________________ णक्खत्त 1776 - अभिधानराजेन्द्रः भाग-४ णक्खत्त णि सहस्सा पण्णरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमा- / विक्खंभो / ते णं बारस / तं जहा-दो उत्तरापोट्ठवता० जाव दो उत्तरासाढा। " ता कह ते " इत्यादि। 'ता' इति पूर्ववत् / कथं केन प्रकारेण, कियत्या विभागसंख्यया इत्यर्थः / भगवन् ! त्वया सीमाविष्कम्भ आख्यात इति वदेत् ? भगवानाह-" ता एतेसि णं " इत्यादि। इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वकालपरिमाणेन क्रमशो यावत् क्षेत्र बुद्ध्या व्याप्यमानं संभाव्यते, तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावत्प्रमाणमेव द्वितीयमर्द्धमण्डलम् , इत्येवंप्रमाणं बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलम् / तस्य मण्डलस्य" मंडलंसयसहस्सेण अट्ठाणउतीए सरहिं छेत्ता इन्चेस णखत्तखेत्तपरिभागे णक्खत्तविच-ए पाहुडे आहिए त्ति बेमि " इति वक्ष्यमाणवचनात् अष्टानवतिशताधिकशतसहस्रविभागैर्विभज्यते / किमेवं संख्यानां भागानां कल्पते निबन्धमिति चेत् ? उच्यते-इह त्रिविधानि नक्षत्राणि / तद्यथासमक्षेत्राणि, अर्द्धक्षेत्राणि, व्यर्धक्षेत्राणि च / तत्र यावत्प्रमाण क्षेत्रमहोरात्रेण गम्यते नक्षत्रैः, तावत्क्षेत्रप्रमाणं चन्द्रेण सह योगमुपयान्ति गच्छन्ति, तानि समक्षेत्राणि / तानि पञ्चदश। तद्यथा-श्रवणो, धनिष्ठा, पूर्वाभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरः, पुष्यः, मघा, पूर्वाफाल्गुनी, हस्त, चित्रा, अनुराधा, मूलम् , पूर्वाषाढा इति / तथा यानि अहोरात्रप्रमितस्य क्षेत्रस्यार्द्ध च चन्द्रेण सह यो-गमश्नुवते, तान्यर्द्धक्षेत्राणि, तानि च षट् / तद्यथा-शतभिषक्, भरणी, आर्द्रा, आश्लेषा, स्वातिज्येष्ठे ति / तथा द्वितीयमर्द्ध यस्य तद व्यर्द्ध, सार्द्धमित्यर्थः / व्यर्द्धमर्दाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रेण योगयोग्यं येषां तानि द्वयर्द्धक्षेत्राणि / तान्यपि षट् / तद्यथा-उत्तराभाद्रपदा, उत्तराफाल्गुनी, उत्तराषाढा, रोहिणी, पुनर्वसु, विशाखा चेति / तत्र सीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीक्रियते, इति समक्षेत्राणां क्षेत्र प्रत्येकं सप्तषष्टिभागाः परिकल्प्यन्ते / अर्द्धक्षेत्राणां त्रयस्त्रिशदर्द्ध च व्यर्द्धक्षेत्राणां शतमेकमर्द्ध च अभिजिन्नक्षत्रस्यैकविंशतिसप्तषष्टिभागाः। समक्षेत्राणि च नक्षत्राणि पञ्चदशेति सप्तषष्टिः पञ्चदशभिर्गुण्यते, जात सहसं पञ्चोत्तरम् 1005 / अर्द्धक्षेत्राणिणमिति। ततः सार्धा त्रयस्त्रिंशत्षभिगुण्यते, जाते द्वे शते एकोत्तरे 201 / व्यर्द्धक्षेत्राण्यपि षट् / ततः शतमेकमर्द्ध चषभिस्ताड्यते, जातानिषट्शतानि व्युत्तराणि 603 / अभिजिन्नक्षत्रस्य एकविंशतिः, सर्वसंख्यया जातान्यष्टादश शतानि त्रिंशदधिकानि 1830 / एतावद्भागपरिमाणमेकमर्द्धमण्डलम् , एतावद्भागमेव द्वितीयमिति त्रिंशदधिकान्यष्टादशशतानि द्वाभ्यां गुण्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि 3660 / एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्ट्यधिकषट्त्रिंशच्छतसंख्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहसमष्टानवतिशतानि। १०६८००।