________________ जंबू 1366 - अभिधानराजेन्द्रः - भाग 4 जंबू दि। तत्र तासु चतसृषुशालासु, या सा पौरस्त्या शाला, सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः / अत्रं भवनं प्रज्ञप्त, क्रोशमायामेन, एवमेवेति सिद्धायतनवदिति, अर्द्धकोशं विष्कम्भेन देशोनं क्रोशसुच्चत्वेनेति प्रमाणं, द्वारादिवर्णकच वाच्यः / नवरमत्र शयनीयं वाच्यम्, शेषासु दाक्षिणात्यादिशालासु प्रत्येक-मेकैकभावेन त्रयः प्रासादावतंसकाः सिंहासनानि सपरि-वाराणि च बोद्धव्यानि, तेषां प्रमाण च भवनवत्, तत्र दापनोदाय भवनेषु शयनीयानि प्रासादेषु त्वास्थानसभा इति। ननु भवनानि विषमायामविष्कम्भानि, पद्मद्रहादि-मूलपद्मभवनादिषु तथा दर्शनात्, प्रासादास्तु समायाम-विष्कम्भाः, दीर्घवैताढ्यकूटगतेषु वृत्तवैताट्यगतेषु वैजया-दिराजधानीगतेषु अन्येष्वपि विमानादिगतेषु च प्रासादेषु समचतुरसत्वेन समायाभविष्कम्भत्वस्य सिद्धान्त-सिद्धत्वात्, तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते? उच्यते- "तेपासाया कोसं, समूसिआ अद्धकोसवित्थिण्णा / " इत्यस्य पूज्यश्रीजिनभद्रगणिक्षमाश्रमणोपज्ञक्षेत्र-विचारगाथार्द्धस्यवृत्तौते प्रासादाः, क्रोशमेकं देशोनमिति शेषः, समुच्छ्रिता उचाः क्रोशार्द्धमर्द्धक्रोशं विस्तीर्णाः, परिपूर्णमेकं क्रोशं दीर्घा इति श्रीमलयगिरिपादाः। तथा जम्बूद्वीपसमासप्रकरणे प्राच्ये शाले भवनम्, इतरेषु प्रासादमध्ये सिद्धायतनसर्वाणि विजयार्द्धमानानीति श्रीउमास्वातिवाचकपादाः। तथा तपागच्छाधिराजपूज्यश्री सोमतिलकसूरिकृतनव्यबृहत्क्षेत्रविचारसत्कायाः, 'पासाया सेसदिसा, सालासु विअडगिरिगय टब तओ।" इत्यस्या गाथाया अवचूर्णी शेषासु तिसृषु शाखासु प्रत्येकमेकैकभावेन तत्र त्रीणिआस्थानोचितानि मन्दिराणि, देशोनं क्रोशमुचाः क्रोशार्द्ध विस्तीर्णाः पूर्णक्रोशं दीर्घा इति श्रीगुणरत्नसूरिपादाः यदाहुः, तदाशयेन प्रस्तुतोपङ्ग स्योत्तरत्र जम्बूद्वीपपरिक्षेपकवनवापीपरिगत प्रासादप्रमाणस्तदनुसारेण चेत्येवं निश्चिनुमो जम्बूप्रकरणप्रासादा विषमायामविष्कम्भा इति। यत्तु श्रीजीवाभिगमसूत्रवृत्तौ क्रोशमेकमूर्द्धमुच्चैस्त्वेन, अर्द्धक्रोश विष्कम्भे ने त्युक्तं, तद् गम्भीराशयं न विद्मः / अथास्याः पद्मवरवेदिकादिस्वरूपमाह- "जम्बूए णं" इत्यादि। जम्बू‘दशभिः पद्मवरवेदिकाभिः प्राकारविशेषरूपाभिः सर्वतः समन्तात् सपरिक्षिप्ता वेदिकानां वर्णकः प्राग्वत्, इमाश्च जम्बूमूलं जम्बूपरिवृत्य स्थिताः ज्ञातव्याः / या तु पीठपरिवेष्टिका सा तु प्रागेवोक्ता / अथास्याः प्रथमपरिक्षेपमाह- "जंबूए णं'' इत्यादि / जम्बूः णमितिवाक्यालकारे / अन्येनाष्टशतेन जम्बूनां जम्बूवृक्षाणां तदोच्चत्वानां, तस्या मूलं जम्ब्वा अर्द्धप्रमाणमुचत्वं यासा तास्तथा तासां, सर्वतस्समन्तात् संपरिक्षिप्ता उपलक्षणं चैतत् तेनोवैधायामविस्तारा अपि अर्द्धप्रमाणा ज्ञेयाः / तथाहि ता अष्टाधिकशतसंख्या जम्ब्या प्रत्येक चत्वारि योजनान्युचैस्त्वेन क्रोशमेकमवगाहनम्, एक योजनमुचः स्कन्धः त्रीणि योजनानि विडिमा सर्वाग्रणोचैस्त्वेन सातिरेकाणि चत्वारि योजनानि, तत्रैकैका शाखा, अर्द्धकोशहीने द्वे योजने दीर्घा, क्रोशपृथुत्वः स्कन्ध इति भवति सर्वसंख्यया आयामविष्कम्भतश्चत्वारि योजनानि, आसु चानादृतदेवस्याभरणादीनि तिष्ठन्ति / एतासां वर्णकज्ञापनायाह (तासिणं वण्णओ ति) तासां च वर्णको मूलजम्बूसदृश एवेति। अथासा यावस्त्यः पद्मवरवेदिकाः ता आह 'ताओ णं' इत्यादि उत्तानार्थ, नवरं प्रतिजम्बूवृक्षषट्षट्पद्मवरवेदिका इत्यर्थः / एतासु च 108 जम्बूषु, अत्र सूत्रे जीवाभिगमे बृहत् क्षेत्रविचारादौ सूत्रकृ द्भिः वृत्तिकृ द्भिश्च जिनभवनप्रासादचिन्ता काऽपि न चक्रे , बहवोऽपि च बहुश्रुता श्राद्धप्रतिक्रमणसूत्रचूर्णिकारादयो मूलजम्बूवृक्षगतप्रथम-वनखण्डगत कूटाष्टकजिनभवनैः सह सप्तदशोत्तरं शतं जिनभवनानां मन्यमाना इहाप्येकैकं सिद्धायतनं पूर्वोक्तमानं मेनिरे, ततोऽत्र तत्त्वं केवलिनो विदुरिति। संप्रति शेषान् परिक्षेपान् वक्तुं सूत्रचतुष्टयमाह--"जंबूएणं" इत्यादि / जम्ब्वाः सुदर्शनाया उत्तरपूर्वस्यामीशानकोण उत्तरस्यामुत्तरपश्चिमायां कोणे, अत्रान्तरे, दिक्त्रयेऽपि इत्यर्थः / अनादृतनाम्नो जम्बूद्वीपाधिपतेर्देवस्य चतुर्णा सामानि-कसहस्राणां चत्वारि जम्यूसहस्राणि प्रज्ञप्तानि / "तीने णं' इत्यादि कण्ठ्यम् / गाथाबन्धेन पार्षद्यदेवजम्यूराह- "दक्खिण" इत्यादि। दक्षिणपौरस्त्य आग्नेयकोणे, दक्षिणस्याम्, अपरदक्षिणस्यां नैर्ऋतकोणे, चः समुच्चयार्थः / एतासु तिसृषु दिक्षु यथासंख्यं अष्टादश द्वादश जम्बूना सहस्राणि भवन्ति, एवोऽवधारणे, तेन नाधिकानि, न न्यूनानीत्यर्थः / चः प्राग्वत् / अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्बूश्व गाथाबन्धेनाह"अणियाहिबाण'' इत्यादि। अनीकाधिपकानां गजादि-कटकाधीशानां सप्तानां सप्तैव जम्ब्वः पश्चिमायां भवन्ति, तृतीयः परिक्षेपः पूर्णः / अथ तृतीयमाह- आत्मरक्षाणामनादृतदेव-सामानिकचतुर्गुणानां षोडशसहस्राणां जम्न्यः एकैकासु दिक्षु चतुस्सहस्रसहरत्रसद्भावात् षोडशसहस्राणि भवन्ति, यद्यपि चानयोः परिक्षेपयोः जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचायश्चिन्तिः तं, तथाऽपि पद्मदपद्मपरिक्षेपन्यायेन, पूर्वपूर्वपरिक्षेपजम्ब्वपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्वोऽर्द्धमाना ज्ञातव्याः। अत्राप्येकैकस्मिन् परिक्षेपे एकैकस्यां पक्तौ क्रियामपेक्ष्य क्षेत्रसांकीर्णेनावकाशदोषस्तथैवोद्भावनीयः तेन परिक्षेपजातयस्तथैव वाच्याः / संप्रत्यस्या एव वनत्रयपरिक्षेपान् वक्तुमाह-"जंबूएणं'' इत्यादि। सा चैबपरिवारेति गम्यत्। त्रिभिः शतिकर्योजनशतप्रमाणैर्वनखण्डैः सर्वतः संपरिक्षिप्तः / तद्यथा- अभ्यन्तरेण, मध्यमेन, बाह्येनेति / अथाऽत्र यदस्ति तदाह"जम्यूए '' इत्यादि। जम्ब्वाः सपरिवारायाः पूर्वेण पञ्चाशद्योजनानि प्रथमवनखण्डमवगाह्य, अत्रान्तरे भवनं प्रज्ञप्तं, क्रोश-मायामेन, उच्चत्वादिकथनायातिदेशमाह- स एव मूल-जम्बूपूर्वशाखागतभवनसंबन्धी वर्णको ज्ञेयः। शयनीयं चानादृतयोग्यम् / एवं शेषास्वपि दक्षिणादिदिक्षु दिशिपञ्चाशद्योजनान्यवगाह्याद्ये वने भवनानि वाच्यानि। अथात्र वने वापीस्वरूपमाह- "जबूए णं उत्तर'' इत्यादि। जम्ब्वा उत्तरपौरस्त्यदिग्भागे प्रथमं वनखण्ड पञ्चाशद्योजना-न्यवगाह्यात्रान्तरे चतस्रः पुष्करिण्यः प्रज्ञप्ताः। एताश्च न सूचीश्रेण्या व्यवस्थिताः, किंतु स्वाविदिग्गतप्रासादं परिक्षिप्य स्थिताः, तेन प्रादक्षिण्येन तन्नापान्येवम- पद्मा पूर्वस्यां, पद्मप्रभा दक्षिणस्यां, कुमुदा पश्चिमाया, कुमुदप्रभा उत्तरस्याम् / एवं दक्षिणपूर्वादिविदिग्गतवापीष्वपि वाच्य, ताश्च क्रोशमायामेन, अर्द्धक्रोशं विष्कम्भेन, पञ्चधनु:-शतास्तुद्वेधेनेति / अथात्र वापीमध्यगतप्रासादस्वरूपमाह- "तासि णं" इत्यादि। तासा वापीनां चतसृणां मध्ये प्रासादावतंसकाः प्रज्ञप्ताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्षया द्रष्टव्यं, तेन प्रतिवापीचतुष्कमेकैकप्रासादभावेन चत्वारः प्रासादाः। एवं निर्देशो