________________ णगरी 1764 - अभिधानराजेन्द्रः भाग-४ णगरी कृष्टेन संकर्षणेन विकृष्टा दूरवर्तिन्यो लष्टाः प्रज्ञपिताः कथिताः सेतुसीमा यस्याः सा तथा ; अनेन तज्जनपदस्य लोकबाहुल्यं, क्षेत्रबाहुल्यं चोक्तम् / (कुकुडसडेयगामपउरा) कुकुटाः ताम्रचूडाः, षण्डेयाः पण्डपुत्रकाः षण्डा एव, तेषां ग्रामाः समूहास्ते प्रचुराः प्रभूताः यस्यां सा तथा ; अनेन लोकप्रमुदितत्वं व्यक्तीकृतम् : प्रमुदितो हि लोकः क्रीडाऽऽद्यर्थ कुकुटान् पोषयति, षण्डांश्च करोतीति / (उच्छुजवसालिकलिया) पाठान्तरेण-" उच्छुजवसालिमालिणीया / " एत द्व्याप्तेत्यर्थः / अनेन च जनप्रमोदकारणमुक्तं, न ह्येवंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति। (गोमहिसगवेलगप्पभूता) गवादयः प्रभूताः प्रचुरा यस्यामिति वाक्यम्, गवेलका उरभ्राः (आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला) आकारवन्ति सुन्दराऽऽकाराणि, आकारचित्राणि वा यानि चैत्यानि देवताऽऽयतनानि, युवतीनां च तरुणीनां, पण्यतरुणीनामिति हृदयम् / यानि विविधानि सन्निविष्टानि सन्निवेशनाति पाटकाः,तानि बहुलानियस्यांता तथा।" अरिहंतचेइयजणवइविसण्णिविट्ठबहुला" इति पाठान्तरम्। तत्रार्हचैत्यानां जनानां व्रतिनां च विविधानि यानि सन्निविष्टानि पाटकास्तैर्बहुलेति विग्रहः।" सुजागचित्तचेइयजूयचिइसण्णिविट्टबहुला" इति च पाठान्तरम्। तत्र च सुयागाः शोभनयज्ञाः, चित्रचैत्यानि प्रतीतानि, यूपचितयो यचेषु यूपचयनानि, द्यूतानि वा क्रीडाविशेषाश्चितयस्तेषां सन्निविष्टानि निवेशाः, तैर्ब-हुला या सा तथा। (उक्कोडियगायगठिभेयभडतक्करखंडरक्खरहिया) उत्कोटा उत्कोचा, लश्चेत्यर्थः / तवा ये व्यवहरन्ति ते औस्कोटिकाः, गात्रात्मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशाद ग्रन्थि कार्षापणाऽऽदिपुट्टलिकां भिन्दन्त्याच्छिान्दन्तीति गात्रग्रन्थिभेदकाः / " उक्कोडियगाहगंठिभेय " इति च पाठान्तर व्यक्तम्। भटाश्वारभटाः बलात्कारप्रवृत्तयः, तस्करास्त एव चौर्यं कुर्वन्तीत्येवंशीलाः, खण्डरक्षा दण्डपाशिकाः, शुल्कपाला वा, एभीरहिता वा सा तथा; अनेन तत्रोपद्रवकारिणामभावमाह / (खेमा) अशिवाभावात् / (णिरुबद्दवा) निरुपद्रवा, अविद्यमानराजाऽऽदिकृतोपद्रवेत्यर्थः / (सुभिक्खा) सुष्टु मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाषण्डिनां गृहस्थानां च (वीसत्थसुहा-वासा) विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः सुखस्वरूपः शुभो वाऽऽवासो यस्यां सा तथा। (अणेगकोडिकुडुंबियाऽऽइण्णनिव्वुयसुहा) अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः, तैः कौटुम्बिकैः कुटुम्बिभिराकीर्णा सकुलाया सा तथा। सा चासो निर्वृता च सन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयः, अतएव सा चासौ सुखायशुमा वेति कर्मधारयः। (नडनट्टगजल्लमल्लमुट्टियवेलंबयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिया) नटाः नाटकानां नाटयितारः, नर्तका ये नृत्यन्ति, अङ्किल्ला इत्येके / जल्ला वरत्राखेलकाः, राज्ञस्तोत्रपाठका इत्यन्ये / मल्लाः प्रतीताः। मौष्टिका मल्ला एव, ये मुष्टिभिः प्रहरन्ति / विडम्बकाः विदूषकाः, कथकाः प्रतीताः, प्लवका ये उत्प्लवन्ते, नद्यादिक वा तरन्ति। लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा वा इत्यर्थः / आख्यायका ये शुभाशुभमाख्यान्ति।