तत इत्थं मण्डलस्य भागान् परिकल्प्य भगवान् प्रतिवचनं ददाति-"ता ' इति / तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये, अस्तीति निपातत्वादार्षत्वाद्वा स्तः, ते नक्षत्रे, ययोः प्रत्येकं षट्शतानि त्रिंशानि त्रिंशदधिकानि, सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः सीमापरिमाणम् / तथाऽस्तीति सन्ति तानि नक्षत्राणि, येषां प्रत्येक पश्चोत्तरं सहसं सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः / सन्ति तानि नक्षत्राणि, येषां प्रत्येक द्वे सहस्र दशोत्तरे सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः / सन्ति तानि नक्षत्राणि, येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि, सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः / एवं भगवता सामान्येनीक्ते भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति-" ता एतेसि णं " इत्यादि। तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये कतराणि तानि नक्षत्राणि, येषां षट्शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः? (तं चेव उच्चारेयव्वं ति) तदेवानन्तरोक्तमुक्तप्रकारेणोचारयितव्यम् / तद्यथा-" कयरे खलु णक्खत्ता, जेसिं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसइभागाणं सीमाविक्खंभो? कयरेणक्खत्ता, जेसिंदो सहस्सा दसुत्तरा सत्तट्ठिभागतीसइभागाणं सीमाविक्खंभो" इति। चरमं तु सूत्र साक्षादाह-" कयरे णक्खत्ता " इत्यादि। एतानि त्रीणि सूत्राणि सुगमानि? भगवानाह-" ता एतेसिणं " इत्यादि। तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि, येषां षट्शतानि त्रिंशानि सप्तषष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः / ते द्वे अभिजिन्नक्षत्रे। कथमेतदवसीयते? इति चेत्। उच्यते-इह एकैकस्याभिजितो नक्षत्रस्य सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकै कस्मिंश्च भागे त्रिंशद्भागपरिकल्पनादेकविंशतिस्त्रिशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि 630 / तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि, येषां प्रत्येकं पशात्तरं सहस्र सप्तषष्टित्रिशद्भागानां सीमाविष्कम्भः / तानि द्वादश / तद्यथा-द्वे शतभिषजी (०जाव दो जेट्ठाओ ति) यावच्छब्दकरणादेवं द्रष्टव्यम्-' दो भरणीओ, दो अदाओ, दो अस्सेसाओ, दो साईओ, दो जेट्टाओ' इति। तथाहि-एतेषां द्वादशानामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः सार्धास्त्रयस्त्रिशद्भागाश्चन्द्रयोगयोग्याः, ततस्त्रयस्त्रिंशत् त्रिंशता गुण्यते, जातानि नवशतानि नवात्यधिकानि 660 / अर्द्धस्यापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हृते लब्धा पञ्चदश १५,सर्वसंख्यया जातं पश्चोत्तरं सहस्रम् 1005 तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि, येषां द्वे सहस्रे दशोत्तरे सप्तषष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः / तानि त्रिंशत् / तद्यथा-द्वौ श्रवणौ (जावदो पुव्वासाढा इति) यावच्छब्दादेवं पाठो द्रष्टव्यः-" दो धणिट्ठा, दो पुव्वाभद्दवया, दो रेवई, दो अस्सिणी, दो कत्तिया, दो मिगसिरा, दो पुस्सा, दो मघा, दो पुव्वाफग्गुणीओ, दो हत्था, दो चित्ता, दो अणुराहा, दो मूला, दो पुव्वासाढा " इति। तथाहिएतानि नक्षत्राणि समक्षेत्राणि / तत एतेषां सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः परिपूर्णाः सप्तषष्टिभागाः प्रत्येक चन्द्रयोगयोग्यः / तेन सप्तषष्टिविंशता गुण्यते, जाते द्वे सहस्रे दशोत्तरे इति 2010 / तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि, येषां प्रत्येकं त्रीणि सहस्राणि पश्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः / तानि द्वादश / तद्यथा-वे उत्तरे प्रोष्ठपदे (०जाव दो उत्तरासाढा इति) यावच्छब्दकरणादेवं द्रष्टव्यम्-" दो रोहिणी, दो पुणव्वसू, दो उत्तराफग्गुणी, दो विसाहा, दो उत्तरासाढा'' इति / एतानि हि नक्षत्राणि व्यर्द्धक्षेत्राणि / ततः सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काश्चन्द्रयोगयोग्या भागाः, शतमेकमर्द्ध च प्रत्येकमवगन्तव्याः / तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि