________________ णक्खत्त 1784 - अभिधानराजेन्द्रः भाग-४ णक्खत्त 'ता' इति / तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासी चन्द्रः / उपलक्षणमेतत-सूर्यो वा; केन नक्षत्रेण सह योगमुपागतः सन् युनक्तिपरिसमापयति ? भगवानाह-(ता धणिट्ठाहिं इत्यादि) ' ता ' इति / तत्र तेषां पञ्चानां संवत्सराणां मध्ये प्रथमा पौर्णमासी चन्द्रः परिसमापयति धनिष्ठाभिः, धनिष्ठानक्षत्रस्य पञ्चतारत्वात् तदपेक्षया बहुवचनम् अन्यथा त्वेक्वचनं द्रष्टव्यम्। तासां च धनिष्ठानां त्रयो मुहूर्ताः, एकस्य मुहूर्तस्य एकोनविंशतिषिष्टिभागाः, एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा पञ्चषष्टिश्चूर्णिकाभागाः शेषाः / तथाहि-पौर्णमासीविषयस्य चन्द्रनक्षत्रयोगस्य परिज्ञानार्थ करणं प्रागेवोक्तं, तत्र षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागाः 66 / 3 / इत्येवंरूपो धुवराशिर्धियते ; धृत्वा च प्रथमायां पौर्णमास्यां चन्द्रनक्षयागो ज्ञातुमिष्ट इत्येकेन गुण्यते, ' एकेन गुणितं तदेव भवति ' इति तावानेव जातः तस्मादभिजितो नव मुहूर्ताः / एकस्य मुहूर्त्तस्य चतुर्विंशत्यषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः। इत्येवंप्रमाणं शोधनक शोध्यते। तत्र षट्पष्टर्नव मुहूर्ताः शुद्धाः, स्थिताः पश्चात् सप्तपञ्चाशत् , तेभ्य एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः, ते च द्वाषष्टिरपि भागा द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टिषष्टिभागाः, तेभ्यश्चतुर्विशतिः शुद्धाः, स्थिताः पश्चात् त्रिचत्वारिंशत् , तेभ्य एक रूपमादाय सप्तषष्टिभागाः क्रियन्ते / ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागेकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टिः सप्तषष्टिभागाः। तेभ्यः षट्षष्टिः शुद्धाः, स्थितौ द्वौ पश्चात्सप्तषष्टिभागौ, ततरिवंशता मुहूर्तः श्रवणः शुद्धः, स्थिताः पश्चान्मुहूर्ताः षड्विशतिः / तत इदमागतम्-धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेष्वेकस्य च मुहूर्तस्य एकोनविंशतिसंख्येषु द्वाषष्टिभागेष्वकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तषष्टिभागेषु शेषेषु प्रथमपौर्णमासी परिसमाप्तिमुपयाति। संप्रति सूर्यनक्षत्रयोग पृच्छन्नाहतं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता पुव्वाहिं फग्गुणीहिं अट्ठावीसं मुहुत्ता, अद्वतीसंच वावट्ठिभागा मुहुत्तरस, वावट्ठिभागं च सत्तद्विधा छेत्ता दुवत्तीसं चुण्णियाभागा सेसा। ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएति ? ता उत्तराहिं पोट्ठवताहिं, उत्तराणं पोट्टवताणं सत्तावीसं मुहुत्ता, चोइस य वावट्ठिभागे मुहुत्तस्स, वावट्ठिभागं च सत्तद्विधा छेत्ता चउसद्विचुण्णियाभागा सेसा। (तं समयं च णमित्यादि) तं समयमित्यत्र" कालाध्वनोव्याप्ती " // 2 / 2 / 42 // इत्यधिकरणत्वेऽपि द्वितीया। ततोऽयमर्थः- तस्मिन् समये, यस्मिन समये धनिष्ठा नक्षत्रं चन्द्रेण युक्तं यथोक्तविशेष परिसमापयति, तस्मिन क्षणे इत्यर्थः / सूर्यः केन नक्षत्रेण युक्तः सन्तां प्रथमा पौर्णमासी परिसमापयति / भगवानाह-" ता पुव्वाहि " इत्यादि।' ता ' इति / तदा पूर्वाभ्यां फाल्गुनीभ्या, पूर्वाफाल्गुनीनक्षत्रस्य द्वितारत्वात्तपेक्षया द्विवचनम्। द्विवचने च प्राप्त प्राकृते बहुवचनम्। तयोश्च पूर्वाफाल्गुन्यो- स्तदानीमष्टाविंशतिर्मुहूर्ताः, अष्टात्रिंशच द्वाषष्टिभागा मुहूर्तस्य, एकं च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्या सत्काः द्वात्रिंशचूर्णिकाभागाः शेषाः / तथाहि-स एव षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवप्रमाणो ध्रुवराशिर्धियते 66 / 5 / 1 / धृत्वा च एकेन गुण्यते, 'एकेन च गुणितं तदेव भवति इति तावानेव जातः, ततस्तस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागाः 16 / 43 / 33 / इत्येवंप्रमाणं शोध्यते / अथैतावत्प्रमाणस्य पुष्यशोधनकस्य कथमुत्पत्तिरिति ? उच्यते-इह पूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य त्रयोविंशतिः सप्तषष्टिभागाः परिसमाप्ताः, चत्वारिंशदवतिष्ठते / ततस्ते चतुश्चत्वारिंशत्सप्तषष्टिभागा मुहूर्त्तकरणार्थ त्रिंशता गुण्यन्ते, जातानित्रयोदश शतानि विंशत्यधिकानि 1320 / तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा एकोनिविंशतिर्मुहूर्ताः / शेषास्तिष्ठन्ति सप्तचत्वारिंशत् 47 / ते द्वाषष्टिभागाऽऽनयनार्थ द्वाषष्ट्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्दशोत्तराणि 2614 / तेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रिचत्वारिंशद्वाषष्टिभागाः 13 छ। एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागाः / एतद् ध्रुवराशेः शोध्यते / तद्यथा-षट्षष्टिर्मुहूर्तेभ्य एकोनविंशतिर्मुहूर्ताः शुद्धाः, स्थिताः पश्चात्सप्तचत्वारिंशत् , तेभ्य एको मुहूर्तो गृह्यते, स्थिताः षट्चत्वारिंशत् गृहीतव्य च मुहूर्तस्य द्वाषष्टिभागान् कृत्वा द्वाषष्टिभागराशी पञ्चकरूपे प्रक्षिप्यन्ते, जाता द्वाषष्टिभागाः सप्तषष्टिः, तेभ्यस्त्रिचत्वारिंशत् शोध्यन्ते, स्थिताः पश्वाचतुर्विंशतिः, तेभ्य एक रूपमुपादीयते, जाता त्रयोविंशतिः, गृहीतस्य च रूपस्य सप्तषष्टिभागाः क्रियन्ते. कृत्वा च सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टिः सप्तषष्टिभागाः / तेभ्यस्वयस्त्रिंशत् शुद्धाः, स्थिताः पञ्चत्रिंशत्। ततः पञ्चदशभिर्मुहूत्रश्लेषा, त्रिंशता च मुहूर्तमघाः शुद्धाः, स्थितः पश्चादेको मुहूर्तः, एकस्य च मुहूर्तस्य त्रयोविंशति-दु० विष्टिभागाः। एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः 1 / 1 / / 25 तत आगतं पूर्वाफाल्गुनीनक्षत्रस्याष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्याष्टात्रिंशत् द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु सूर्यः प्रथमा पौर्णमासी परिसमापयति। एते च सूर्यमुहूर्ता एवंभूतैश्च सूर्यमुहूर्तस्त्रिशता त्रयोदश रात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति। तत एतदनुसारेण गतेकदिवसभागगणना, शेषस्थितदिवसगणना च पूर्वाफाल्गुनीनक्षत्रस्य स्वयं कर्तव्या। एवमुत्तरसूत्रेष्वपि सूर्यनक्षत्रयोगेपरिभावनीयम्।" ता एतेसिणं " इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह-(ता उत्तराहिं इत्यादि)'ता' इति पूर्ववत् / उत्तराभ्यां प्रोष्ठपदाभ्याम् , अत्रापि द्विवचनम् , उत्तराप्रोष्ठपदानक्षत्रस्य द्वितारकत्वात् , बहुवचनं च सूत्रे प्राकृतत्वात् / उत्तरयोश्च प्रोष्ठपदयोः सप्तविंशतिर्मुहूर्ताः, चतुर्दश च द्वाषष्टिभागा मुहूर्तस्य, एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काश्चतुःषष्टिश्चूर्णिकाभागाः शेषाः। तथाहिस एव ध्रुवराशिः 66 / 5 / 1 द्वितीयपौर्णमासीचिन्तायां द्वाभ्यां गुण्यते, मुहूर्ताना जातं द्वात्रिंशतं शतम् 132 / एकस्यच मुहूर्तस्य दश द्वाषष्टिभागाः 10 // एकस्य च द्वाषष्टिभागस्यद्वौ सप्तषष्टिभागौ 2, ततः पूर्वरीत्या अभिजितो