________________ णमि 1813 - अभिधानराजेन्द्रः भाग - 4 णमि मिथिलायां पुरि, चितिरिह प्रस्तावात्पत्रपुष्पाऽऽधुपचयः, तत्र साधु चित्यं, ततः प्रज्ञाऽऽदेराकृतिगणत्वात् स्वार्थिकऽणि चैत्यमुद्यानम्। तस्मिन् (वच्छे त्ति) सूत्रत्वाद्धिशब्दलोपेवृक्षः,शीता शीतला छाया यस्य तच्छीतलच्छायं, तरिमन, मनश्चित्तं रमते धृतिमवाप्नोति यस्मिन् तन्मनोरमम्-मनोरमाभिधानं, तस्मिन्, पत्रपुण्यफलानि प्रतीतानि, तैरुपेतं युक्त पत्रपुष्पफलोपेतं, तस्मिन् , बहूनां प्रक्रमात् खगाऽऽदीनां, बहवो गुणा यस्मात्तत्तथा, तस्मिन् / कोऽर्थः ? फलाऽऽदिभिः प्रचुरोपकारकारिणि, सदा सर्वकालमिति सूत्रार्थः / / 6 / / तत्र किम् ? इत्याहवारण हीरमाणम्मि, चेइयम्मि मणोरमे। दुहिया असरणा अत्ता, एए कंदंति भो ! खगा।। 10 // वातेन वायुना, ह्रियमाणे इतस्ततः क्षिप्यमाणे ; वातश्च तदा शक्रेणैव कृत इति संप्रदायः / चितिरिहेष्टकाऽऽदिचयः, तत्र साधुर्योग्यश्चित्यः प्राम्वत्, स एव चैत्यः, तस्मिन्। किमुक्तं भवति? अधोबद्धपीठिके उपरि चोद्धृतपताके मनोरमे मनोऽभिरतिहेतौ, वृक्षे इति शेषः / दुःखं संजातं येषां ते दुःखिताः, अशरणास्त्राणरहिताः, अतएवाऽऽर्ताः पीडिताः, एते प्रत्यक्षाः, क्रन्दन्त्याक्रन्दशब्दं कुर्वन्ति, भो इत्यामन्त्रणम् , खगाः पक्षिणः / इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? ' इति यत् स्वजनजनाऽऽक्रन्दनमुक्तं, तत् खगकन्दनप्रायम् , आत्मा च वृक्षकल्पः, ततो हि नियतकालमेव सहावस्थितत्वेन, उत्तरकालं च स्वस्वगतिगामितया दुमाऽऽश्रितखगोपमा एवामी स्वजनाऽऽदयः / उक्तं हि" यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि यान्ति पुनः प्रभाते। तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्द समेत्य पुनरेव दिशो भजन्ते॥१॥" इति। ततश्चाऽऽकन्दाऽऽदिदारुणशब्दहेतुत्वेनाभिधीयमानमसिद्धम् / एते हि स्वजनाऽऽदयो वातेन प्रेर्यमाणा द्रुमविश्लिष्यत्खगा इव स्वस्वप्रयोजनहानिमेवाऽऽशङ्कमाना क्रन्दन्ति। आह च" आत्मार्थ सीदमानं स्वजनपरजनो रौति हा हा कुलाऽऽ”, भार्या चाऽऽत्मोषभोगं गृहविभवसुखं स्वं वयस्याश्च कार्यम्। क्रन्दन्त्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यश्चान्यस्तत्र कञ्चिद् मृगयति हि गुणं रोदितीष्टः स तस्मै " ||1|| एवं चाऽऽक्रन्दाऽऽदिदारुणशब्दानामभिनिष्क्रमणहेतुकत्वमसिद्धम् , स्वप्रयोजनहेतुकत्वात्तेषाम् , तथा च भवदुक्तहेतुकारणे असिद्धे एवेत्युक्त भवतीति सूत्रार्थः // 10 // ततश्चएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमव्ववी।। 