________________ णमि 1506 - अभिधानराजेन्द्रः भाग - 4 णमि नं निशम्य निजमायुः पूर्ण विधायैको मिथिलापुर्या पद्मरथो नृपोऽभवत्। तेन पदारथेनाश्वापहृतेन तस्मिन् वने समायातेन हे महानुभावे ! स पुत्रो दृष्टो, गृहीतश्च, मिथिलायां नीत्वा स्वपल्यै च समर्पितः।तजन्ममहोत्सवो महान विहितः // ' अत्रान्तरे तत्र नन्दीश्वरप्रासादेऽन्तरिक्षादेक विमानमवततार। तन्मध्यादेको दिव्यविभूषाधरः सुरो निर्गत्य मदनरेखां त्रिःप्रदक्षिणीकृत्य प्रथमं प्रणनाम् , पश्चाद् मुनिं प्रणम्याग्रे निविष्टः सुरः। मणिरथविद्याधरेन्द्रेण विनयविपर्यासकरणं पृष्टम् / स सुरः प्राऽऽह-अहं पूर्वभवे युगबाहुर्मणिरथनाम्ना बृहद्भात्रा निहतः, अनया ममाऽऽराधनानशनाऽऽदिकृत्यानि कारितानि, तत्प्रभावादहमीदृशो देवो ब्रह्मदेवलोके जातः। ततो धर्माऽऽचार्यत्वादहमिमां प्रथमं प्रणतः। एवं खेचरं प्रतिबोध्य स सुरो मदनरेखां जगौ-हे सति! त्वं समादिश, किं ते प्रियं कुर्वे ? सा प्राऽऽह-मम मुक्तिरेव प्रिया, नान्यत्किमपि, तथाऽपि सुताऽऽननं द्रष्टुमुत्सुकां मां त्वमितो मिथिला पुरी नय, तत्राहं निर्वृताऽऽत्मना परलोकहितं करिष्यामि / इत्युक्तवतीं तां देवो मिथिला पुरी निनाय / तत्र प्रथम मदनरेखा जिनचैत्यानि नत्वा श्रमणीनामुपाश्रये जगाम / वन्दित्वा पुरोनिविष्टां तां प्रवर्तिन्येवं प्रतिबोधयामासमूढचंतसो जना धर्माद्विना भवक्षयमिच्छन्तोऽपि मोहवशेन पुत्राऽऽदिषु स्नेहं कुर्वन्ति / संसारे हि मातृपितृबन्धुभगिनींदयितावधूप्रियतमपुत्राऽऽदीनामनन्तशः संबन्धो जातः / लक्ष्मीकुटुम्बदेहाऽऽदिकं सर्व विनश्वरम् , धर्म एवैकः शाश्वतः / इत्यादि साध्वीवाक्यैः प्रतिबुद्धा सा सती देवेन पुत्रदर्शनार्थ प्रार्थितवमाह-भववृद्धिकरण प्रेमपूरेण ममालम् , अतः परं तु साध्वीचरणा एव शरणमित्युक्त्वा साध्वीसमीपे सा प्रव्रज्यां जग्राह / देवस्तां वन्दित्वा स्वस्थाने जगाम। पद्मरथस्य गृहे यथा यथाऽहं बालो वर्द्धत, तथा तथा तस्यान्ये राजानोऽनमन् / ततः पद्मरथराजा तस्य बालस्य नमिरिति नाम कृतवान्। वृद्धि ब्रजतस्यस्य बालस्य कलाऽऽचार्यसेवनात् सर्वाः कलाः समायाताः, सकललोकलोचनहरं यौवनमप्यस्याऽऽयातम्। पित्रा चाष्टाधिकसहस्रराजकन्यानां पाणिग्रहणं कारितम् / पद्मरथोऽस्मै राज्यं दत्त्वा स्वयं तपस्यां गृहीत्वा केवलज्ञानं