________________ णगरी 1765 - अभिधानराजेन्द्रः भाग - 4 णग्गइ नरपतिना राज्ञा प्रविकीर्णो गमनाऽऽगमनाभ्या व्याप्तो महीपतिपथो राजमार्गो यस्यां सा तथा / अथवा-नरपतिना प्रविकीर्णा विक्षिप्ता निरस्ताऽन्येषा महीपतीना प्रभा यस्यां सा तथा / अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्यां सा तथा। (अणेगवरतुरगमत्तकुंजररहपकीय संदगाणियाणाजाणजुग्गा) अनेकैर्वरतुरगैमत्तकुञ्जरैः (रहपकरे त्ति) रथनिकरैः शिविकाभिः स्यन्दमानाभिराकीर्णा व्याप्ता यानैर्युग्यैश्च या सा तथा / अथवा-अनेके वरतुरगाऽऽदयो यस्यामाकीर्णानि च गुणवन्ति यानाऽऽदीनि यस्यां सा तथा। तत्र शिविकाः कूटाऽऽकारेण छादिताः ' जम्पान विशेषाः, स्यन्दमानिकाः पुरुषप्रमाणा जम्पानविशेषाः, यानानि शकटाऽऽदीनि, युग्यानि गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिको पशोभितानि जम्पानान्येवेति। (विमुउलणवणलिणिसोभियजला) विमुकुलाभिर्विकसितकमलाभिर्नवाभिनलिनीभिः शोभितानि जलानि यस्यां सा तथा। (पंडुरवरभवणसण्णिमहिया) पाण्डुरैः सुधाधवलैः वरभवनैः प्रासादैः सम्यक निरन्तरं महितेव महिता पूजिता या सा तथा / (उत्ताणणयणपच्छणिज्जा) सौभाग्यातिशया-दुत्तानिकैरनिमिषितैर्नयनैलॊचनैः प्रेक्षणीया या सा तथा। (पासा-ईया) चित्तप्रसन्नकारिणी। (दरिसणिज्जा) यां पश्यचक्षुः श्रमं न गच्छति। (अभिरूवा) मनोज्ञरूपा। (पडिरूवा) द्रष्टारं द्रष्टार प्रति ' रमणीय ' रूपं यस्याः सा तथेति। औ० / च० प्र०। ज्ञा०रा०। णगाहिराय-पुं०(नगाधिराज) श्रीशत्रुञ्जयपर्वते, ती०१ कल्प। मगिंद-पुं०(नगेन्द्र) पर्वतप्रधाने मेरौ, सूत्र०१ श्रु०६ अ० / णगिण-त्रि०(नग्न) भावतो निर्ग्रन्थे, आचा०१ श्रु०६ अ०१ उ०। णम्ग-त्रि०(नग्न) नज-तः।" अधो मनयाम् "||2 / 78 / इति संयुक्तस्य नस्य लुक् / प्रा०२ पाद।" अनादौ शेषाऽऽदेशयोर्दित्वम् " / / 8 / 2 / 86 | इत्यनादौ वर्तमानस्य गस्य द्वित्वम्। प्रा०२ पाद। दिगम्बरे, नं०। आ० म०। जग्गइ-पुं०(नग्नजित्) गन्धारविषये पुरुषपुराधिपतौ स्वनामख्याते राज्ञि, आव० 4 अ०।" नमी राया विदेहेसु, गंधारेसु य णगई। " प्रव्रजित इति शेषः / उत्त०१८ अ०। अथास्य पूर्वभवचरितनिबद्धं वृत्तमुद्भाव्यतेअस्मिन् भरते पुण्ड्रवर्द्धनं नाम नगरमस्ति। तत्र सिंहस्थो राजा वर्तते गन्धारदेशाधिपतिः। तस्य राज्ञोऽन्यदा द्वावश्चौ प्राभृते समायातौ। तयोः परीक्षार्थमेकस्मिन् तुरङ्गे राजाऽधिरूढः, द्विताये तुरऽपरो नर आरूढः / तेन सममपरैश्वा श्ववारशतैः परिवृतो भूपतिर्याह्यामिकायां गतः / परीक्षा कुर्वता च राज्ञाऽश्वः प्रधानगत्या विमुक्तः। सोऽपि बलवता वेगेन निर्ययौ / यथा यथा राजा वल्गामाकर्षयति, तथा तथा स वायुवेगोऽभवत् / पुरोपवनान्यतिक्रम्य सोऽश्वो राजानं लात्वा महाटव्यां प्रविष्टः / श्रान्तेन भूपेन तदाऽस्य वल्गा विमुक्ता। अथ यदा वल्मामोचनेऽश्वः स्थिरीबभूव, तदा राजैन विपरीतमश्वं मन्यते स्म ततस्तस्मादुत्तीर्य राजा भूमिचरो बभू-व। तं च पानीयं पाययित्वा वृक्षे बबन्ध, स्वप्राणवृत्तिं च फलैर्विदधे / तत एकं नगमारुह्य क्वचित्प्रदेशे सुन्दरमेकं महावासं ददर्श / राजा कुतूहलात्तस्मिन्नावासे प्रविष्टः / तत्रैकाकिनी पवित्रगात्रां कन्यां भूपतिर्दृष्टवान्। सा राजानमागच्छन्तं दृष्ट्वा भूरिहर्षाऽऽसनंददौ / राज्ञा ऊचेका त्वम् ? कोऽयमद्रिनिवासः ? किमिदं रम्यं धाम ? सा प्राऽऽहभूपाल ! प्रथम मत्पाणिग्रहणं कुरु, साम्प्रतं