो गच्छ क्षत्रिय ! अनेन यद्यत्प्राणिप्रीतिकरंतत्तद्धर्माय, यथा हिंसोपरमाऽऽदि, प्राणिप्रीतिकराणि चामूनि यागाऽऽदीनीत्यादिनीत्या हेतुकारणे सूचिते एवेति सूत्रार्थः / / 38 // __ शक्रवचनानन्तरम्एयमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी।।३९ / / सूत्रं प्राग्वत्॥३६॥ जो सहस्सं सहस्साणं,मासे मासे गवं दए। तस्सा वि संजमो सेओ, अदितस्स वि किंचण / / 40 // यसहस्रं सहस्राणां दशलक्षाऽऽत्मक, मासे मासे, गवां प्रतीताना, (दए त्ति) दद्यात् , तस्याप्येवंविधस्य दातुर्यदि कथश्चिारित्रमोहनीयक्षयोपशमेन संयम आश्रवाऽऽदिविरमणाऽऽत्मकः स्यात् , तदा स एव श्रेयानतिशयप्रशस्यः। कथंभूतस्यापि ? अददतोऽप्ययच्छतोऽपि, किञ्चन स्वल्पमपि वस्तु / यद्वा-(तस्सा वि त्ति) तस्मादप्युक्तरूपाद् ददतुरवधित्वेन विवक्षितात्संयच्छति प्राणिहिंसाऽऽदिभ्यः सम्यगुपरमतीति, सर्वधातूनां पचाऽऽदिषु दर्शनादचि संयमः संयमवान् , साधु रित्यर्थः / श्रेयान् प्रशस्यतरः / अथवा तस्यापि दातुः, प्रक्रमादगोदानधर्मात्, संयम उक्तरूपः, श्रेयान् / शेषं पूर्ववत् / गोदानं चेह यागाऽऽधुपलक्षणमतिप्रभूतजनाऽऽचरितमित्युपात्तम् / एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागाऽऽदीनां सा-वद्यत्वमर्थादावेदितम् / तथा च यज्ञप्रणेतृभिरुक्तम्-" षट् शतानि नियुज्यन्ते, पशूनां / मध्यमेऽहनि। अश्वमेघस्य वचनाद् , न्यूनानि पशुभिस्त्रिभिः / / 1 // " इयत्यस्तु वधे च कथमसावधता नाम? तथा दानान्यप्शनाऽ5 दिविषयाणि, धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते ? यत आह-" अशनाऽऽदीनि दानानि, धर्मोपकरणानि च / साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः" // 1 // शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमदहेतुतया सावधान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धम्; तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः / प्रयोगश्वयत्सावा तत्प्राणिप्रीतिकरं न, यथा हिंसाऽऽदि, सावधानि च यागाऽऽदीनीति सूत्रार्थः // 40 // एयमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमव्ववी।। 41 / / 'एयम8 ' सूत्रं प्राग्वत्॥ 41 / / नवरम् , इत्थं जिनधर्मस्थैर्यमवधार्य, प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थ शक्र इदमब्रवीत्घोराऽऽसमं चइत्ता णं, अन्नं पत्थेसि आसमं। इहेव पोसहरओ, भवाहि मणुयाहिवा ! // 42 // धोरोऽत्यन्तदुरनुचरः, स चासावाश्रमश्च, आडिति स्वपरप्रयोजनाभिव्याप्त्या, श्रामन्ति खेदमनुभवन्त्यस्मिन्निति कृत्वा धोराऽऽश्रमो गार्ह स्र्थ्यम् , तस्यैवाल्पसत्त्वैः दुष्करत्वात् / यत आहुः- "गृहाऽऽश्रमसमोधर्मो, न भूतो न भविष्यति। पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः / / 1 / / ' तं, त्यक्त्वाऽपहाय," जहिता णं ति" क्वचित्पाठः / तत्र च हित्वा, अन्यमेतद्व्यतिरिक्तं कृषिपाशुपाल्याऽsद्यशक्तकातरजनाभिनन्दितं, प्रार्थयसेऽभिलषसि, आश्रम प्रव्रज्यालक्षणं, भेदं क्लीबसत्वानुचरितं भवादृशामुचितमित्यभिप्रायः / तर्हि किमुचितम् ? इत्याह-इहैवास्मिन्नेव गृहाश्रमे, स्थित इति गम्यते। पोष धर्मपुष्टिंधत्त इति पोषधः, अष्टम्यादितिथिषुव्रतविशेषः, तत्र रत आशक्तः पोषधरतो, (भवाहि त्ति) भव, अणुव्रताऽऽद्युपलक्षणमेतत् , अस्यैवोपादानं पोषधदिनेष्ववश्यंभावतस्तपोऽनुष्ठानख्यापकम् / यत आह आश्वसेनः- " सर्वेष्वपि तपोयोगः, प्रशस्तं कालपर्वसु / अष्टभ्यां पञ्चदश्यां च, नियतः पोषधं चरेत्॥१॥" इति। मनुजाधिप ! नृपते ! अत्र च घोरपदेन हेतु-राक्षिप्तः। तथाहि-यद्यद्घोरं तद् तद्धर्मार्थिनाऽपि अनुष्ठेयं, यथाऽनशनाऽऽदि, तथा चायं गृहाऽऽश्रमः, शेषर्मतदनुसारतोऽभ्यूह्यमिति सूत्रार्थः / / 42 // ततश्चएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी॥४३॥ प्राग्वत्।। 43 // मासे मासे उ जो बालो, कुसग्गेण उ भुंजए। न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं // 44 // " मासे मासे " इति वीप्सायां द्विवचनम् , तुरिहोत्तरत्र चैवकारार्थः, ततश्च मासे मासे एव, न त्वेकस्मिन्नेव मासे, अर्द्धमासाऽऽदो वेति, यः कश्चिद् बालोऽविवेकः, कुशाग्रेणैव तृणविशेषप्रान्तेन, भुङ्क्ते / एतदुक्तं भवतियावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरन्, नातोऽधिकम; अथवा कुशाग्नेणेति जातावेकवचनम् / तृतीया तु ओदनेनासौ भुक्तइत्यादिवत् साधक-तमत्वेनाभ्यवहियमाणत्वेऽपि विवक्षितत्वात् / नेति निषेधे / स इति यः कुशागैर्भुङ्क्तेस एवंविधकष्टानुष्ठाय्यपि, सुष्टु शोभनः सर्वसावद्यविरतिरूपत्वात् , आडित्यभिव्याप्त्या, ख्यातस्तीर्थकराऽऽदिभिः कथितः स्वाख्यातः,तथाविधो