SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ णक्खत्तमंडल 1760 - अभिधानराजेन्द्रः भाग-४ णक्खत्तमंडल सयं ओगाहित्ता एत्थ णं दो णक्खत्तमंडला पण्णत्ता। लवणे णं समुद्दे केवइयं ओगाहेत्ता केवइया णक्खत्तमंडला पण्णत्ता ? गोयमा ! लवणे णं समुद्दे तिणि तीसे जोयणसए ओगाहित्ता एत्थर्ण छ णक्खत्तमंडला पण्णत्ता। एवामेव सपुव्वावरेणं जंबुदीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमंडला भवंतीति मक्खायं। जम्बूद्वीपे द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ? भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे अशीतमशीत्यधिक योजनशतमवगाह्यात्रान्तरे द्वे नक्षत्रमण्डले प्रज्ञाते। लवणसमुद्रे कियदवगाह कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ? भगवानाह-गौतम ! लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यात्रान्तरे षट् नक्षत्रमण्डलानि प्रज्ञप्तानि। अत्रोपसंहारवाक्येनोक्तसंख्या मीलयति-एवमेव सपूर्वापरण जम्बूद्वीपे द्वीपेलवणसमुद्रे चाष्टौ नक्षत्रमण्डलानि भवन्ति, इत्याख्यातम् / मकारोऽत्राऽऽगमिकः। अथ मण्डलचारक्षेत्रप्ररूपणा २सव्वभंतराओ णं भंते ! णक्खत्तमंडलाओ केवइआए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते? गोयमा! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते / / सर्वाभ्यन्तराद् भदन्त ! नक्षत्रमण्डलात् कियत्या अबाधया सर्वबाह्य नक्षत्रमण्डलं प्रज्ञप्तम् ? भगवानाह-गौतम ! पञ्चदशोत्तराणि योजनशतान्यबाधया सर्वबाह्य नक्षत्रमण्डल प्रज्ञप्तम्। इदं च सूत्र नक्षत्रजात्यपेक्षया बोद्धव्यम् , अन्यथा सर्वाभ्यन्तरमण्डलस्थायिनामभिजिदादिद्वादशनक्षत्राणामवस्थितमण्डलकत्वेन सर्वबाह्यमण्डलस्यैवाभावात्। तेनायमर्थः संपन्नःसर्वाभ्यन्तरनक्षत्रमण्डलजालीयात सर्वबाह्य नक्षत्रमण्डलजातीयमियत्या अबाधया प्रज्ञप्तमिति बोध्यम्।। अथाभ्यन्तराऽऽदिमण्डलस्थायिनामष्टाविंशतेनक्षत्राणां परस्परमन्तरनिरूपणा ३णक्खत्तमंडलस्स णं भंते ! णक्खत्तमंडलस्स य एस णं केवइयाए अबाहाए अंतरे पण्णत्ते ? गोयमा ! दो जोयणाईणक्खत्तमंडलस्स णक्खत्तमंडलस्सय अबाहाए अंतरे पण्णत्ते / / " णक्खत्त " इत्यादि / नक्षत्रमण्डलस्य नक्षत्रविमानस्य, नक्षप्रमण्डलस्य नक्षत्रविमानस्य च भदन्त ! क्रियत्या अबाधया अन्तरं प्रज्ञप्तम् ? भगवानाह-गौतम! द्वेयोजने नक्षत्रविमानस्य नक्षत्रविमानस्य च अबाधया अन्तरं प्रज्ञप्तम् / अयमर्थः-अष्टास्वपि मण्डलेषु यत्र यत्र मण्डले यावन्ति नक्षत्राणां विमानानि, तेषामन्तरबोधकमिदं सूत्रम्। यथा अभिजिन्नक्षत्रविमानस्य श्रवणविमानस्य च परस्परमन्तरं द्वे द्वोजने, न तु नक्षत्रसत्कसर्वाभ्यन्तराऽऽदिमण्डलानामन्तरसूचकम, अन्यथा नक्षत्रमण्डलानां वक्ष्यमाणचन्द्रमण्डलसमवतारसूत्रेण सह विरोधात्। अथ नक्षत्रविमानानामायामाऽऽदिप्ररूपणा ४णक्खत्तमंडले णं भंते ! केवइयं आयामविक्खंभेणं, केवइयं परिक्खेवेणं, केवइयं बाहल्लेणं पण्णते? गोयमा ! गाउयं आ याभविक्खंभेणं, तंतिगुणं सविसेसं परिक्खेवेणं, अद्धगाउयं बाहल्लेणं पण्णत्ते। " णक्खत्त " इत्यादि / नक्षत्रमण्डलं भदन्त ! कियदायामविष्कभाभ्यां, कियत् परिक्षेपेण, कियद् बाहल्येनोस्त्वने प्रज्ञप्तम् ? भगवानाह-गौतम ! गव्यूतमायामविष्कम्भाम्यां, तत्वैगुण्यात् विशेषात् परिक्षेपेण, अर्द्धगव्यूतं बाहल्येन प्रज्ञप्तमिति। संप्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा 5 - जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वभंतरेणक्खत्तमंडले पण्णत्ते ? गोयमा? चोआलीसं जोयणसहस्साइं अट्ठ य बीसे जोयणसए अबाहाए सव्वभंतरे णक्खत्तमंडले पण्णत्ते। जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम् ? भगवानाह-गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि, अष्ट च विंशत्यधिकानि योजनशतान्य-बाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्। अथ बाह्यमण्डलाऽबाधां पृच्छतिजंबद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिरए णक्खत्तमण्डले पण्णत्ते ? गोयमा ! पणयालीसं जोयणसहस्साइं तिणि अ तीसे जोयणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णते। जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्य नक्षत्रमण्डलं प्रज्ञप्तम् ? भगवानाह-गौतम ! पश्चचत्वारिशद्योजनसहस्राणि, त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्ववाह्य नक्षत्रमण्डलं प्रज्ञप्तम्। अथ तेषामेवाऽऽयामाऽऽदिनिरूपणम् ६सव्वमंतरेणं भंते! णक्खत्तमंडले केवइयं आयामविक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउतिजोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि अ जोयणसयसहस्साई पण्णरस सहस्साई एगूणणवतिं च जोयणाई किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते। 'सव्वभंतरेणं इत्यादि प्राग्वत्। अथ सर्वबाह्यमण्डलं पृच्छतिसव्वबाहिरए णं भंते ! णक्खत्तमंडले केवइयं आयामविक्खंभेणं, केवइयं आयामपरिक्खेवेणं पण्णत्ते ? गोयमा ! एगंजोयणसहस्सं छच्च सटे जोयणसए आयामविक्खंभेणं, तिण्णि अ जोयणसयसहस्साई अट्ठारस य सहस्साई तिण्णि अपण्णरमुत्तरे जोयणसए। " सव्वबाहिरए " इत्यादि प्राग्वत् / मध्यमेषु षट्सु मण्डलेषु तु चन्द्रमण्डलानुसारेणाऽऽयामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमण्डलानि चन्द्रमण्डले समवतरन्तीति भणिष्यमाणत्वात्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy