SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ णग्गइ 1767- अभिधानराजेन्द्रः भाग - 4 णग्गइ तमश्वं क्वचित्तरौ बद्धा स्वयमितस्ततो भ्रमन् स कस्मिंश्चित् सरसिजलं पपौ। तत्रैकां सुरूषां तापसपुत्रीं ददर्श तापसपुत्र्याहूतः स तापसाऽऽश्रम प्राप / तत्र तापसास्तस्य भृशं सत्कारं चक्रुः / सा कन्या तापसैर्दत्ता, राज्ञा च परिणीता / तां नवोढा कन्यां गृहीत्वा तमेवाश्वमधिरुह्य पश्चादलितोऽन्तरालमार्गे क्वचित् सरपाल्यां राजा सुप्तोऽपि जाग्रन्नेवाऽऽसीत्। राज्ञी तु निद्राणा। केशरिराक्षसेन तत्राऽऽगत्य नृपस्यैवं कथितम्-षण्मासान यावद् बुभुक्षितोऽहं त्वां भक्ष्यं प्राप्याद्य तृप्तो भविष्यामि, अन्यथा मद्वाञ्छितं देहि / राज्ञोक्तम्-बूहि स्ववाञ्छितम्। तेनोक्तम्-कश्चिदष्टादशवर्षीयो ब्राह्मणपुत्रः शिरसि पितृदत्तपदस्त्वया खड्गेन हतः सप्तदिनमध्ये चेदलिर्दीयते, तदाऽहं त्वां मुञ्चामि, नान्यथा इति / राज्ञा प्रतिपन्नम् / प्रभाते राजा चलितः कुशलेन स्वपुरं गतः / सैनिकाः सर्वेऽपि मिलिताः / राज्ञा स्वमन्त्रिणं प्रति राक्षसवृतान्तः कथितः / मन्त्री सुवर्णपुरुषं निर्माय पटहवादनपूर्व नगरे भ्रामयामास / तेनैवं चोद्घोषितम्-यो हि ब्राह्मणपुत्रोराक्षाय स्वजीवितदानेन नृपजीवित रक्षते, तस्य पित्रोरयं सुवर्णपुरुषो दीयते / इयमुद्घोषणा षड् दिनानि यावत् तत्र जाता। सप्तमदिने एकत्र प्राज्ञो ब्राह्मणपुत्रस्तां निर्घोषणां श्रुत्वैवं मातापितरावबोधयत्-प्राणा गत्वराः सन्ति, मातापित्रोश्चेद्रक्षणं मम प्राणैः कृत्वा भवेत् , तदा वरं, तेनाहं नृपजीवितरक्षाऽर्थं स्वजीवितं राक्षसाय दत्त्वा सुवर्णपुरुषं दापयामि। एवं भृशमाग्रहेण मातापित्रोरनुमतिं गृहीत्वा राज्ञः समीपे गतः / राज्ञा तुतत्पितुः पादौ शिरसि दापयित्वा स्वयमाकर्ण्य सखड्गस्तस्य पृष्ठतो भूत्वा राक्षसस्य समीपमानीतः। यावता राक्षसो दृष्टस्तावता नृपेणोक्तम्-भो ब्राह्मणपुत्र ! इष्ट स्मर / एवं नृपेणोक्तः स ब्राह्मणपुत्र इतस्ततो नेत्रे निक्षिपन् जहास। तदानीं राक्षसस्तुष्टः प्राऽऽहयदिष्ट तन्मार्गयेति। स प्राऽऽह-यदि त्वंतुष्टस्तदा हिंसां त्यज, जिनोदित दयाधर्म कुरु। राक्षसेनापितद्वचसा दयाधर्मः प्रतिपन्नः। राजादयोऽपितं दारकं प्रशंसितवन्तः। अथ दासी प्राऽऽह-हे राज्ञि! तस्य ब्राह्मणपुत्रस्य को हास्यहेतुः ? तयोक्तम्-साम्प्रतं मे निद्रा समायातीत्युक्त्वा सा सुप्ता। द्वितीयदिने दासीपृष्टा सा