सिंहविशिष्ट लग्नमस्ति, पश्चात्सर्वं वृत्तान्तमहं कथयिष्यामि। तयेत्युक्ते नरपतिस्तत्र कन्यया समं पूजितं जिनबिम्यं प्रणम्योद्वाहमाङ्गल्यमलञ्चकार / भूपतिना परिणीता सा कन्या विविधान् भोगोपचारान चकार, विचित्राश्च भक्तीर्दर्शयामास / अवसरे राजा तां प्रत्येवमाह-विमलः पुण्यैराग्योः संबन्धो जातोऽस्ति, पर त्वं स्ववृत्तान्तं पदकाऽसि त्वम् ? कथमत्रैकाकिनी वससि ? स्वभवमुक्ते सा स्वसंबन्धं मूलतो वक्तुमारेभेक्षितिप्रतिष्ठे नगरे जितशत्रुर्नूपोऽस्ति, सोऽन्यदा परदेशाऽऽयातचरानेवमाह-अहो ! मद्राज्ये किशिद् न्यूनमस्ति। ते प्राऽऽहु:-सर्वमस्ति तव राज्ये, परं विचित्रचित्रा सभा नास्ति / ततो नृपतिश्चित्रकरानाकार्य सभागृहभित्तिभागास्तेषां सर्वेषां समाश्चित्रयितुं दत्ताः / सर्वेऽपि चित्रकराः स्वस्वभित्तिभागान् गाढोद्यमेन चित्रयन्ते / तत्रैको वृद्धश्चित्रकरः सकलचित्रकलावेदी स्वभित्तिभागं चित्रयितुमारब्धवान्। सहायशून्यस्य तस्य निरन्तरं गृहतः कन-कमञ्जरी रूपवती तत्पुत्री भक्तं तत्राऽऽनयति। अन्यदा सा स्वगृहाद् भक्तमानयन्ती राजमार्गे गच्छन्त्यश्ववारमेकं ददर्श / स च बालस्त्रीवराकाऽऽदिजनसङ्कीर्णेऽपि राजमार्गे त्वरितमश्वमवाहयत्। लोकास्तु तद्भयादितस्ततो नष्टाः / साऽपि क्वचिन्नंष्ट्वा स्थिता, पश्चात् तत्राऽऽयाता / भक्तपात्रहस्तां तामागतां वीक्ष्य स वृद्धश्चित्रकरः पुरीषोत्सर्गार्थ बहिर्जगाम / एकत्राऽऽहारपात्रमाच्छादयित्वा सा क्वचिद्भित्तिदेशे वर्णकैर्मयूरापिच्छमालिलेखा अथतत्र राजा सं-प्राप्तः / भित्तिचित्राणि पश्यन कमार्यालेखिते केकिपिच्छे साक्षात्पिच्छमन्यमानः करं चिक्षेप। भित्त्यास्फालनतो नखभड्रेन विलक्षीभूतं तं नृपं सामान्यपुरुषमेव जानन्ती सा चित्रकरपुत्र्येवमाहचतुर्थः पादस्त्वं मया लब्धः / नृप प्राऽऽहपूर्व त्वया केन त्रयः पादा लब्धाः, साम्प्रतमहं कथं त्वया चतुर्थः पादो लब्धः? सा प्राऽऽह-श्रूयताम्- योऽद्य राजमार्गे त्वरितमश्वं वाहयन बालस्वीप्रमुखजनाना त्रासमुत्पादयन् दृष्टः, स मूर्खत्वे प्रथमः पादः / द्वितीयः पाद इतो राजा, यः कुटुम्बलोकसहितैश्चित्रकरैः समं भित्तिभागं जराऽऽतुरस्यैकस्यैव मम पितुर्ददौ / तृतीयः पादो मम पिता, यो नित्यं भक्ते समायाते बहिर्याति। चतुर्थस्तु त्वम् , योऽस्मिन् भित्तिदेशे मल्लिखिते मयूर-पिच्छे कर चिक्षेप। किमित्येवं त्वया न विमृष्टम्-यदत्र सुधाघृष्ट भित्तिदेशे निराधारा मयूरपिच्छस्थितिः कथम् ? एवं तस्या वचचातुरीरञ्जितो राजा तत्पाणिग्रहणवाञ्छकः सन् तस्याः पितुः समीपे स्वमन्त्रिणं प्रेषयित्वा तां प्रार्थितवान्। पित्राऽपि सा दत्ता, मुमुहुर्ते परिणीता, राज्ञः प्रकामं प्रेमपात्रा वभूव। सर्वान्तःपुरीषु च मुख्या जाता। विविधानि दूष्याणि, रत्नाऽऽभरणानि चाऽऽससाद / एकदा तया मदनाभिधान, स्वदासी रहस्येवंवभाषे-भद्रे! यदा मदनशान्तो भूपतिः स्वपिति, तदा त्वयाऽहमेवं प्रष्टव्यास्वामिनि ! कथां कथयेति / तयोक्तम्-अवश्यमहं तदानीं प्रश्नयिष्ये। अथ रात्रिसमये राजा दगृहे समायातः, तां भुक्त्वा रतश्रान्तो यावत् स्वपिति, तावता दास्या इयं पृष्टास्वामिनि ! कथां कथय / राज्ञी प्राऽऽहयावद्राजा निद्रां नाऽऽप्नोति तावन्मानं कुरु, पश्चात् त्वदगे यथेष्टं कथा कथयिष्यामि / राजाऽपि तां कथां श्रोतुकामः कपटनिद्रया सुष्वाप / पुनर्दास्या साम्प्रतं कथां कथयेति पृष्ट चित्रकरपुत्री कथा कथयितुमारेभे