11 // एनमर्थ निशम्य हेतुकारणयोरनन्तरसूत्रसूचितयोः, चोदितःअसिद्धोऽयं भवदभिहितो हेतुः, कारणं चेत्यनुपपत्त्या प्रेरितो हेतुकारणचोदितः, ततो नमि राजर्षि देवेन्द्र इदं वक्ष्यमाणमब्रवीदिति सूत्रार्थः // 11 // किं तत् ? इत्याहएस अग्गीय वाऊ य, एयं मज्झइ मंदिरं। भयवं ! अंतेउरते णं, कीस णं नावपेक्खह ? // 12 // एष इति प्रत्यक्षोपलभ्यमानोऽग्निश्च वैश्वानरो, वातश्च पवनः, तथैतदिति प्रत्यक्ष, दह्यते भस्मसात क्रियते, प्रक्रमाद्वातेरितेनाग्निनैव, मन्दिरं वेश्म, भवत्संबन्धीति शेषः / भगवन्निति पूर्ववत् / (अतेउरते णं ति) अन्तःपुराभिमुखं, (कीस त्ति) कस्मात् , णमिति वाक्यालङ्कारे / नावप्रेक्षसे नावलोकयसे? इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं, यथा ज्ञानाऽऽदि, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः / / 12 / ततश्वएयम8 निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी॥ 13 // प्राग्वत्॥१३॥ किमब्रवीत् ? इत्याहसुहं वसामो जीवामो,जेसि मो नत्थि किंचण। मिहिलाएँ डज्झमाणीए, न मे डज्झइ किंचण / / 14 / / सुखं यथा भवत्येवं वसामस्तिष्ठामो, जीवामः प्राणान्धारयामः, येषां (मो इति) अस्माकं, नास्तिन विद्यते, किश्चन वस्तुजातम्।यतः-" एकोऽहं न मे कश्चित् , स्वः परो वाऽपि विद्यते / यदेको जायते जन्तुर्मियतेऽप्येक एव हि॥१॥" इति न किञ्चिदन्तःपुराऽऽदि मत्सत्कं, यतश्चैवमतो-मिथिलायामस्यां पुरि दह्यमानायां न मे दह्यते किञ्चित् स्वल्पमिति / / मिथिलाग्रहणं तु-न केवलमन्तःपुराऽऽद्येव न मत्संबन्धि, किं त्वन्यदपिस्वजनाऽऽदि. स्वस्वकर्मफभुजो हि जन्तवस्तथा तथाऽस्मिन भ्राम्यन्तीति किमत्र कस्य स्वं परं वेति ख्यापनार्थम्। ततश्चानेन प्रागुक्तहेतोरसिद्धत्वमुक्त, तत्त्वतो ज्ञानाऽऽदिव्यतिरिक्तस्य सर्वस्यास्वकीयत्वादित्यादि प्राग्वदिति सूत्रार्थः / / 14 / / एतदेव भावयितुमाहचत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो। पियं न विजए किंचि, अप्पियं पिन विज्जए॥ 15 // बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो। सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ // 16 // त्यक्ताः परिहताः-पुत्राश्च सुताः, कलत्राणि चदाराः, येनस तथा, तस्य, अत एव नियापारस्य परिहृतकृषिपाशुपाल्याऽऽदिक्रियस्य, भिक्षोरुक्तरूपस्य, प्रियमिष्ट, न विद्यते नास्ति, किञ्चिदल्पमिति, अप्रियमप्यनिष्टमपि, न विद्यतेनास्ति, प्रियाप्रियविभागास्तित्वे हि सति पुत्रकलत्रत्यागं न कुर्यात् , एतयोरेवातिप्रतिबन्धविषयत्वादिति भावः / एतेम यदुक्तंनास्ति किञ्चनेति तत्समर्थित, तत् स्वकीयत्वं हि पुत्राऽऽद्यत्यागतोऽभिष्वङ्गतः स्यात् , स च निषिद्ध इति / एवमपि कथं सुखेन वसनंजीवनंच? इत्याह-बहु विपुलं,खुरवधारणे, बढेय, मुनेस्तपस्विनो, भद्रं कल्याण सुखं च, अनगारस्य भिक्षोरिति च प्राग्वत् / सर्वतो बाह्यादभ्यन्तराच्च / यतास्वजनात्परजनाच, विप्रमुक्तस्येति पूर्ववत्। एकान्तमेवकोऽहमित्याद्युक्तरूपैकत्वभावनाऽऽत्मकम् , अनुपश्यतः पर्यालोचयत इति सूत्रद्वयार्थः / / 15 / / 16 // पुनरपिएयमहँ निसामित्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमव्ववी / / 17 // प्राग्वत्॥ 17 // पागारं कारइत्ता णं, गोपुरऽट्टालगाणि य।