________________ णमि 1812 - अभिधानराजेन्द्रः भाग-४ णमि बुद्धो विज्ञाततत्त्वो, भोगानुक्तरूपान् , परित्यजति, स्मेति शेषः / इह पुनर्भोगग्रहणमतिविस्मरणशीला अप्यनुग्राह्या एवेति ज्ञापनार्थ-मिति सूत्रार्थः // 3 // किं भोगानेव त्यक्त्वाऽभिनिष्क्रान्तवान् , उतान्यदपि ? इत्याहमिहिलं सपुरजणवयं, वलमवरोहं च परियणं सव्वं / चिचा अभिणिक्खंतो, एगंतमहिडिओ भयवं / / 4 / / मिथिलां मिथिलानाम्नी नगरी, सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता,ता, न त्वेककामेव, बलं हस्त्यश्वाऽऽदिचतुरङ्गम, अवरोध चान्तःपुरं, परिजनं परिवर्ग, सर्व निरवशेषं, न तु तथाविधप्रतिबन्धानास्पदं किञ्चिदेव, त्यक्त्वाऽपहाय, अभिनिष्क्रान्तः प्रव्रजितः, (एगंत ति) एकोऽद्वितीयः कर्मणामन्तो यस्मिन्निति मयूरव्यसकाsऽदित्वात्समासः / तत एकान्तो मोक्षः, तमधिष्ठित इवाऽऽश्रितवानिवाधिष्ठितः, तदुपायसम्यग्दर्शनाऽऽद्यासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवाप्तेः। यद्वा-एकान्तं द्रव्यतो विजनमुद्यानाऽऽदि। भावतश्च " एकोऽहं न मे कश्चिन्नहमन्यस्य कस्यचित् / तं तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम / / 1 // " इति भावनात एक एवाहमित्यन्तो निश्चय एकान्तः, प्राग्वत्समासः / तमधिष्ठितो भगवानिति धैर्यवान् , श्रुतवान् वेति सूत्रार्थः / / 4 / / तत्रैवमभिनिष्क्रामति यदभूत्तदाह; यदि वा यदुक्तं ' सर्वं परित्यज्याभिनिष्क्रान्तः इति, तत्र कीदृक् तत्त्यज्यमानमासीत् ? इत्याहकोलाहलगसंभूयं, आसी मिहिलाएँ पव्वयंतम्मि। तइया रायरिसिम्मी, नमिम्मि अभिणिक्खमंतम्मि।। 5 / / / कोलाहलो विलपिताऽऽक्रन्दितकः, कोलाहल एव कोलाहलकः, संभूत इति जातो यस्मिन् तत् कोलाहलकसंभूतम् , आहिताऽऽदेराकृतिगणत्वाद् निष्ठान्तस्य परनिपातः / यदि वा भूतशब्द उपमार्थः, ततः कोलाहलकसंभूतमिति कोलाहलकरूपतामिवाऽऽपन्नम् - हा तात ! हा मातरित्यादिकलकलाऽऽकुलितम् , आसीद-भूत् , मिथिलाया, सर्व गृहविहाराऽऽरामाऽऽदीति प्रक्रमः। क्व सति ? प्रव्रज्यामाददाने, तदा तस्मिन् काले, राजा चासौ राज्यावस्थामाश्रित्य, ऋषिश्च तत्कालापेक्षया राजर्षिः, यदि वा-राज्यावस्थायामपि ऋषिरिव ऋषिः, क्रोधाऽऽदिषड्वर्गजयात्। तथा च राजनीतिः-"कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा। षड्वर्गमुत्सृजेदेतं, तस्मिस्त्यक्ते सुखी नृपः।।१।।" तस्मिन्नमो नमिनाम्न्यभिनिष्क्रामति गृहात्कषायाऽऽदिभ्यो वा निर्गच्छति / इति सूत्रार्थः / / 5 / / पुनरत्रान्तरे यदभूत्तदाह (शक्रसंवादः)अब्भुट्ठियं रायरिसिं, पव्वजाठाणमुत्तमं / सक्को माहणवेसेण, इमं वयणमव्ववी॥६॥ अभ्युत्थितमभ्युदितं, राजर्षि प्राग्वत् , प्रव्रज्यैव स्थानतिष्ठन्ति सम्यग्दर्शनाऽऽदयो गुणा अस्मिन्निति कृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः / उत्तम प्रधानं, सुप्व्यत्ययेन सप्तम्यर्थे वा द्वितीया / ततः प्रव्रज्यास्थाने उत्तमेऽभ्युद्यतं तद्विषयोद्यमवन्तं, शक्र इन्द्रो, माहनबेषेण ब्राह्मणवेषेण, आगत्येति शेषः / तदा हि तस्मिन्महात्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः स्वयमिन्द्र आजगाम , ततः स इदं वक्ष्यमाणम् , उच्यते इतिवचनं वाक्यम्, अब्रवीदुक्तवानिति सूत्रार्थः / / 6 / / यदुक्तवाँस्तदाह किं णु भो अन्ज मिहिलाए, कोलाहलगसंकुला / सुचंति दारुणा सद्दा, पासाएसु गिहेसुय।।