________________ णक्खत्त 1783 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त पौर्णमासीविषयमतिदेशमाह-(एवं खलु इत्यादि) एवमुक्तेन प्रका-रेण, खलु निश्चितम् , एतेनानन्तरोदितेनोपायेन यां यां पौर्णमासी यत्र यत्र देशे परिसमापयति, तस्यास्तस्याः पौर्णमास्यास्तां तामनन्तरामनन्तरां पौर्णमासीं तस्मात् तस्मात् पाश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिनिबन्धनात्स्थानाद मण्डलं चतुर्विशत्यधिकेन शतेन छिचा परतस्तद्गतान् चतुर्नवतिचतुर्नवतिभागानुपादाय तस्मिन् तस्मिन् देशे स्थितः सन् सूर्यस्ता ता पौर्णमासी परिसमापयति / स चैवं परिसमापयन् तावद् वेदितव्यो यावद् भूयोऽपि चरमां द्वाषष्टितमा पौर्णमासी तस्मिन् देशे परिसमापयति यस्मिन् देशे पाश्चात्ययुगसंबन्धिनी चरमा द्वाषष्टितमा पौर्णमासी परिसमापितवान्। एतचावसीयते गणितक्रमवशात्। तथाहिपाश्चात्ययुगचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलस्य चतुर्विशत्यधिकशतप्रविभक्तस्य सत्कानां चतुर्थवतिभागानामतिक्रमे तस्याः तस्याः पौर्णमास्याः परिसमाप्तिः, ततश्चचतुनवतिषष्ट्या गुण्यते, जातान्यष्टापञ्चाशच्छतानि अष्टाविंशत्यधिकानि 5828 / तेषां चतुर्विशत्यधिकेन शतेन भागो ह्रियते, लब्धाः सप्तचत्वारिंशत् सकलमण्डलपरावर्त्ताः। न च तैः प्रयोजनं, केवलं राशेर्निर्लेपीभवनादागतंयस्मिन् देशे स्थितः सन् पाश्चात्ययुगसंबन्धिचरमद्वाषष्टितमपौर्णमासीपरिसमापकः, तस्मिन्नेव देशे विवक्षितस्यापि युगस्य चरमां द्वाषष्टितमा पौर्णमासी परिसमापयतीति। संप्रति चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनं देशं पृच्छति-" ता एतेसि णं " इत्यादि रगमम् / भगवानाह-"ता जंबुद्दीवरसणं' इत्यादि।' ता ' इति पूर्ववत्। जम्बूद्वीपस्य द्वीपस्य प्राचीनापाचीनाऽऽयतया, अत्रापि प्राचीनग्रहणेनोतरपूर्या दिग् गृह्यतो अपाचीनग्रहणेन दक्षिणाऽपराः ततोऽयमर्थःउत्तरपूर्वदक्षिणापराऽऽयतया, एवमुदीच्यदक्षिणाऽऽयतया, उत्तरापरदक्षिणपूर्वाऽऽयतया जीवया दवरिकया, मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा विभज्य भूयश्चतुर्भिर्भक्त्वा (पुरच्छिमिल्लसि ति) पूर्वदिगवर्तिनि चतुर्भागमण्डले एकत्रिंशत्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमं च भागं विंशतिधा छित्त्वा तद्गतानष्टादशभागानुपादाय शेषस्त्रिभिर्भागैश्चतुर्थस्य च भागस्य द्वाभ्यां कलाभ्या, विंशतितमाभ्यामित्यर्थः / दाक्षिणात्यचतुर्भागमण्डलमसंप्राप्तः सन्नत्र प्रदेशे स सूर्यश्चरमां द्वाषष्टितमा पौर्णमासी परिसमापयति / तदेवं सूर्याचन्द्रमसोः पौर्णमासीपरिसमाप्तिदेश उक्तः। संप्रति तयोरेषामावास्यापरिसमाप्तिदेशं प्रतिपिपादयिषुः प्रथमतः चन्द्रविषयं प्रश्नसूत्रमाह-(ता एतेसि णमित्यादि) तत्र युगे एतेषामनन्तरोदिताना पक्षानां संवत्सराणां मध्ये प्रथमाममावास्यां चन्द्रः कस्मिन् देशे स्थितः परिसमापयति? भगवानाह-(ता जंसि णमित्यादि) तत्र यस्मिन् देशे स्थितः सन् चन्द्रश्चरमां द्वाषष्टिं ,द्वाषष्टितमाममावास्यां परिसमापयति, ततोऽमावास्यास्थानादमात्रास्थापरिसमाप्तिस्थानात, परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा तद्गतान् द्वात्रिंशतं भागान् उपादायात्र प्रदेशेस चन्द्रः प्रथमाममावास्यां परिसमापयति / (एवमित्यादि) एवमुक्तेन प्रकारेण येनैवाभिलाषेन चन्द्रस्य पौर्णमास्यो भणिताः, तेनैवाभिलापेनामावास्या अपि | भणितव्याः / तद्यथा-द्वितीया, तृतीया, द्वादशी च / ताश्चैवम्-" ता एतेसिणं पंचण्हं संवच्छराणां दोचं अमावासं कंसि देससि जोएइ ? ता जंसिणं देसंसि चंदे पढमं अमावासं जोएइ, ताओण अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छित्ता दुवत्तीसं भागे उवातिणावेत्ता एत्थ णं से चंदे तच अमावासं जोएइ / ता एतेसि णं पंचण्हं संवच्छराण दुवालसम अमावासंचदे कंसि देसंसि जोएइ ? ताजंसिणं देसंसि चंदे तचं अमावासं जोएइ, ताओणं अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दोन्नि अट्ठासीए भागसए उवातिणावेत्ता एत्थ णं चंदे दुवालसमं अमावासं जोएइ / ' संप्रति शेषासु अमावास्यास्वतिदेशमाह-' एवं खलु " इत्यादि। एतत् प्राग्वव्याख्येयम्। संप्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धन देशं पृच्छति-" ता एतेसि णं " इत्यादि सुगमम् / भगवानाह-(ता जंसि णमित्यादि) तत्र यस्मिन् देशेस्थितः सन् चन्द्रो द्वाषष्टितमा चरमा पौर्णमासी युनक्ति परिसमापयति, तस्मात्पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिस्थानात्मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा विभज्य पूर्व षोडशभागानवष्वष्क्य / चरमा हि द्वाषष्टितमा अमावास्या चरमद्वाषष्टितमपौर्णमास्याः पक्षण पश्चात्पक्षेण च विवक्षितप्रदेशात् षोडशभिश्चतुर्विंशत्यधिकशतभागैः परतः प्ररूप्यते, मासने द्वात्रिंशता भागैः परतो वर्तमानस्य लभ्यमानत्वात्। ततः षोडशभागान् पूर्वमवष्वक्येत्युक्तम्। अत्रास्मिन् प्रदेशे स्थितः सन चन्द्रश्वरमा द्वाषष्टितमाममावास्यां परिसमापयति / संप्रति सूर्यस्यामावास्यापरिसमाप्तिनिबन्धनं देशं पिपृच्छिषुराह-(ता एतेसि णमित्यादि) एतत्प्राग्यद् व्याख्येयम्। (एवमित्यादि) एवमुक्तेन प्रकारेण येनैवाभिलापेन सूर्यस्य पौर्ण-मास्य उक्ताः, तेनैवाभिलापेनामावास्या अपि वक्तव्याः। तद्यथाद्वितीया, तृतीया, द्वादशी च। ताश्चैवम्-" एतेसिणं पंचण्हं संवच्छाराणं दोच अमावासं सूरे कंसि देसंसिजोएइ ? ता जसिणं देसंसि सूरिए पढमं अमावास जोएइ, ताओ अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छेता चउणउइभागे उवाइणावेत्ता एत्थ णं से सूरे दोघं अमावासं जोएइ / ता एतेसिणं पंचण्ह संवच्छराणं तचं अमावासं सूरे कंसि देसंसि जोएइ ? ता जंसिणं देसंसि दोचं अमावासं जोएइ,ताओणं अमावासट्ठाणाओ मंडलं घउव्वीसेणं सएणं छेत्ता चउणउइभागे उवातिणावेत्ता तचं अमावास जोएइ। ता एएसिणं पंचण्ह संवच्छराणं दुवालसं अमावासं सूरे केसि देससि जोएइ ? ता जंसि णं देससि सूरे तचं अमावासं जोएइ, ताओ अमावासट्टा-णाओ मंडलं चउव्वीसेणं सएणं छेत्ता अट्ठछत्ताले भागसए उवाति-णावेत्ता एत्थ णं से सूरे दुवालसमं अमावासं जोएइ।" संप्रति शेषास्वमावास्यासु अतिदेशमाह-(एवं खल्वित्यादि) एतत् प्राग्वद् व्याख्येयम् / संप्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धनं देश पृच्छति-" ता एतेसि णं " इत्यादि सुगमम् / भगवानाह-(ता जंसि णमित्यादि) यस्मिन् देशे स्थितः सन् सूर्यश्वरमां द्वाषष्टितमाममावास्यां परिसमापयति, तस्मात् पौर्णमासीस्थानात् पौर्णमासीपरिसमाप्तिनिबन्धनाद् देशात् मंडल चतुर्विशत्यधिकेन शतेन छित्त्वा विभज्याक् सप्तचत्वारिंशतं भागानवष्यष्क्य अत्र प्रदेशे स्थितः सन् सूर्यश्चरमां द्वाषष्टितमाममावास्यां - युनक्ति परिसमापयति / अथ का पौर्णमासी केन नक्षत्रेण युक्तश्चन्द्रः सूर्यो वा परिसमापयति ? इति प्रष्टुक्राम आह-(ता एतेसि णमित्यादि)