________________ णमि 1811 - अभिधानराजेन्द्रः भाग - 4 णमि परं गरिहसी कीस, अत्तनिस्सेसकारए ? || 13 // मोक्खमग्गं पवन्नेसु, साहूसुं बंभयारिसु / अहियत्थं निवारितो, न दोसं वत्तुमरिहसि // 14 // एतदर्थस्तु प्रायः संप्रदायादवसेय इति तावत् स एवोच्यते। अक्षरार्थस्तु स्पष्ट एव / नवरं मिथिला नाम नगरी, तस्याः पतिः स्वामी मिथिलापतिः, तस्य, अनेनान्येषामपि नमीना संभवात्तद्व्यवच्छेदार्थमाहनमेनमिनाम्नः, (छम्मासाऽऽयंकवेज्जपडिसेहोत्ति) वण्डासानातको दाहज्वराऽऽत्मको रोगः षण्मासाऽऽतङ्कः, तत्र वैद्यैभिंषभिः प्रतिषेधो निराकरणम्अचिकित्स्योऽयमित्यभिधानरूपः, षण्मासाऽऽतङ्कवैद्यप्रतिषेधः / (कत्तिए त्ति) कार्तिकमासे (सुविणगदंसणमिति) स्वप्न एव स्वप्नकः, तस्मिन् दर्शनं स्वप्नकदर्शनम् , अभूदिति शेषः / कयोः ? (अहिमंदर त्ति) अहिमन्दरयोनागराजाचलराजयोः, (नंदिघोसे यत्ति) द्वादशतूर्यसंघातो नन्दी, तस्या घोषः, स च स्वप्नमवलोकयतो जातः, तेन चासौ प्रतिबोधित इत्युपस्कारः // 1 // इह च मिथिलापति मिरित्युक्ती माभुत्तथाविधस्य तीर्थकरस्यापि नमः संभवाद् व्यामोह इति द्वौ नमी वैदेहावित्याद्युक्तम् // २॥तथा (पुप्फुत्तर त्ति) पुप्पोत्तरविमानात् च्यवनं भ्रंसनम् , एकसमयेनेति योज्यते। प्रव्रज्या च निष्क्रमणं भवत्येकसमयेनैव। तथा प्रत्येकामिति-एकैकं हेतुमाश्रित्य बुद्धा अवगततत्त्वाः प्रत्येकबुद्धाः, केवलिन उत्पन्नकेवलज्ञानाः, सिद्धिगता मुक्तिपदप्राप्ताः, त्रयाणामपि कर्मधारयः / एकसमयेनैव इति ; चतुर्णामपि समसमयसंभवात् // 5 // तथा (सेयं सुजायं ति) श्वेतं वर्णतः, सुजातं प्रथमत एवाहीनसमस्ताङ्गोपाङ्गतया, सुष्टु शोभने, विमक्ते विभागेनावस्थिते, शृड़े विषाणे यस्य स तथा तम्, ऋद्धिं बलोपचयाऽऽत्मिकाम् , अरिद्धिं तस्यैव बलापचयात्तर्णकाऽऽदिपरिभवरूपां, (समुपेहिया णं ति) सम्यगुत्प्रेक्ष्येति पर्यालोच्य; पाठान्तरतः समुत्प्रेक्ष्यमाणो वा, कलिगराजोऽपीत्यत्राविशब्द उत्तरापेक्षया समुचये // 6 // तथा (पूरावरेणं ति) पूरः पूर्णता, अवरेको रिक्तता, अनयोः समाहारः पूरावरेकम् // 7 // तथेन्द्रकेतुमिन्द्रध्वज, प्रविलुप्यमानम् इति, जनैः स्वस्ववस्त्रालङ्काराऽऽदिग्रहणत इतक्षेतश्च विक्षिप्यमाणम् // 8 // तथा (समंजरीपल्लवपुप्फचित्तं ति) सह मञ्जरीभिः प्रतीताभिः, पल्लवैश्च किशलयैर्यानि पुष्पाणि कुसुमानि, तैचित्रः कर्बुरः समजरीपल्लवपुष्पचित्रः, तम्: यता-सहमञ्जरीपल्लवपुष्पैर्वर्तते यः स तथा, चित्र आश्चर्योऽनयोर्विशेषणसमासः / (समिक्ख त्ति) आर्षत्वात्समीक्ष्यते पर्यालोचयत्यनेकार्थत्वादङ्गीकुरुते वा, वर्तमाननिर्देशः प्राग्वत्। यद्वा-(समिक्ख त्ति) समैक्षिष्ट समीक्षितवान, धर्म यतिधर्मम् // 10 // यदा ते त्वया पैतृके पितुरागते राज्ये कृता विहिताः, कृत्यानि कुर्वन्त्यनुतिष्ठन्ति कृत्यकरा नियोगिनः, बहवः प्रभूताः, तदैव कृत्यकरत्वं स्वयंतथा तव कर्तुमुचितमासीदित्युपस्कारः / तेषामिति कृत्यकराणां कृत्यं परापराधपरिभावनाऽऽदिकर्त्तव्यं परित्यज्य व्रताङ्गीकारादपहाय, अद्य कृत्यकरो नियुक्तकोऽन्यदोषचिन्तो भवाँस्त्वं, किमिति जात इति शेषः ? // 12 // तथा (मोक्खाय धडसीति) प्राकृतत्याद् मोक्षाय मोक्षार्थ, घटते चेष्टते,तथा (अत्तनिस्सेसकारए त्ति) आत्मनो निःशेषमिति शेषाभावं, प्रक्रमात् कर्मणः, करोति विधत्ते इत्यात्मनिः शेषकारकः / यद्वा-(निस्सेस त्ति) निःश्रेयसो मोक्षः, तत्कारकः।। 