________________ णक्खत्तमंडल 1761 - अभिधानराजेन्द्रः भाग - 4 णक्खत्तमास अथ मुहूर्तगतिद्वारम्७जया णं परिक्खेवेणं भंते ! णक्खत्ते सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोयणसहस्साइं दोण्णि अ पण्णद्वे जोयणसए अट्ठारस भागसहस्से दोणि अ तेवढे भागसए गच्छइ मंडलं एक्कवीसाए भागसहस्सेहिं णवहि अ सट्टेहिं सएहिं छेत्ता। " जया णं " इत्यादि / यदा भदन्त ! परिक्षेपेण नक्षत्रं सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? नक्षत्रमित्यत्र जात्यपेक्षयैकवचनम् , अन्यथाऽभ्यन्तरमण्डलगतिचिन्तायां द्वादशानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात् / भगवानाह-गौतम ! पञ्च योजनसहस्राणि, द्वे च पञ्चषट्यधिकयोजनशते, अष्टादश च भागसहस्राणि, द्वे च त्रिषष्ट्यधिके भागशते गच्छति मण्डलमेकविंशत्या भागसहरौर्नवभिश्च षष्ट्यधिकैः शतैः छित्त्वा इति। अत्रोपपत्तिः-इह नक्षत्रमण्डलकाल एकोनषष्टिमुहूर्ताः, एकस्य च मुहूर्तस्य / सप्तषष्ट्यधिकत्रिंशद्भागानां त्रीणि शतानि सप्तोत्तराणीति 56 / 360 इदानीमतदनुसारेण मुहूर्तगतिश्चिन्त्यते-तत्र रात्रिंदिवे त्रिंशन्मुहूर्ताः, तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते, जाता एकोनषष्टिर्मुहूर्तानाम्। ततः सवर्णनार्थ त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, जातान्येकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि 21660 / अयं प्रतिमण्डलं परिधेः छेदकराशिः / तत्र सर्वाभ्यन्तरमण्डलपरिधिः 315086 / अयं च योजनाऽऽत्मको राशि गाऽऽत्मकेन राशिना भजनार्थः त्रिभिः सप्तषष्ट्यधिकैः शतैः 367 गुण्यते / जातम् 115637663 / अस्य राशेरेकविंशत्या सहरबैवभिः शतैः षट्यधिकैगि हृते लब्धानि 5265 / शेषम् 1826321660 भागाः / एतावती सर्वाभ्यन्तर-मण्डलेऽभिजिदादीनां द्वादशनक्षत्राणां मुहूर्तगतिः। अथ बाह्यनक्षत्रमण्डले मुहूर्तगति पृच्छतिजया णं भंते ! णक्खत्ते सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्तेणं केवइय खेत्तं गच्छइ ? गोयमा! पंच जोयणसहस्साई तिणि अ एगूणवीसए जोयणसए सोलस य भागसहस्से तिणि अपण्णढे भागसए गच्छइ मंडलं एगवीसाए भागसहस्सेहिं णवहि असहेहिं सएहिं छेत्ता। " जया णं " इत्यादि / यदा भदन्त ! नक्षत्रं सर्वबाह्य मण्डलमुपसंक्रम्य चार चरति, तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? अत्राप्येकवचनं प्राग्वत्। भगवानाह-गौतम! पञ्च योजनसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्ट्यधिकानि भागशतानि गच्छति मण्डलमेकविंशत्या भागसहस्रनवभिश्च षष्ट्यधिकैः शतैः छित्त्वा इति / अत्रोपपत्तिः-अत्र मण्डले परिधिः 318315 / अयं त्रिभिः सप्तषष्ट्यधिकैः शतैः 367 गुण्यते, जातम् - 116821605 / अस्य राशेरेकविंशत्या सहजैवभिः शतैः षष्ट्यधिकैः भागे लब्धानि 5316 योजनानि / शेषम् 1636521660 भागाः। / एतावती सर्वबाह्यनक्षत्रमण्डले मृगशीर्षप्रभृतीनामष्टानां नक्षत्राणां मुहूर्तगतिः / उक्ता तावत् सर्वाभ्यन्तरसर्वबाह्यमण्डलयर्तिनां नक्षत्राणां मुहूर्तगतिः। अथ नक्षत्रतारकाणामवस्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन चावशिष्टेषु षट्षु मण्डलेषु मुहूतंगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्डलपरिज्ञानं कर्तुं नक्षत्रमण्डलानां चन्द्रमण्डलेषु समवतार प्रश्नमाह - एते णं भंते ! अट्ठ णक्खत्तमंडला कतिहिं चंदमंडले हिं समोअरंति? गोयमा ! अट्ठहिं चंदमंडलेहिं समोअरंति / तं जहा-पढमे चंदमंडले, ततिए, छठे, सत्तमे, अट्ठमे, दसमे, इक्कारसमे, पण्णरसमे चंदमंडले। " एते णं " इत्यादि / एतानि भदन्त ! अष्टौ नक्षत्रमण्डलानि कतिषु चन्द्रमण्डलेषु समवतरन्ति अन्तर्भवन्ति ? चन्द्रनक्षत्राणां साधारणमण्डलानि कानीत्यर्थः ? भगवानाह-गौतम ! अष्टासु चन्द्रमण्डलेषु समवतरन्ति। तद्यथा-प्रथमे चन्द्रमण्डले प्रथमं नक्षत्रमण्डलं चारक्षेत्रम्, संचारिणामनवस्थितचारिणां च सर्वेषां ज्योतिष्काणां जम्बूद्वीपे अशीत्यधिकयोजनशतमवगावि मण्डलप्रवर्तनात्। तृतीये चन्द्रमण्डले द्वितीय नक्षत्रमण्डलम्। एते च द्वेजम्बूद्वीपे। षष्ठलवणे भाविनिचन्द्रमण्डले तृतीयम् / तत्रैव भाविनि सप्तमे चतुर्थम्। अष्टमे पञ्चमम्। दशमे षष्ठम्। एकादशे सप्तमम् / पञ्चदशे अष्टमम् / शेषाणि तु द्वितीयाऽऽदीनि सप्त चन्द्रमण्डलानि नक्षत्रैविरहितानि / तत्र प्रथमे चन्द्रमण्डले द्वादश नक्षत्राणि / तद्यथा-अभिजित् , श्रवणः, धनिष्ठा, शतभिषक, पूर्वाभाद्रपदा, उत्तरा-भाद्रपदा, रेवती, अश्विनी, भरणी, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, स्वातिश्च / द्वितीये पुनर्वसु, मघा च / तृतीये कृत्तिका। चतुर्थे रोहिणी, चित्रा च। पञ्चमे विशाखा / षष्ठे अनुराधा / सप्तमे ज्येष्ठा। अष्टमे मृगशिरः, आर्द्रा, पुष्यः, अश्लेषा, मूलो, हस्तश्च / पूर्वाषाढोत्तराषाढयो· द्वे तारे अभ्यन्तरतो, द्वे द्वे बाह्यत इति। एवं स्वस्वमण्डलावतारसत्कचन्द्रमण्डलपरिध्यनुसारेण प्रागुक्तरीत्या द्वितीयाऽऽदीनामपि नक्षत्रमण्डलाना मुहूर्तगतिः परिभावनीया। उक्ता प्रति- मण्डलं चन्द्राऽऽदीनां योजनाऽऽत्मिका मुहूर्तगतिः। जं०७ वक्षः / णक्खत्तमास-पुं०[ न(ना)क्षत्रमास] चन्द्रस्य नक्षत्रमण्डले परिवर्तमाने निष्पन्न इत्युपचारतो मासोऽपि नक्षत्रं, नक्षत्रेषु भवो नाक्षत्रः, स चासो मासश्च / चन्द्रश्वारं चरन यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्त गच्छति तत्कालप्रमाणे मासभेदे, व्य०१ उ०। नि० चू० / स्था०। तन्मानम्-नक्षत्रमासः-सप्तविंशतिरहोरात्रः, एकविंशतिश्च सप्तषष्टिभागा अहोरात्रस्य / नक्षत्रसंवत्सरे ह्यहोरात्रास्त्रीणि शतानि सप्तविंशत्यधिकानि, एकपञ्चाशच सप्तषष्टिभागा अहोरात्रस्य। ततस्त्रयाणां शतानां सप्तविंशत्यधिकानां द्वादशभिर्भागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्राः, शेषास्त्रयस्तिष्ठन्ति / तेऽपि सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जाते द्वे शते एकोत्तरे। 201 / येऽपि च उपरितना एकपञ्चाशत्सप्तषष्टिभागाः, तेऽपि