________________ पट्ट 1503 - अभिधानराजेन्द्रः भाग - 4 णट्ट त्वात् त्रिस्थानकरणविशुद्धम् / तथा सकुहरो गुञ्जन् यो वंशो, ये च तन्त्रीतलताललयग्रहाः, तेषु सुष्टु अतिशयेन सम्प्रयुक्त सुकुहरगुञ्जद्वंशतन्त्रीतलताललयग्रहसुसम्प्रयुक्तम्। किमुक्तं भवति? सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यत् वंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जवंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवर्ति यत् तत् तलसुसम्प्रयुक्तं, मुरजकंशिकाऽऽदीनामातोद्यानामाहतानां यो ध्वनिः यच नृत्यं पादोत्क्षेपः, तेन समंयत् तत् तालसुसम्प्रयुक्तम् , तथा शृङ्गमयो दारुमयो दन्तमयोऽङ्गुलिकौशिकस्तेनाऽऽहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसम्प्रयुक्तम्, तथा यः प्रथम वंशतन्त्र्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसम्प्रयुक्तम् , तथा (महरमिति) मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत् , तथा (सममिति) तलवंशस्वराऽऽदिसमनुगतं समं (सललियं ति) यत् स्वरघोलनाप्रकारेण ललतीव, सह ललितेन ललनेन वर्तते इति / श्रीनेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितमिति। अत एव मनोहरम् / पुनः कथंभूतम् ? इत्याह-(मिउरिभितपदसंचारं) तत्र मृदु मृदुना स्वरेण युक्तो निष्टुरेण, तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च संचरन् रगतीव प्रतिभासते, स पदसञ्चारो रिभित उच्यते। मृदुः रिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तत मृदुरिभितपदसंचारं, तथा (सूरइ इति) शोभना रतिर्यस्मिन् श्रोतृणां तत सुरति, तथा शोभना नतिरवनामोऽवसानो यस्मिन् तत् सुनति, तथा वरं प्रधानं चारु विशिष्टचनिमोपेतं रूपं स्वरूपं यस्य तद् वरचारुरूपं दिव्यं प्रधानं नृत्तसज्ज गेयं प्रगीता अप्यभवन्।" किं ते" इत्यादि। किश-ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः, प्रनर्तितवन्तश्च (उद्धमंताणं संखाणमित्यादि) अत्र सर्वत्रापि षष्ठी सप्तम्यर्थे / ततोऽयमर्थः-यथायोगमुघ्मायमानाऽऽदिषु शङ्खाऽऽदिषु, इह शङ्गशृङ्गशलिकाखरमुहीपेयापिरिपिरिकाणां वादनमुद्ध्मातमिति प्रसिद्धम्। पणवपटहानामाहननम्, भम्भाहोरम्भाणामास्फालनम्, भेरीझल्लरीदुन्दुभीना ताडनम्, मुरजमृदङ्गनन्दीमृदङ्गानामालपनम्, आलिङ्गकुस्तुम्बगोमुखीमर्दलानामुत्ताडनम् . वीणाविपञ्चीवल्लकीनां मूर्छनम् . महतीकठपीतन्त्रिवीणानां कुट्टनम् , वध्वीसासुघोषानन्दिघोषाणां सारण, भ्रामरीपरिवादिनीनां स्पन्दनम्, तूणतुम्बवीणानां स्पर्शनम्, नकुलानामामोटनम् , मुकुन्दहुडुक्कचिच्चिकीनां मूर्छनम् , करटडिण्डिमकिणि-ककडम्बानां वादनम् , दर्दरदर्दरिकाकुडुम्बरुकलशिकामईकानामुत्ताडनम् , तलतालकांश्यतालानामाताडनं, गिरिशकालत्तिरकामकरिकाशिशुमारिकाणां घट्टनं, वंशवेणुचालीपिरिलीवध्वकानां फुङ्कनम्। अत उक्तम्-" उद्धमंताणं सङ्खाणं " इत्यादि (तए ण से दिव्वे पट्टे दिव्वे गीए इत्यादि) यत एवं प्रगीतवन्त इत्यादि,ततो णमिति पूर्ववत् / तद् दिव्यं गीतं, दिव्यं वादितं, दिव्यं नृत्यमभूदिति योगः। दिव्यं नाम प्रधानम् / एवम्-(अब्भुए गीए अब्भुए वाइए अब्भुए नहे) अद्भुतमाश्चर्यकारि, (सिंगारे गीए, सिंगारे वाइए, सिंगारे गट्टे) शृङ्गारं शृङ्गाररसोपेतत्वात्। अथवा शृङ्गारं नामालकृमुच्यते, तत्र यदन्यस्य विशेषकरणेनालङ्कृतमिव गीत वादनं नृत्यं वा तत्शृङ्गारमिति। (उराले गीए उराले