13 // मोक्षमार्ग मुक्त्यध्वानं प्रतिपन्नेष्वङ्गीकृतवत्सुसाधुषु ब्रह्मचारिषु (अहियत्थं ति) अहितार्थं, निवारयनिषेधयन, न दोष परापवादलक्षणम् , अस्येति शेषः, वक्तुमभिधातुमर्हसि / यथा हि भवानहितान्निवारयन् कथमर्हतीत्याह, एवं नमिरपि अद्य कृत्यकरो भवान्निति कृत्यकरत्वलक्षणादहितान्निवारयति, तथा दुर्मुखोऽपि संचयं किं करोषीति सञ्चयत एवाहि-तान्निषेधतीति नायं परापवाद इति वक्तुमुचितम्।यद्वा-(अहियत्थं निवारतो त्ति) सुप्व्यत्ययादहितार्थान्निवारयन्त (न दोसमिति ) मतुब्लोपान्न दोषमिति न दोषयन्त वक्तुमर्हसि / / 14 // संप्रति सूत्राऽऽलापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुचारणीयम्। तचेदम् - चइऊण देवलोगा, उववन्नो मणुसम्मि लोगम्मि। उवसंतमोहणिज्जो, सरई पोराणयं जाइं॥१॥ च्युत्त्वा देवलोकात् प्रतीतात् , उत्पन्नो जातो, मानुषे मानुषसंबन्धिनि, लोके प्राणिगणे, उपशान्तमनुदयप्राप्त, मोहनीयं दर्शनमोहनीय यस्यासावुपशान्तमोहनीयः, स्मरति चिन्तयति, स्मेति शेषः / वर्तमाननिर्देशो वा प्राग्वत् / कामित्याह-(पोराणयं ति) पुराणामेव पौराणिकी, विनयाऽऽदित्वात् ठक्। चिरन्तनीमित्यर्थः / जातिमुत्पत्तिं, देवलोकाऽऽदाविति प्रक्रमः / तद्गतसकलचेष्टोपलक्षणं चेह जातिरिति सूत्रार्थः / / 1 // ___ ततः किमित्याहजाई सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे। पुत्तं ठवेत्तु रज्जे, अमिणिक्खमई नमी राया // 2 // जातिमुक्तरूपां स्मृत्वा, भगशब्दो यद्यपि धैर्याऽऽदिष्वनेकार्येषु वर्तते। यदुक्तम्-"धैर्यसौभाग्यमाहत्म्ययशोऽर्कश्रुतिधीश्रियः।तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः॥१॥" इति / तथाऽपीह प्राप्तस्तावद् बुद्धिवचन एव गृह्यते, ततो भगो बुद्धिर्यस्यास्तीति भगवान्, (सह त्ति) स्वयमात्मनैव संबुद्धः सम्यगवगततत्त्वः सहसंबुद्धः, नान्यप्रतिबोधित इत्यर्थः / अथवा-(सहसं ति) आर्षत्वात् सह जातिस्मृत्पनन्तरं झगित्येव, बुद्धः / क्व? इत्याह-अनुत्तरे प्रधाने, धर्मे चारित्रधर्मे, पुत्रं सुतं, स्थापयित्वा निवेश्य, क्व? राज्ये, अभिनिष्क्रामतिधर्माभिमुख्येन गृहस्थपर्यायान्निर्गच्छति, स्मेतीहापि शेषः। ततश्च प्रव्रजितवानित्यर्थः / प्राग्वत्ति व्यत्ययेन वा व्याख्येयम्। नमिर्नमिनामा, राजा पृथ्वीपतिरिति सूत्रार्थः॥२॥ स्यादेतत् , कुत्रावस्थितः कीदृशान् वा भोगान् भुक्त्वा संबुद्धः किं वाऽभिनिष्क्रामन् करोतीत्याहसो देवलोगसरिसे, अंतेउरवरगओ वरे भोए। मुंजित्तु नमी राया, बुद्धो भोगे परिचयइ // 3 // स इत्यनन्तरमुद्दिष्टः, (देवलोगसरिस त्ति) देवलोकभोगैः स-दृशा देवलोकसदृशाः, मयुरव्यंस्रकाऽऽदित्वान्मध्यमपदलोपी समासः / (अंतेउरवरगओत्ति) वरं प्रधानं, तच तदन्तःपुरं च वरान्तःपुरं, तत्र गतः स्थितो वरान्तःपुरगतः / प्राकृतत्वाच वरशब्दस्य परनिपातः। वरान्तःपुरं हि रागहेतुरिति तद्गतस्यास्य भोगपरित्यागाभिधानेन जीववीर्योल्लासातिरेक उक्तः। तत्रापि कदाचिद्वराः शब्दाऽऽदयो न स्युः, तत्संभवेऽपि वा सुबन्धुरिव कु तश्चिन्निमितान्न भुञ्जीताऽपीत्याहवरान प्रधानान् भोगान् मनोज्ञशब्दाऽऽदीन, भुक्त्वा आसेव्य, नमिनामा राजा,