प्राप्य मोक्षं गतवान् / नमिराजा प्राज्यं राज्यं पालयामास, न्यायेन यशःपात्रमभृत् / / अथ पूर्व युगबाहुं हत्वा मणिरथो नृपोऽसिद्धमनोरथः स्वधाम प्राप्तस्तत्र तदानीमेव प्रचण्डसपेण दष्टस्तुर्थ नरकं जगाम / द्वयोभ्रत्रिोसैर्द्धदैहिकी क्रियां कृत्वा मन्त्रिभिर्युगबाहुपुत्रश्चन्द्रयशा राज्येऽभिषिक्तः / स न्यायेन राज्यं पालयति स्म / अन्यदा नमिराज्ञो धवलकान्तिर्गजो मदोन्मत्त आलानस्तम्भमुन्मूल्यापरान् हस्तिनोऽश्वान्मनुष्यानपि त्रासयन् चन्द्रयशोनृपनगरसीम्नि समायातः। चन्द्रयशा नृपस्तमागतं श्रुत्वा समन्तात्सुभटैर्वेष्टयित्वा स्वयं वशीकृत्य च जग्राह। नमिराजा-ऽष्टभिर्दिनैस्ता वार्ता श्रुत्वा चन्द्रयशोऽन्तिके दूतं प्रेषितवान्। दूतोऽपि तत्र गत्वा धवलकरिणं मार्गयामास / कुपितश्चन्द्रयाँ दूतं गले धृत्वा नगराद् बहिर्निष्कासयामास। दतोऽपि नमेः पुरोगत्वा स्वाऽपमानं जगौ। कुपितो नमिराजाऽतुलसैन्यैर्वेष्टितोऽच्छिनप्रयाणैः सुदर्शनपुरसमीपे समायातः / चन्द्रयशा भूपतिः स्वसैन्यवेष्टितो यावदभिमुखं युद्धार्थ चलितः, तावदपशकुनैर्वारितो मन्त्रिभिरेवमूचेस्वामिन् ! कोट्ट सजीकृत्य तव साम्प्रतं पुरान्तरेऽवस्थातुयुक्तम् , कालविलम्बेनैतत्कार्य कर्तव्यम्। ततश्चन्द्रयशाः कोट्टं शतघ्नीभिर्जलाऽऽद्युपस्करैश्च सज्जीकृतवान् , नमिस्तं कोट्ट स्वसैन्यैरवेष्टयत्। अधस्थैः सैनिकैः सहोर्द्धस्थानां सैनिकानां महान् संग्रामे प्रववृते स्म / नमिः कोट्टभङ्गे विविधानुपायान् विदधाति स्म / चन्द्रयशा नृपस्तु कोट्टरक्षणे विविधानुपायान् करोति स्म / अस्मिन्नवसरेतयोर्माता साध्वी मदनरेखा प्रवर्तिनीमनुज्ञाप्य तत्संग्रामवारणार्थ प्रथम नमिराजसैन्ये समायाता / नमिरपि तां साध्वीं ननाम / आसने चोपविश्य नमेः पुरः सा साध्वी एवं वाचं विस्तारयामासअनन्तदुःखैकभा-जनेऽस्मिन् संसारे नृभवं प्राप्य पापैस्त्वं किं मुह्यसे ? राजन् ! तवबन्धुना चन्द्रयशसा स्वयमागतो हस्ती चेद् गृहीतः, तर्हि तेन समं किं युद्ध करोषि ? क्रुद्धस्त्वं न किञ्चिद्वेत्सि / यदुक्तम्-" लोभी पश्येद् धनप्राप्ति, कामिनी कामुकस्तथा / भ्रमं पश्येदथोन्मत्तो, न किञ्चिच क्रुधाऽऽकुलः // 1 // " इदं साध्वीवचो निशम्य नमिश्चिन्तयामास- ' अयं चन्द्रयशा युगबाहुभवोऽस्ति, अहं तु पद्मरथपुत्रो-स्मि, इयं साध्वी