________________ णक्खत्त 1787 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त संच वावट्ठिभागे मुहुत्तस्स, वावट्ठिभागंच सत्तद्विधा छेत्ता वावट्ठिचुणियामागे उवातिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि / ता जेणं अञ्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि, से णं इमाई सोलस अद्वतीसं मुहूत्तसताई अउणापण्णं च वावट्ठिभागे मुहूतस्स, वावट्ठिभागं च सत्तद्विधा छेत्ता पण्णहिचुणियाभागे उवातिणावेत्ता पुणरवि से चंदे तेणं चेवणक्खत्तेणं जोयं जोएति अण्णंसि देसंसि / ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि, से णं इमाइं चउप्पण्णं मुहुत्तसहस्साइं, णव य मुहूत्तसताइं उवातिणावेत्ता पुणरवि से चंदे अण्णेणं तारिसएणं चेद णक्खत्तेणं जोयं जोएति तंसि देसंसि। ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि, से णं इमे एगं मुहुत्तसयसहस्सं अट्ठाणउतिं चेव मुहुत्तसताई उवातिणावेत्ता पुणरवि से चंदे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि तंसि देसंसि। "ता जेणं अज्ज णक्खत्तेणं " इत्यादि।' ता ' इति पूर्ववत् / येन नक्षत्रेण सह चन्द्रो अद्य विवक्षिते दिने योगं युनक्ति करोति यस्मिन् देशे, स चन्द्रः णमिति वाक्यालङ्कारे / इमानि वक्ष्यमाणसंख्याकानि / तान्येवाह-अष्टौ मुहूर्तशतान्येकोनविंशान्येकोनविंशत्यधिकानि. एकस्य च मुहूर्तस्य चतुर्विशतिद्वाषष्टिभागान् , एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा द्वाषष्टिचूर्णिकाभागानुपादाय गृहीत्वा, अतिक्रम्येत्यर्थः / पुनरपि स चन्द्रोऽन्येन द्वितीयेन सदृशनाम्ना नक्षत्रेण योग युनक्ति अन्यस्मिन् देशे। इयभत्र भावना-इह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीघ्राणि, तेभ्यो मन्दगतयः सूर्याः, तेभ्योऽपि मन्दगतयश्चन्द्रमसः / (एतचागे स्वयमेव प्रपञ्चयिष्यते) षट्पञ्चाशन्नक्षत्राणि प्रतिनियतापान्तरालदेशानि चक्रवालमण्डलतया व्यवस्थितानि सदैवैकरूपतया परिभ्रमन्ति / तत्र किल युगस्याऽऽदावभिजिता नक्षत्रेण सह योगमधिगच्छति चन्द्रमाः, स च योगमुपागतः सन् शनैः शनैः पश्चादवष्वष्कते ; तस्य नक्षत्रेभ्योऽतीव मन्दगतित्वात् / ततो नवाना मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशतिद्वाषष्टिभागानाम् , एकस्य च द्वाषष्टिभागस्य षट्षष्टिसप्तषष्टि - भागानामतिक्रमे पुरतः श्रवणेन सह योगमायाति / ततस्ततश्चन्द्रोऽपि शनः पश्चादवष्कष्कमानस्त्रिंशता मुहूर्तेः श्रवणेन सह योगं समाप्य पुरतो धनिष्ठया सह योगमुपागच्छति। एवं स्वं स्वं कालमपेक्ष्य सर्वैरपि नक्षत्रैः सह योगस्तावद्वक्तव्यो यावदुत्तराषाढानक्षत्रयोगपर्यन्तः / एतावता च कालेनाष्टौ मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा अभवन् / तथाहि-षट् नक्षत्राणि, पञ्चचत्वारिंशन् मुहूर्तानीति षट् पञ्च चत्वारिंशता गुण्यन्ते, जाते वे शते सप्तत्यधिके 2701 षट् च नक्षत्राणि पञ्चदश मुहूर्तानीति भूयः षट् पञ्चदशभिर्गुण्यन्ते, जाता नवतिः पञ्चदश त्रिंशन्मुहूर्तानीति पञ्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारि शतानि पञ्चाशदधिकानि 450 / अभिजितो नव मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इति भवति | सर्वेषामेकत्र मीलने यथोक्ता मुहूर्त्तसंख्या / एष एतावान् नक्षत्रमासः। ततस्तदनन्तरं