लवा महावंशाप्रखेलकाः, मवाश्चित्रफलकहस्ता भिक्षुकाः, ' तूणइल्ला ' तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणका | वीणावादकाः, अनेके च ये तालाचराःतालाऽऽदानेन प्रेक्षाकारिणः, तैरनुचरिता आसेविता या सा तथा। (आरामुजाणअगमतलागदीहियवप्पिणगुणोववेया) आरमन्ति येषु माधवीलतागृहाऽऽदिषु दम्पत्यादीनि क्रीडन्ति ते आरामाः, उद्यानानि पुष्पाऽऽदिसवृक्षसडकुलान्युत्सवाऽऽदौ बहुजनभोग्यानि (अगड त्ति) अवटाः कूपाः, तडागानि प्रतीतानि, दीर्घिका सारणी, (वप्पिण त्ति) केदारः / एतेषां ये गुणाः रम्यताऽऽदयः, तैरुपपेता युक्ता या सा तथा / उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकध्वादिदर्शनादकारलोपे उपपेतेति भवति / क्वचित्पठ्यते-" नंदणवणसण्णिभप्पगासा " नन्दनवन मेरोर्द्वितीयवनं, तत्प्रकाशसनिभः प्रकाशो यस्यां सा तथा। इह चैकस्य प्रकाशशब्दस्य लोप उष्ट्रमुख इत्यादाविवेति / (उविद्धविउलगंभीरखायफलिहा)' उविद्धं 'ऊर्द्ध विपुलं विस्तीर्ण गम्भीरमलब्धमध्यं खातमुपरि विस्तीर्णम् अधः सङ्कट, परिखा च अध उपरि च समा खातरूपा यस्यां सा तथा / (चक्कगयभुसुंढिओरोहसयग्घिजमलकवाडधणदुप्पवेसा) चक्राणि रथाङ्गानि, अरघट्टाङ्गानि वा, गदाः प्रहरणविशेषाः, भुसुण्डयोऽष्येवम्। अवरोधः प्रतोलिज्ञद्वारेष्ववान्तरप्रकारः संभाव्यते। शतघ्न्यो महायष्टयः, महाशिलावा, या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्नन्तीति, यमलानि समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दु-प्रवेशा या सा तथा / (धणुकुडिलवंकपागारपरिक्खित्ता) धनुः कुटिलं कुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा। (कविसीसयवट्टरइयसंठियविरायमाणा) कपिशीर्षकैर्वृत्तिर-चितैर्वर्तुलकृतैः संस्थितैर्विशिष्टसंस्थानवद्भिर्विराजमाना शोभमानाया सा तथा / (अट्टालयचरियदारगोपुरतोरणउण्णय-सुविभत्तरायमग्गा) अट्टालकाः प्राकारोपरिवाश्रयविशेषाः, चरिका अष्टहस्तप्रमाणा नगरप्रकारान्तरालमार्गाः, द्वाराणि प्राकारद्वारिकाः, गोपुराणि पुरद्वाराणि, तोरणनि प्रतीतानि, उन्न-तानि गुणवन्ति उच्चानि च यस्यां सा तथा / सुविभक्ताः विविक्ता राजमार्गा यस्यां सा तथा / ततः पदद्वयस्य कर्मधारयः। (छयायरियरइयदढफलिहइंदकीला) छेकेन निपुणेनाऽऽचार्येण शिल्पिना रचितो दृढो बलवान् परिघोऽर्गला. इन्द्रकीलश्च गोपुरावयवविशेषो यस्यां सा तथा। (विवणिवणियच्छेत्तसिप्पियाऽऽइण्णणिव्युयसुहा) विपणीनां वणिक्पथानां हट्टमार्गाणा, वणिजांच वाणिजकानां च क्षेत्रं स्थानं या सा तथा। शिल्पिभिः कुम्भकाराऽऽदिभिराकीर्णा, अत एव जनप्रयोजनसंसिद्धिर्जनानां निर्वृतत्वेन सुखितत्वेन च निर्वृतसुखा च या सा तथा। वाचनान्तरेछेतशब्दस्य स्थाने छेयशब्दोऽधीयते। तत्र च छेकशिल्पिकाऽऽकीणे ति व्याख्येयम् / (सिंघाडगतिगचउक्कचचरपणियाऽऽवणविविहवत्थुपरिमंडिया) शृङ्गाटकं त्रिकोणं स्थान, त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्क रथ्याचतुष्कमेलकं, चत्वरं बहुरथ्याऽऽपातस्थानं, पणितानि भाण्डानि, तत्प्रधाना आपणा हट्टा विविधवस्तूनि अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा। पुस्तकान्तरेऽ. धीयते-'' सिंघाडगतिगचउक्कचचरचउम्मुह- महापहपहेसु पणियाऽऽपणविविहवेसपरिमंडिया। " तत्र चतुर्मुखं चतुरि देवकुलाऽऽदि, महापथो राजमार्गः, पन्थास्तदितरः, ततश्च शृङ्गाटकाऽऽदिषु पणिताऽऽपणैर्विविधवेशैश्च जनैर्विविधवेश्याभिर्वा परिमण्डिता या सा तथा / (सुरम्मा) अतिरमणीया,(नरवइपविइण्णमहिवइपहा)