राज्ञी प्राऽऽह-हे हले ! अथं तस्य हास्यहेतुःनृणां हि माता, पिता, नृपः शरणं, ते त्रयोऽपि मत्पार्श्वस्थाः , अहं पुनः कमन्यं शरणं श्रयामि? इति विचिन्त्य तस्य हास्यमुत्पन्नम्। इति नवमी कथा / एवं सा चित्रकरसुता कथाभिर्मुहुर्मुहुर्भोहयन्ती राजानं वशीचकार। राजा सुतस्यामेवाऽऽसक्तोऽन्यासां राज्ञीनां नामापिनजग्राह। ततस्तस्याग्छिद्राणि पश्यन्त्यः सर्वा अपि सपन्यः परमद्वेष वहन्ति स्म। चित्रकरसुता तु निरन्तरं मध्याह्ने रहस्येकाकिनी कपाटयुगलं दत्त्वा गृहान्तः प्रविश्य पूर्ववरवाणि प्रावृत्यऽऽत्मानमेवं शिक्षयामास-आत्मन् ! तवायं पूर्ववषः, साम्प्रतं राजप्रसादादुत्तरामवस्थां प्राप्य गर्व मा कुर्याः। एवमात्मनः शिक्षा ददतीं दृष्ट्वा सपन्यो राजानमेवं विज्ञपयामासुः-स्वामिन् ! एषा क्षुद्रा तवाहर्निश कार्मण कुरुते, यद्यस्माकं वचनं न मन्यसे, तदा मध्याह्ने स्वयं तद्गृहं गत्वा तस्याः स्वरूपं विलोकय / भूपतिस्तासां वाक्यं निशम्य मध्याह्न तस्या गृहं गतः। सातु तथैव पूर्वनेपथ्यं परिधायाऽऽत्मनः शिक्षा ददती भूपतिना दृष्टा। सर्वाणि तद्वचास्यपि श्रुतानि। राजा तस्या निर्गर्वता ज्ञात्वा परमं प्रमोदमवाप। इमाच पट्टराज्ञी चकार। राज्ञो विशेषान्मनो विनोदमियं व्यधात्। अन्यदा तन्नगरोद्याने विमलाऽऽचार्याः समायाताः / राज्ञया सह नृपस्तद्वन्दनाय तत्र गतः, नगरलोकोऽपि तद्वन्दनार्थं गतः / तदा विमलाऽऽचार्यो देशनां चकार। चित्रकरसुता, नृपश्च द्वावपि प्रतिबुद्धी श्रावकधर्म गृहीतवन्तौ, परस्परमनाबाधया त्रिवर्गसाधनं कुरुतः / अन्येद्युस्तया दत्तपञ्चपरमेष्ठिश्रीनमस्कारस्तत्पिता मृतो व्यन्तरो जातः / कालान्तरेणाऽऽहंत धर्ममाराध्य चित्रकरसुता राज्ञी मृता देवीत्वं प्राप। ततश्चुत्वा वैताढ्ये तोरणाभिधे पुरे दृढशक्तिखेचरस्य पुत्री कनकमाला बभूव। प्राप्तयौवनांतामेकदा वीक्ष्य कन्दर्पतप्तो वासवनामा कश्चित् खेचरोऽपहृत्यात्र महाद्री मुक्त्वा स्वचित्ते प्रमोदं बभार / अत्र विद्याबलात् समग्रां सामग्री विधाय स वासवविद्याधरो यावद्गन्धर्वोद्वाहाय समुत्सुकोऽभवत् , तावत् कनकमालाऽग्रजः सुवर्णतेजास्तदनुपदिकस्तत्राऽऽयातस्तं वासवं विद्याधरमधिक्षिप्तवान् / तौ द्वावपि कोपाद् घोरं युद्धं कुर्वाणौ परस्परप्रहाराद् मृतौ / कनकमाला तु भृशं भ्रातृशोकं चकार। तदानीं कश्चिद्देवस्तत्राऽऽगत्य कनकमाला प्रत्येवमवदत्-पुत्रि ! भ्रातृशोकं मुञ्च, चित्तं स्वस्थंकुरु, ईदृक्ष एव संसारोऽस्ति, त्वं मम पूर्वभवे पुत्र्यभूः, तिष्ठ त्वमत्रैव गिरौ। अत्र स्थितायास्तव सर्वं भव्यं भविष्यति। एवं देववचनमाकर्ण्य कनक-माला चिन्तयामासकोऽसौ देवः ? कथमस्याहं पुत्री ? असौ मयि स्निह्यते, अहमप्यस्मिन् स्निह्यामि / यावदेवं कनकमाला चिन्तयतितावत्तजनको विद्याधरेन्द्रो दृढशक्तिनामा धावन तत्राऽऽयातः, स्वपुत्रं स्वर्णतेजसं, विरोधिन वासवविद्याधरं च मृतं दृष्ट्वा छिन्नमस्तकां चतां पुत्रीं दृष्ट्ववं विचारयामास-अयं सुतः, इयं सुता, अयं शत्रुस्खयोऽप्यमी ईदृगवस्था प्राप्ताः / स्वप्नोपमं जगत्सर्व दृश्यते / एवं ध्यायतस्तस्य दृढशक्तिविद्याधरस्य जातिस्मरणमुत्पन्नम्। ततोऽसौ शासनदेवीप्रदत्तवेषश्चारणश्रमणो यतिरभूत / अथ स व्यन्तरस्तया पुत्र्या सह तं श्रमणं ननाम / जीवन्तीं तां पुत्रीं वीक्ष्य स चारणश्रमणस्तं व्यन्तरं नमन्तमपृच्छत्-किमिदमिन्द्रजाल मया दृष्टम् ? व्यन्तरः प्राऽऽह-तव पुत्रः शत्रुश्च मिथो नियुध्य मृतौ / इयं च कन्या जीवन्त्यपि मया तव मृता दर्शिता। मुनिः प्राह-कथं त्वया मृता कृता? स व्यन्तरः स्मृत्वैवमाह-हे मुनिनायक ! एतद्- वार्ता शृणुक्षितिप्रतिष्ठनृपतेर्जितशत्रोरियं प्राग्भवेपत्ल्यभवत् , चित्राङ्गदनाम्नश्चित्रकृतो ममैषा पुत्र्यभवत्, एतया प्राग्भवे ऽन्त्यसमये मम नमस्कारा दत्ताः, तत्प्रभावादहं व्यन्तरो जातः / एषा अपि मृता देवी जाता, देवीत्वभनुभूय तव सुताऽत्र भवे जज्ञे। तेन विद्याधरेणापहत्यात्र चैत्ये मुक्ता, यात्रार्थमायातेन मया दृष्टा, एत-स्या बन्धौ चौरे च मृते यावदिमामहमाश्रयामि तावद्भवन्तोऽत्र प्राप्ताः / मया विमृष्टम्-इयमनेन जनकेन समं मा यात्विति मयैतस्या गोपनमाया विहिता। यत्तव निराशत्वं मया तदानीं कृतं, तत् क्षन्तव्यम्। मुनिरू चे -अहो ! व्यन्तर ! या त्वया तदा माया कृता, सा ममत्वमायापहारिणी जाता, तेन मम भवतोपकृतं, न किमप्य-पराधः। एवमुक्त्वा स मुनिर्धर्माऽऽशिष दत्त्वाऽन्यत्र विजहार। अथ प्राग्भववृत्तान्तं श्रुत्वा सा कन्या जातिस्मृतिभागभूत् , प्राग्जन्मजनकं व्यन्तरं प्राऽऽहतात ! तं पूर्वभवपतिं मेलय / व्यन्तरः प्राऽऽह-स ते प्राग्भवभर्ता जितशत्रुनृपतिर्देवीभूय च्युतः साम्प्रतं सिंहस्थो नाम राजा जातोऽस्ति। स गन्धारदेशे पुण्डूवर्द्धननगरादश्वापहृतोऽत्र समायास्यति / स हि त्वामत्रैव सकलसामग्या परिणेष्यति / यावत् स इहाभ्येति ता
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy