________________ णक्खत्त 1756- अभिधानराजेन्द्रः भाग - 4 णक्खत्त तस्याष्टाविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु शेषसु तृतीयां पौर्णमासी परिसमापयति। संप्रति द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति-"ता एतेसिणं " इत्यादिसुगमम्। भगवानाह-" ता उत्तराहिं' इत्यादि।'ता' इति पूर्ववत्। उत्तराभ्यामाषाढाभ्यां द्वादशी पौर्णमासी चन्द्रः परि-समापयति / तदानीं च तयोरुत्तरयो राषाढयोः षड्विंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य षडविंशतिषष्टिभागाः, एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काश्चत्तुष्पञ्चाशच्चूर्णिकाभागाः शेषाः / तथाहि-स एव धुवराशिः-६६ / 5 // 1 / द्वादशी किल पौर्णमासी चिन्त्यते इति द्वादशभिर्गुण्यते, जातानि सप्तशतानि द्विनवत्यधिकानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य षष्टिषिष्टिभागाः। एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागा: 762 / 60 / 12 / तत एतस्मात् " मूले सत्तेव चोयाला '' इत्यादिवचनात् सप्तभिश्चतुश्चत्वारिंशदधिकै मुहूर्तानां शतैः, एकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शुद्धानि, ततस्त्रिशता मुहूर्तः पूर्वा-षाढा, शेष तिष्ठन्त्यष्टादश मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्चत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः 18 / 35 / 13 / तत आगत-चन्द्रेण युक्तमुत्तराषाढानक्षत्रं द्वादशी पौर्णमासी षड्विंशतौ मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षड्विंशतौ द्वाषष्टिभागस्य चतुष्पञ्चाशत्सप्तषष्टिभागेषु शेषेषुपरिसमापयति। संप्रत्यस्यामेव द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-" तं समयं च णं " इत्यादि सुगमम् / भगवानाह-'" ता पुणव्वसुणा'' इत्यादि। ता इति पूर्ववत् / पुनर्वसुना युक्तः सूर्य परिसमापयति / तदानीं च द्वादशीपौर्णमासीपरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य षोडश मुहूर्ताः, अष्टी च द्वाषष्टिभागा मुहूर्तस्य, एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का विंशतिश्चूर्णिकाभागाः शेषाः। तथाहि-स एव ध्रुवराशिः 66 / 5 / १द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य षष्टिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ७६२।६०।१२।तत एतस्मात्पुष्यशोधनकं 16 / 43 / 33 पूर्वोक्त प्रकारेण शोध्यते, स्थितानि पश्चात्सप्तशतानि त्रिसप्तत्यधिकानि मुहूर्तानाम, एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्चत्वा-रिंशत् सप्तषष्टिभागाः। 773 / 16 / 46 / तत एतरमात्सप्तभिः शतैश्चतुश्चत्वारिंशदधिकैर्मुहूर्तानाम् , एकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषाऽऽदीन्याापर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टाविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिपञ्चाशद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः 28 / 3 / / तत आगतं पुनर्वसुनक्षत्रं सूर्येण सह योगमुपागतं षोडशसु मुहूर्तेषु शेषेषु, एकस्य च मुहूर्तस्याष्टसु द्वाषष्टिभागेषु, एकस्य चद्वाषष्टिभागस्य विंशती सप्तषष्टिभागेषु शेषेषु द्वादशी पौर्णमासी परिसमापयति।" ता एतेसिणं ' इत्यादि सुगमम् / भगवानाह-" ता उत्तराहिं " इत्यादि / उत्तराभ्यामाषाढाभ्यां युक्तश्चन्द्रश्वरमां द्वाषष्टितमां पौर्णमासी परिसमापयति / तदानी चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिवे- लायामुत्तरयोराषाढयोश्चरमसमयः। तथाहि-स एव धुवराशिः 6615 / ११चरमा द्वाषष्टितमा पौर्णमासी संप्रति चिन्त्य-माना वर्तते, इति द्वाषष्ट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छ-तानि द्विनवत्यधिकानि, एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि, एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः 4062 / 310 / 62 / तत एतस्मात-" अट्ठसयउ गुणवीसा, सोहणग उत्तराण साढाणं / चउवीस खलु भागा, छावट्ठी चुणियाओ य // 1 / / इत्येवंप्रमाणमे कं सकलनक्षत्रपर्यायशोधनकं पञ्चभिर्गुणयित्वा शोध्यते / तच पूर्वोक्तेन प्रकारेण शोध्यमानं परिपूर्ण शुद्धिमासादयतीति न किञ्चित्पश्चादवतिष्ठते। तत आगतम्-उत्तराषाढानक्षत्रं चन्द्रेण सह युक्तं चरमसमये चरमां द्वाषष्टितमा पौर्णमासी परिसमापयति / संप्रत्यस्यामेव द्वाषष्टितमायां पौर्णमास्यां सूर्यनक्षत्रयोगपृच्छति-"तं समयंचण" इत्यादि सुगमम् / भगवानाह-" ता पुस्सेणं " इत्यादि। पुष्येण युक्तः सूर्यश्चरमांद्वाषष्टितमा पौर्णमासी परिसमापयति / तदानीं च द्वाषष्टितमपौर्णमासीपरिसमाप्तिवेलायामेकोनविंशतिर्मुहूर्तास्त्रिचत्वारिंशच द्वाषष्टिभागा मुहूर्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा तस्य सत्कास्त्रय-स्त्रिशचूर्णिकाभागाः शेषाः। तथाहि-स एव ध्रुवराशिः 66 / 5 / 1 / द्वाषष्ट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि, एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि, एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः 462 / 310 / 62 // इह पुष्यस्यदशमुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्विंशति सप्तषष्टिभागेष्वतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमुपैति, तदनन्तरमन्यधुगं प्रवर्तते। पुष्यस्यापि च तावन्मात्रादतिक्रान्तात् परतो यावद् भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रमः, एतावत्प्रमाण एकः परिपूर्णो नक्षत्रपर्यायः / तस्य च प्रमाणमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य चतुर्विशतिषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः 816 / 24 / 66 / तत एतत् पञ्चभिर्गुणयित्वा प्रागुक्ताद् राशिनिलेपो जायते, तत आगतं-पुष्यस्य सूर्येण युक्तस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य अष्टादशषु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्विंशति सप्तषष्टिभागेषु अतिक्रान्तेषु एकोनविंशतौ च मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिचत्वारिंशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु चरमा द्वाषष्टितमा पौर्णमासी परिसमातिनगमदिति / तदेवं पौर्णमासीविषयचन्द्रनक्षत्रयोगः, सूर्यनक्षत्रयोगश्वोक्तः / सू० प्र०१० पाहु० 22 पाहु०। चं०प्र०। (अमावास्याविषयश्चन्द्रनक्षत्रयोगः, सूर्यनक्षत्रयोगश्च 'अमावसा' शब्दे प्रथमभागे 743 पृष्ठे निरूपितः) (26) संप्रति यन्नक्षत्रं यादृशनामकं तदेव वा तस्मिन्नेव देशे अन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योग ____ मुपागच्छति तावन्तं कालं निर्दिदिक्षुराहताजेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि, से णं इमाणि अट्ठ एगणवीसाणि मुहुत्तसत्ताई, चउवी