________________ णमि 1815 - अभिधानराजेन्द्रः भाग - 4 णमि तओ नमिं रायरिसिं, देविंदो इणमय्ववी / / 27 // प्राग्वत्।। 27 // आमोसे लोमहारे य, मंठिभेए य तकरे। नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ! ||28|| आ समन्ताद् मुष्णवन्ति स्तैन्यं कुर्वन्तीत्यामोषाः, तान् , लोमानि हरन्ति व्यपनयन्ति प्राणिनां ये ते लोमहाराः / किमुक्तं भवति ? निस्त्रिशतया, आत्मविघाताऽऽशङ्कया च प्राणान् निहत्यैव ततः सर्वस्वमपहरन्ति / तथा च वृद्धाः-" लोमहाराः प्राणहाराः " इति / तांश्च, ग्रन्थि द्रव्यसंबन्धिनी भिन्दन्ति घुघुरुकद्विकर्तिकाऽऽदिना विदारयन्तीति ग्रन्थिभेदाः, तान् , चशब्दो भिन्नक्रमः / तदेव कुर्वन्ति तस्कराः, सर्वकालं चौर्यकारिणः, तांश्च / यत आहुर्वैयाकरणाः-" तबृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च / " (वार्ति०) इह चोत्साद्येति गम्यते, प्रविश्य पिण्डीमित्युक्तौ भक्षयेतिवत् / यद्वासाम्येवेयं, बह्वर्थे चैकवचनम् , ततश्चाऽऽमोषाऽऽदिषूपतापकारिषु सत्सु, नगरस्य पुरस्य क्षेमं सुस्थं, कृत्वा विधाय, ततस्तदनन्तरं, गच्छ क्षत्रिय ! एतेनापि यः सधर्मा नृपतिः, स इहाधर्मकारिनिग्रहकृत, यथा भरताऽऽदिः, सधर्मनृपतिश्च भवानित्यादि-हेतुकारणसूचना कृतैवेति सूत्रार्थः // 28 // इत्थं शक्रोक्तोएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी / / 26 / / असई तु मणुस्सेहि, मिच्छा दंडो पउंजइ। अकारिणोऽत्थ बझंति, मुच्चई कारओ जणो / / 30 // असकृदनेकधा, तुरेवकारार्थः, ततश्चासकृदेव, मनुष्यैर्मनुजैः, मिथ्या व्यलीकः / किमुक्तं भवति?-अनपराधिष्वप्यज्ञानाहङ्काराऽऽदिहेतुभिरपराधिष्विव, दण्डनं दण्डोदेशत्यागशरीरनिग्रहाऽऽदिः, प्रयुज्यते व्यापार्यते। कथमिदम् ? इत्याह-अकारिण आमोषणाऽऽद्यविधायिनः, अत्रेत्यस्मिन् प्रत्यक्षत उपलभ्यमानमनुष्यलोके, दध्यन्ते निगडाऽऽदिभिर्नियन्त्र्यन्ते; मुच्यते त्यज्यते, कारको विधायकः, प्रकृतत्वादामोषणाऽऽदीनाम्।जनोलोकः / तदनेन यदुक्तम्-प्रागामोषकाऽऽद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तम् / यत्तु यः सधर्मेत्यादि सूचितम्, तत्रापरिज्ञानतोऽनपराधिनामपि दण्डमाददतां सधर्मनृपतित्वमपि तावचिन्त्यमित्यसिद्धता हेतोरिति सूत्रार्थः // 26 // 30 // एयम8 निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमव्ववी।। 31 / / प्राग्वत् // 31 // नवरमियता स्वजनान्तःपुरपुरप्रासादनृपतिधर्मविषयः किमस्याभिष्वङ्गोऽस्ति, नेति वेति विमृष्य, संप्रति द्वेषाभावं विवेक्तुमिच्छुर्विजिगीषुतामूलत्वात् द्वेषस्य, तामेव परीक्षितुकामः शक्र इदमुक्तवान्जे केइ पस्थिवा तुभं (तुज्झमिति ),नाणमंति नराहिवा! वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिया / / 32 / / ये केचिदिति सामस्त्योपदर्शकम् , पार्थिवा भूपालाः, (तुटभं ति) तुभ्यं, नानमन्ति न मर्यादया प्रीभवन्ति, तुभ्यमिति नमतीतियोगेऽपि चतुर्थी, " मात्रे पित्रे सवित्रे च, नमामि " इत्यादिवददुष्टव / वाचनान्तरे पठ्यते च-(तुझं ति) तत्र च तवेति शेषविवक्षया षष्ठी। ' नराहिवा ! " इत्यत्राऽऽकारो" हस्वदीर्घा मिथो वृत्तौ " || 8 | 1 / 4 / इति लक्षणात् (अयं तु प्रमादेनोल्लेखः, यतो हि'डो दीर्घा वा / / 8 / 3 / 38 / / इतिसूत्रं विवेचयता हेमचन्द्रसूरिणा प्राप्ताप्राप्तविभाषात्वमस्य सूत्रस्य समर्थितम् / तद् यथा-हे गुरू, हे गुरु, हे पहू , हे पहु, एषु प्राप्ते विकल्पः / हे गोयमा! हे गोयम! इह त्वप्राप्ते विकल्पः) ततश्च हेनराधिप ! नृपते ! वशे इत्यात्माऽऽयत्ते, तानित्यन्यात्पार्थिवान् , स्थापयित्वा निवेश्य, कृत्वेति यावत् / ततो गच्छ क्षास्त्रिय ! इहापि यो नृपतिः स नानमत्पार्थिवं नमयिता, यथा भरताऽऽदिरित्यादिहेतुकारणे अर्थत आक्षिप्ते, इति सूत्रार्थः // 32 // एवं तुसुरपतिनोक्तेएयमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी।। 33 // सूत्रं प्राग्वत्॥३३॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एवं जिणेज अप्पाणं, एस से परमो जओ // 34 // अप्पाणमेव जुज्झाहि, किं ते जुज्झेण वज्झओ? अप्पणा चेव अप्पाणं, जइत्ता सुहमेहए / / 35 / / पंचिंदियाणि कोह, मायं माणं तहेव लोभं च / दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जियं / / 36 / / य इत्यनुद्दिष्टनिर्देशे, सहसं दशशताऽऽत्मकं, सहस्राणां प्रक्रमात सुभटानाम्, संग्रामे युद्धे, दुर्जये दुरापपरपरिभवे, जयेदभिभवेत्। संभावने लिड्। एकमद्वितीय, जयेद् यदि कथञ्चिज्जीववीर्योल्लासतोऽभिभवेत्, कम् ? आत्मानं स्वं, दुराचारप्रवृत्तमिति गम्यते / एषोऽनन्तरोक्तः, (से इति) तस्य जेतुः, सुभटदशशतसहस्रजयात्परमः प्रकृष्टो, जयः परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्यमुक्तम्॥ 34 // तथा च (अप्याणमेव त्ति) तृतीयार्थे द्वितीया। ततश्चात्मनैव सह, युदयस्य संग्राम कुरु / यद्वायुधेरन्त वितण्यर्थत्वाद्युध्यस्वेति योधयस्व / कम् ? आत्मानम् इहाप्यात्मनैव सहेति शेषः / किम् ? न किञ्चिदित्यर्थः। ते तव, युद्धेन संग्रामेण, बाह्यत इति बाह्य पार्थिवाऽऽदिकमाश्रित्य, यदिवा बाह्य इतितृतीयार्थेतसिः, ततोबाह्येन युद्धेनेति संबध्यते। एवं च (अप्पणा चेव त्ति) आत्मनैवान्यव्यतिरिक्तन, आत्मानं स्वं, (जइत्त त्ति) जित्वा, सुखमैकान्तिकात्यन्तिकमुक्तिसुखाऽऽत्मकम् एधत इति- अनेकार्थत्वाद्धातूनां प्राप्नोति / (अहवा सुहमेहए ति) शुभं पुण्यमेधतेअन्तर्भावितण्यर्थत्वाद् वृद्धि नयति // 35 // कथमात्मन्येव जिते सुखावाप्तिः ? इत्याह-पञ्चेन्द्रियाणि श्रोत्राऽऽदीनि, क्रोधः कोपो, मानोऽहङ्कारो, माया निकृतिः, तथैव लोभश्च गा_लक्षणो, दुर्जयो दुरभिभवः, चः समुच्चये / एवेति पूरणे। अतति स-ततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेरात्मा मनः, सर्वत्र च सूत्रत्वानात्मना निर्देशः / सर्वमशेषमिन्द्रियादि, उपलक्षणत्वाद् मिथ्यात्याऽऽदि च, आत्मनिजीवे, जितेऽभिभूते, जितमित्यभिभूतमैवाननुमनसि जितेजितानि