वाइए उराले णट्टे) उदारं स्फारं परिपूर्णगुणोपेतत्वात् , न तु क्वचिदपि हीनं, (मणुण्णे गीए मणुण्णे वाइए मणुण्णे णट्टे) मनोज्ञ मनोऽनुकूलं द्रष्टणां श्रोतृणां च मनोनिवृत्तिकरमिति भावः / तत्तु मनोनिवृत्तिकरत्वं सामान्यतोऽपि स्यादतः प्रकर्षविशेषप्रतिपादनार्थमाह-(मणहर इति) (मणहरे गीए मणहरे वाइए मणहरे णट्टे) मनो हरति आत्मवशं नयति, तद्विधमप्यतिचमत्कारकारितयेति मनोहरम् / एतदेवाऽऽह-(उप्पिंजलभूए) उत्पिञ्जलमाकुलम् , आकुलभूते। किमुक्त भवति ?-महर्द्धिकदेवानामप्यतिशायितया परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमूहचित्ताऽऽक्षेपकारीति / (कहकहभूते इति) कहकहेत्यनुकरणं, कहकहेतिभूतं प्राप्त कहकहभूतम्। किमुक्तं भवति?.. निरन्तरं तत्तद्विशेषदर्शनतः समुद्वलितप्रमोदभरपरवशसकलदिक्चक्रवालवर्तिप्रक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतमिति। अत एवं दिव्यं देवरमणमपि देवानामपि रमणं क्रीडनं प्रवृत्तमभूत् / रा०। आ०म० इह द्वात्रिंशद् नाट्यविधयः। तेच येन क्रमेण भगवतो वर्द्धमानस्वामिनः पूरतः सूर्याभदेवेन भाविताः राजप्रश्नीयोपाड़े च दर्शिताः, तेन क्रमेण विनेयजनानुग्रहार्थमुपदय॑न्तेतत्र स्वस्तिकश्रीवत्सनन्द्यावर्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमङ्गलाऽऽकाराभिनयाऽऽल्मकः प्रथमो नाट्यविधिः / द्वितीय आवर्त प्रत्यावर्त श्रेणिप्रतिश्रेणिस्वस्तिक श्रीवत्सपुष्पमाडवकवर्द्धमानकमत्स्याण्डकडकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्यलताभक्तिचित्राभिनयाऽऽत्मकः / तृतीय ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जवनलतापद्मलताभक्तिचित्राऽऽत्मकः / चतुर्थ एकतश्चक्र द्विधातश्चक्र एकतश्चक्र बालद्विधातश्चक्रवालचक्रार्द्धचक्रबालाभिनयाऽऽत्मकः / पञ्चमः चन्द्राऽऽवलिप्रविभक्तिसूर्याऽऽवलिप्रविभक्तिबलयाऽऽवलिप्रविभक्तिहंसाऽऽवलिप्रविभक्तिएकाऽऽवलिप्रविभक्तिताराऽऽवलिप्रविभक्तिमुक्ताऽऽवलिप्रविभक्तिकनकाऽऽवलिप्रविभक्तिरत्नाऽऽवलिप्रविभक्तियुक्ताऽऽवलिप्रविभक्तिनामा। षष्ठश्चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्त्यभिनयाऽऽत्मक उद्गमोद्गमप्रविभक्तिनामा / सप्तमश्चन्द्राऽऽगमनप्रविभक्तिसूर्याऽऽगमनप्रविभक्तयभिनयाऽऽत्मक आगमनागमनप्रविभक्तिनामा / अष्टमश्चन्द्राऽऽवरणप्रविभक्तिसूर्याऽऽवरणप्रविभक्त्यभिनवाऽऽत्मक आवरणावरणप्रविभक्तिनामा / नवमश्चन्द्रास्तमनप्रविभक्तिसूर्यास्तमनप्रविभक्त्यभिनयाऽऽत्मकोऽस्तमयास्तमयप्रविभक्तिनामा / दशमश्चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्ति भूतमण्डल प्रविभक्तिराक्षसमहो रगगन्धर्व मण्डलप्रविभक्त्यभिनयाऽऽत्मको मण्डलप्रविभक्तिनामा / एकादश ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तयविलसितमत्तगजविलसितमत्तहयविलम्बितमत्तगजविलम्बिताभिनयोद्रुतविलम्बितनामा / द्वादशः सागरप्रविभक्तिनागरप्रविभक्त्यभिनयाऽऽत्मकः सागरनागरप्रविभक्तिनामा / त्रयोदशो नन्दाप्रविभक्तिचम्पाप्रविभक्तयभिनयाऽऽत्मको नन्दाचम्पाप्रविभक्त्यात्मकः / चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्त्यभिनयाऽऽत्मको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा। पञ्चदशः क इति ककारप्रविभक्ति ख इति खकारप्रविभक्ति ग इति गकारप्रविभक्ति घ इति घकारप्रविभक्ति ङ इति डकारप्रविभक्तिरित्येवक्रमभाविककाराऽऽदिप्रविभक्त्यभिनयाऽऽत्मकः ककारखकारगकारघकार