७।। किमिति परिप्रश्रे, नु इति वितर्के, भो इत्यामन्त्रणे। अद्येत्यस्मिन् दिने, मिथिलायां नगर्या कोलाहलकेन बहलकलकलाऽऽत्मकेन संकुला व्याकुलाः कोलाहलसंकुलाः, श्रूयन्ते इत्याकण्यन्ते, शब्दा ध्वनय इति सबन्धः। तेच कदाचिद्वन्दिवृन्दोदीरिताअपि स्युः, तन्नियकरणायाऽऽहदारयन्ति जनमनासीति दारुणा विलपिताऽऽदयः, क्वपुनस्ते? प्रासादेषु सप्तभूमाऽऽदिषु, गृहेषु सामान्येन वेश्मसु, तथा ' प्रासादो देवतानरेन्द्राणाम् ' इति वचनात् प्रासादेषु देवतानरेन्द्रसंबन्धिष्वास्पदेषु, गृहेषु तदितरेषु, चशब्दात् त्रिकचतुष्कचत्वराऽऽदिषु चेति सूत्रार्थः / / 7 / / ततश्चएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमध्ववी॥ 8 // एवमनन्तरोक्तम् , अर्थमिति, उपचारादर्थाभिधायिनं ध्वनि, निशम्याऽऽकर्ण्य, हिनोति गमयति विवक्षितमर्थमिति हेतुः, स च पञ्चावयववाक्यरूपः, कारणं चान्यथाऽनुपपत्तिमात्र ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, कोलाहलकसंकुलाः दारुणाः शब्दाः श्रूयन्त इत्यनेन हि उभयमेतत् सूचितम् / तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दाऽऽदिदारुणशब्दहेतुत्वादिति हेतुः, प्राणव्यपरोपणाऽऽदिवदिति दृष्टान्तः, यद्यदा-क्रन्दाऽऽदिदारुणशब्दहेतुस्तत्तद् धर्मार्थिनोऽनुचितं, यथा प्राणव्यपरोपणाऽऽदि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दाऽऽदिदारुणशब्दहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं वाक्यमिह हेतुः, शेषावयवविवक्षाविरहितं त्वाक्रन्दाऽऽदिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्नमित्येतावन्मानं कारणम् , अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थम् / तथा च श्रुतकेवली-"कत्थ वि पंचावयवं, दसहावा सव्वहा ण पडिसिद्धं / न य पुण सव्वं भण्णति, हंदी सवियारमक्खाय / / 1 // " तथा-" जिणवयणं सिद्ध चिअ, भण्णति कत्थ वि उदाहरणं / आसज्ज उ सोतारं, हेऊ वि कहिं वि वत्तव्यो॥१॥" (नि०) अथवाऽन्ययव्यतिरेकलक्षणो हेतुः, उपपत्तिमात्रं तु दृष्टाताऽऽदिरहितं कारणम् / यथा निरुपम-सुखः सिद्धो, ज्ञानाऽनावाधप्रकर्षात् , अन्यत्र हि निरुपमसुखासंभवान्नोदाहरणमिस्ति / दृष्टाश्च प्रकृष्टमत्यादिज्ञानानाबाधाः परमसुखिनो मुनय इति ज्ञानानावाधप्रकर्षो निरुपमसुखत्वे हेतुरुच्यते। तथा च पूज्याः- " हेऊ अणुगमवतिरे-गलक्खणो सज्झवत्थुपजाओ। आहरणं दिट्ठतो, कारणमववत्तिमेत्तं तु // 1077 // " (विशे०) इहापि आक्रन्दाऽऽदिदारुणशब्दहेतुत्वमेव हेतुः, तस्योक्तन्यायेनान्वयान्विततत्वात्सति चान्वये व्यतिरेकस्यापि संभवात् / इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुपपत्तिमात्रं कारणम् / एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन / प्रकृतमेव सूत्रमनुश्रियतेततः प्रेरणानन्तरं, नमिर्नमिनामा, राजर्षिर्देवेन्द्र शक्रमिदं वक्ष्यमाणमब्रवीदुक्तवानिति सूत्रार्थः / / 8 || किं तदुक्तवानित्याहमिहिलाए चेइए वच्छे, सीयच्छाए मणोरमे। पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया।।६।।