सत्यवादिनी सती कथं मम चानेन समं भ्रातृत्वं वदति इति विमृश्य साध्वी प्रत्येवं भाषते स्म-हे पूज्ये ! असो क्व ? अहं क्व ? भिन्नकुलसंभवयोर्भदेतयोः कथं भ्रातृत्वं वदसि ? इति नमिनोक्ता साध्वी प्राऽऽह-वत्स ! यौवनेश्वर्यभव मदं मुक्त्वा यदि शृणोषि, तदा सकल स्वरूप कथ्यते। अथ श्रोतुमुत्सुकाय नमिनृपाय सर्व पूर्वस्वरूपं साध्वी जगाद। पुनरेवं बभाषेसुदर्शनपुरस्वामी युगबाहुस्तवास्य च पिता, अहं मदनरेखा तव मातेति। पद्मरथस्तु तव पालकः पितेति। अनेन भ्रात्रा समं मा विरोधं कुरु, बुद्ध्यस्य हितमिति साध्वीप्रोक्तं युगबाहुनामाड्कितकरमुद्रादर्शनतः सर्व नमिः सत्यं विवेद। तांसाध्वी प्रकाम चित्तोल्लासेन स्वमातरं मत्वा विशेषान्नमिः प्रणनाम / उवाच च-मातः ! यत् त्वया प्रोक्तं, तत् सर्व तथ्यमेव / नात्र काचिद्विचारणाऽस्ति, ममेयं करमुद्रा युगबाहुसुतत्वं ज्ञापयति। अयं चन्द्रयशा मेज्येष्ठभ्राता भवत्येव, परं लोकः कथं प्रत्याय्यते ? लधुभ्रातृवात्सल्यतो ज्येष्ठश्चेत् संमुखमायाति, तदाऽहमुचित विनय कुर्वन् शोभामुद्वहामि / एवं नमिनृपोक्तमाकर्ण्य सा साध्वी दुर्गद्वारवर्मना प्रविश्य राजसौधे जगाम। चन्द्रयशा भूपस्तुतामकस्मादागतामुपलक्ष्य स्वमातरं साध्वीं विशेषादभ्युत्थाय नतवा-न , उचिताऽऽसनोपविष्टांता साध्वीं वृत्तान्तं पृष्टवान्। साध्वी सकलं वृत्तान्तं नमिराजमिलनं यावत् कथयामास / चन्द्रयशा नृपस्तंनमि निजलघुभ्रातर मत्वा सभालोकान् प्रत्येवमुवाच-" सुलभाः सन्ति सर्वेषां, पुत्रपत्न्यादयः शुभाः / दुर्लभः सोदरो बन्धुर्लभ्यते सुकृतैर्यदि॥ 1 // " इत्युक्तवा चन्द्रयशा नृपोऽपि पुराद् बहिर्निर्गतः / नमिरपि तं ज्येष्टभ्रातरमभ्यागच्छन्तं दृष्ट्वा सिंहाऽऽसनादुत्थाय भूतलमिलच्छिरः प्रणनाम। चन्द्रयशा नृपोऽपि स्वकराभ्यां भूतलादुत्थाय भृशमालिलिङ्ग / तुल्याऽऽकारौ तुल्यवर्णा तावेकमातृपितृसंभूतत्वेन तदा परमप्रीतिपदं जातो, लोकैः सहोदरौ ज्ञातौ / चन्द्रयशा नृपस्तु तदानीमेव नमिबन्धवे सुर्दशनपुरराज्यं ददौ, स्वयं संग्रामाङ्गणमध्ये दीक्षां ललौ / क्रमेण राज्यद्वय पालयनमि, क्षितौ प्रचण्डाऽऽज्ञो जज्ञे / अन्यदा नमेर्वपुषि दाघज्वरो जातः पूर्वकर्मदोषेण तस्य पाण्मासिकी पीडा महती उत्पन्ना, तया निद्रामपि न लेभे, अन्तःपुरीनूपरशब्दा अपि कर्णशूलायाऽऽसन्।