________________ णट्ट 1902 - अभिधानराजेन्द्रः भाग - 4 णट्ट वादकानाम् 18, अष्टशतं मर्दलाना, मर्दल उभयतः समः, अष्टशत मर्दलवादकानाम् 16, अष्टशतं विपश्चीनां, विपश्ची त्रितन्त्री वीणा, अष्टशतं विपञ्चीवादकानाम् 20, अष्टशतं वल्लकीना, वल्लकी सामान्यतो वीणा / अष्टशतं वल्लकीवादकानाम् 21, अष्टशतं भ्रमरीणाम् , अष्टशत भ्रमरीवादकानाम् 22, अष्टशतं भ्रामरीणाम, अष्टशतं भ्रामरीवादकानाम् 23, अष्टशतं परिवादिनीना, परिवादिनी सप्ततन्त्री वीणा / अष्टशतं परिवादिनीवादकानाम् 24, अष्टशतं चर्चसानाम् अष्टशत चर्चसावादकानाम 25, अष्टशतसुघोषाणाम.अष्टशतं सुघोषावादकानाम 26, अष्टशतं नन्दीघोषाणाम् , अष्टशतं नन्दीघोषावादकानाम् 27. अष्टशतं महतीनाम , अष्टशतं महतीवादकानाम् 28, अष्टशतं कच्छभीनाम्, अष्टशतं कच्छभीवादकानाम् 26, अष्टशत चित्रवीणानाम् , अष्ट शतं चित्रवीणावादकानाम् 30. अष्टशतमामोदानाम् / अष्टशतमामोदवादकानाम् 31, अष्टशतंदण्डानाम् , अष्टशतंदण्डावादकानाम् 32, अष्टशतं नकुलानाम् , अष्टशतं नकुलवादकानाम् 33, अष्टशतं तूणानाम् , अष्टशतं तूणावादकानाम् 34, अष्टशतं तुम्बवीणाना, तुम्बयुक्ता वीणा थाऽद्यकल्पप्रसिद्धा। अष्टशतं तुम्बर्वाणावादकानाम् 35, अष्टशत मुकुन्दाना, मुकुन्दो मुरजो वाद्यविशेषो योऽतिलीनं वाद्यते, अष्टशतं मुकुन्दवादकानाम् 36, अष्टशतंहुडुक्कीनाम्, अष्टशतं हुडुक्कीवादकानाम् , हुडुक्की प्रतीता। 37, अष्टशतं चिच्चिकीनाम् अष्टशतं चिच्चिकीवादकानाम् 38, अष्टशत करटीनाम् , अष्टशतं करटीवादकानाम् , करटी प्रतीता 36, अष्टशतं डिण्डिमानाम् , अष्टशतं डिण्डिमवादकानाम् , प्रथमप्रस्तावनास्तवकः पणवविशेषो डिण्डिमः 40, अष्टशतं किणितानाम् , अष्टशतं किणितवादकानाम् 41, अष्टशतं कम्बानाम् , अष्टशतं कडम्बावादकानाम् , कडम्बा करटिका 42, अष्टशतं दर्दरकाणाम अष्टशतंदर्दरकवादकानाम् , दर्दरकः प्रतीतः 43, अष्टशतं ददरिकाणाम, अष्टशतं दर्दरिकावादकानाम् , लघुदर्दरी दर्दरिका 44, अष्टशत कुम्यरूणाम् , अष्टशतं कुडुम्बरुवादकानाम 45 अष्टशतंकलशिकानाम, अष्टशतं कलशिकावादकानाम् 46, अष्टशतं तलानाम् , अष्टशतं तलवादकानाम् 47, अष्टशततालानाम्, अष्टशततालवादकानाम् 48, अष्टशतं कांस्यतालानाम् , अष्टशतं कांस्यतालवादकानाम् 46, अष्टशतं गिरिशिकानाम् , अष्टशतं गिरिशिकावादकानाम् 50. अष्टशतं मकरिकाणाम् , अष्टशतं मकरिकावादकानाम् 51, अष्टशत शिशुमारिकाणाम् , अष्टशत शिशुमारिकावादकानाम् 52, अष्टशतं वंशानाम् , अष्टशतं वंशवादकानाम् 53, अष्टशतं चालीनाम् , अष्टशतं चालीवादकानाम् . चाली तूणविशेषः, स हि मुखे दत्त्वा वाद्यते 54 / अष्टशतं वेणूनाम् , अष्ट शतं वेणुवादकानाम् 55, अष्टशतं पिरिलीनाम् , अष्ट शतं पिरिलीवादकानाम् 56, अष्टशतं बद्धकानाम् , अष्टशतं बद्धकानाम् , अष्टशतं बद्धक-वादकानाम् , बद्धकस्तूर्यविशेषः 57, अव्याख्यातास्तु भेदा लोकतः प्रत्येतव्याः। एवमादीनि बहून्यातोद्यानि, आतोद्यवादकाँश्च विकुर्वति। सर्वसंख्यया तुमूलभेदापेक्षयाऽऽतोद्यभेदापेक्षया आतोद्यभेदा एकोनपञ्चाशत् , शेषास्तु भेदा एतेष्वेवान्तर्भवन्ति। यथा वंशाऽऽतोद्यविधाने चालीवेणुपिरलीबद्धका इति / यथा चाऽऽह- " एवमाइयाई एगणपन्न आउजविहाणाई विउव्वइ ति "1 विकुळ च तावत् स्वयं / विकुर्वितान् बहून देवकुमारान् देवकुमारिकाश्च शब्दयति। ते च शब्दिताः सन्तो हृष्टतुष्टाऽऽनन्दितचिताः सूर्याऽऽभसमीपमागच्छन्ति, आगत्य च करतलपरिगृहीतं दशनखं शिरसावर्त मस्तकेऽजलिं कृत्वा जयेन विजयेनवर्टापयित्वाएवमवादिषुःसन्दिशन्तु देवाना प्रियाः ! यद-रमाभिः कर्त्तव्यम् / ततः स सूर्याभो देवस्तान् देवकुमारान् देवकुमारिकाश्च एवमवादीत-गच्छत यूयं देवानां प्रियाः ! श्रमणं भगवन्तं महावीर त्रिःकृत्वः, आदक्षिणप्रदक्षिणं कुरुत, कृत्वा वन्दध्वं, नमस्यत, वन्दित्वा नमस्यित्वा गौतमाऽऽदीनां श्रमणानां निर्ग्रन्थानां तां देवजनप्रसिद्धां दिव्या देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत, उपदी चैतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत।" तए णं " इत्यादि। ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्याभन देवेन एवमुक्ताः सन्तो हृष्टा यावत्प्रतिशृण्वन्ति, अभ्युपगच्छन्तीत्यर्थः। प्रतिश्रुत्य च यत्र श्रमणो भगवान महावीरस्तत्रोपागच्छन्ति, उपागत्य च श्रमणं भगवन्तं महावीरं त्रिःकृत्व आदक्षिणप्रदक्षिणं कुर्वन्ति, कृत्वा च वन्दन्ते, नमस्यन्ति, वन्दित्वा नमस्यित्वा च यस्मिन् प्रदेशे गौतमाऽऽदयः श्रमणास्तत्र समकालमेव एककालमेव समवसरन्ति, मिलन्तीत्यर्थः / समवसृत्य च समक-मेव एककालमेव अवनमन्ति, अधो नीचा भवन्ति। अवनम्य च समकमेव उन्नमन्ति, ऊर्द्धमवतिष्ठन्त इति भावः। तदनन्तरं चैव क्रमेण सहित संगतम्, स्तिमितंचावनमनमुन्नमनं च वाच्यम्। अमीषा चसंहिताऽऽदीनां भेदः सम्यक्कौशलोपेतनाट्योपाध्यायादवगन्तव्यः। ततः स्तिमितं समक मुन्नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेव यथायोगमातोद्यविधानानि गृह्ण-न्ति। गृहीत्वा चसमकमेव वादितवन्तः, समकमेव प्रगीतवन्तः, समकमेव प्रनर्तितवन्तः / ' किं ते इत्यादि। केचिद् देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः / कथम् ? इत्याह-(उरेण मंदमिति) सर्वत्र सप्तम्यर्थे तृतीया। उरसि मन्दं यथा भवति एवं प्रगीताः / (सिरेण तारं कंठेण व तारमिति) शब्देन यथावल्लक्षणोपेतम। किमुक्तं भवति?-उरसि प्रथमतो गीतमत्क्षिप्यते. उत्क्षेपकाले चगीतं मन्दं भवति।" आदिमिउमारभंता, " इति वचनात् / अन्यथा गीतगुणक्षतेः, ततः उक्तमुरसि मन्दमिति / ततो गायतां मूर्धानमभिघ्नन स्वर उचैस्तरो भवति / स्थानकं च द्वितीयं तृतीय वा समधिरोहति। ततः शिरसितारमित्युक्तं. शिरसश्च प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति, घुलंश्चातिमधुरो भवति। (समयरेवगरश्यमिति) (गुंजाचक्ककुहरोवगूढ) गुञ्जनं गुजा, तत्प्रधानानि यानि चक्राणि शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगढ़ गुञ्जाचक्र कुहरोपगूढम् / किमुक्त भवति ?-तेषां देवकुमाराणां देवकुमारिकाणां चतस्मिन् प्रेक्षागृहमण्डपेगायता गीतं तेषु प्रेक्षागृहमण्डपसत्केषु च कुहरेषु स्यानि रूपाणि प्रतिशब्दसहस्राण्युत्थापयद्वर्त्तते इति / (रत्तमिति) रक्तम् / इह यद् गेयरागरक्तेन गीतं गीयते तत्र रक्तमिति। तद् द्विधा प्रसिद्धं (तिट्ठाणकरणसुद्धमिति) त्रीणि स्थानानि उरःप्रभृतीनि तेषु करणेषु क्रियया शुद्ध त्रिस्थानकरणशुद्धम्। तत् यथा-उरः शुद्ध, कण्ठशुद्धं, शिरोविशुद्धं च / तत्र यदि उरसि स्वरः स्वभूमिकाऽनुसारेण विशालो भवति, तत उरोविशुद्धं, स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च, ततः कण्ठविशुद्धं, यदि पुनः शिरः प्राप्तः सन्सानुनासिको भवति, ततः शिरोविशुद्धम्।यदि वा तत् उर:कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितैर्विशुद्धीयतेतत् उरःकण्ठशिरोविशुद्ध