यदभिजिन्नक्षत्रमतिक्रान्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नवमुहूर्ताऽऽदिकालं योगमुपागच्छति, ततः परमपरेण द्वितीयाष्टाविंशतिसंबन्धिना श्रवणेन सह योगमश्नुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्तराषाढा, तदनन्तरं भूयः प्रथमेनैवाभिजिता नक्षत्रेण सह योग याति। ततः प्रागुक्तक्रमेण श्रवणाऽऽदिभिः, एवं सकलकालमपि ततो विवक्षिते दिने यस्मिन देशे येन नक्षत्रेण सह योगमगमच्चन्द्रमाः स यथोक्तमुहूर्त्तसंख्याऽतिक्रमे भूयस्तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशेयोगमादत्ते, नतेनैवापि तस्मिन्नेव देशे इति। तथा (ता जेणमित्यादि) अद्य विवक्षिते दिने येन नक्षत्रेण सह, योगं युनक्ति यस्मिन् यस्मिन् देशे चन्द्रमाः, स इमानि वक्ष्यमाणसंख्याकानि / तान्येवाह-षोडश मुहूर्तशतानि अष्टात्रिंशदधिकानि, एकोनपञ्चाशतं द्वाषष्टिभागान् मुहूर्त्तस्य, एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्कान् पञ्चषष्टिचूर्णिकाभागानुपादायातिक्रम्य पुनरपि स चन्द्रस्तेनैव नक्षत्रेण सहयोगयुनक्ति, परमन्यस्मिन् देशे, न तु तस्मिन्नेव / कुतः ? इति चेत् / उच्यते-इह भूयस्तस्मिन्नेव देशे तेनैव नक्षत्रेण सह योगः, युगद्वयकालातिक्रमे तथा केवलवेदसा ज्योतिश्चक्रगतरुपलब्धेः / जम्बूद्वीपे च षट्पञ्चाशदेव नक्षत्राणि, ततो विवक्षितनक्षत्रयोगे सति तत आरभ्य षट्पञ्चाशन्नक्षत्रातिक्रमेण तेन नक्षत्रेण सह योगमादत्ते, षट्पञ्चाशन्नक्षत्रातिक्रमश्च प्रागुक्ताष्टाविंशतिनक्षत्रमुहूर्तसंख्यया। तत उक्तम्-" सोलस अडतीस मुहुत-सया " इत्यादि। तदेवं तादृशेन तेन वा नक्षत्रेण सह अन्यस्मिन् देशे यावता कालेन भूयोऽपि योग उपजायते, तावान कालविशेष उक्तः। संप्रति तस्मिन्नेव देशे तादृशेन तेन वा नक्षत्रेण सह भूयोऽपि योगो यावता कालेन भवति, तावन्तं कालविशेषमाह-(ता जेणं अज्ज णक्खत्तेण इत्यादि) अद्य विवक्षिते दिने येन नक्षत्रेण सह योगं चन्द्रो युनक्ति यस्मिन् देशे, स चन्द्रमा इमानि वक्ष्यमाणसंख्याकानि। तान्येवाह-चतुःपञ्चाशन्मुहूर्तसहस्राणि / नव च मुहूर्तशतान्युपादायातिक्रम्य पुनरपि स चन्द्रोऽन्येन तादृशेनैव नक्षत्रेण सह योगं युनक्ति तस्मिन्नेव देशे। इयमत्र भावनाविवक्षिते युगे विव-क्षितानामष्टाविंशतेनक्षत्राणां मध्ये येन नक्षत्रेण सह यस्मिन् देशे यदा चन्द्रमसो योगो जातो, भूयस्तस्मिन्नेव देशे तदेव तेनैव नक्षत्रेण सह योगो विवक्षितयुगादारभ्य तृतीये युगे, न तु द्वितीये। कुतः? इति चेत् / उच्यते-इह युगाऽऽदित आरभ्य प्रथमे नक्षत्रमासे यान्येकान्यष्टाविंशतिनक्षत्राणि समतिक्रामन्ति द्वितीयेन नक्षत्रमासेन, तेभ्योऽपराणि द्वितीयानि ततो भूयस्तृतीयेन नक्षत्रमासेन, तान्येव प्रथमान्यष्टाविंशतिनक्षत्राणि चतुर्थेन भूयस्तान्येव द्वितीयानि / एवं सकलकालं युगे च नक्षत्रमासाः सप्तषष्टिः / सा च सप्तषष्टिसंख्या विषमेति विवक्षितयुगपरिसमाप्तौ सत्यामन्यस्य युगस्य प्रारम्भे यानि विवक्षितयुगस्याऽऽदौ भुक्तानि नक्षत्राणि, तेभ्योऽपराण्येव द्वितीयानि भोगमायान्ति, न तुतान्येव, युगद्वयेचचतुस्त्रिंशन्नक्षत्रमासशतं भवति।साचचतुस्त्रिंशन्नक्षत्रमासशतसंख्या समेति द्वितीययुगपरिसमाप्तौ षट्पञ्चाशदपि नक्षत्राणि समाप्तिमुपयान्ति, ततो विवक्षितयुगादारभ्य तृतीये युगे तेनैवनक्षत्रेण तस्मिन्नेवदेशे