________________ णक्खत्त 1774 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त - संप्रति हानिमाह"उत्तरअयणे हाणी, चउहिं पायाहिंजाव दो पाया। एवं तु पोरिसीए, वुट्टिखया हुति नायव्वा " / / 7 // " उत्तर " इत्यादि। युगस्य प्रथमे संवत्सरे माघमासे बहुलपक्षे सप्तम्या / आरभ्य चतुर्व्यः पादेभ्यः सकाशात्प्रतितिथ्येकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया, यावदुत्तरायणपर्यन्तेद्वी पादौ पौरुषीति। एष प्रथमसंवत्सरगतो विधिः / द्वितीये संवत्सरे श्रावणमासि बहुलपक्षे त्रयोदशीमादी कृत्वा वृद्धिः / माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः / तृतीये संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धेरादिः। माघमासे बहुलपक्षे प्रतिपत् | क्षयस्याऽऽदिः / चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धेरादिः।। माघमासे बहुलपक्षे त्रयोदशी क्षयस्याऽऽदिः पञ्चमे संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धरादिः। माघमासे बहुलपक्षे प्रतिपत क्षयस्याऽऽदिः / चतुर्थे संवत्सरे श्रावणे चतुर्थी वृद्धेरादिः / माघमासे शुक्लपक्षे दशमी क्षयस्याऽऽदिः / एतच करणगाथाऽनुपात्तमपि पूर्वाऽऽचार्यप्रदर्शितव्याख्यानादवसितम्। संप्रत्युपसंहारमाह-' एवं तु "इत्यादि। एवमुक्तेन प्रकारेण पौरुष्यां पौरुषीविषये वृद्धिक्षपौ यथाक्रमं दक्षिणायनेषूत्तरायणेषु वेदितव्यौ / तदेवमक्षरार्थमधिकृत्य व्याख्याता करणगाथा / / 7 / / संप्रत्यस्य करणस्य भावना क्रियतेकोऽपि पृच्छतियुग आदित आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति ? तत्र चतुरशीतिर्धियते, तस्याश्चाधस्तात्पञ्चम्यां तिथौ पृष्टमिति / पञ्च चतुरशीतिश्च पञ्चदशभिर्गुण्यते, जातानि द्वादश शतानि षष्ट्यधिकानि 1260 / एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते,जातानिद्वादश शतानि पशषष्ट्यधिकानि 1265 / तेषां षडशीन्यधिकेन शतेन भागो ह्रियते, लब्धाः षट्, आगतं षट् अयनान्यतिक्रान्तानि, सप्तममयनं वर्तते। लदगतं चशेषमेकोनप-चाशदधिकशतं तिष्ठति 146 / ततश्चतुर्भिर्गुण्यते, जातनि पञ्चशतानि षण्णवत्यधिकानि 566 / तेषामेकत्रिंशता भागहरणे लब्धा एकोनविंशतिः / शेषास्तिष्ठन्ति सप्त / तत्र द्वादशाङ्गुलानि पाद इत्येकोनविंशतेदशभिः पदं लब्धम्। शेषाणि तिष्ठन्ति सप्त अङ्गुलानि, षष्ठ चायनमुत्तरायण, तद्गतं सप्तमं तु दक्षिणायनं वर्तते / ततः पदमेकं, सप्ताङ्गुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्ताङलानि। ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते, तान् यवान कुर्मः / तत्राष्टौ यवा अडले इतिते सप्त अष्टभिर्गुण्यन्ते, जाताः षट्पञ्चाशत 56 / तस्या एकत्रिंशता भागे हृते लब्ध एको यवः। शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः। आगतं पञ्चाशीतितमे पर्वणि पञ्चम्यां त्रीणि पदानि, सप्ताङ्गुलानि, एको यवः, एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः। इत्येतावती पौरुषीति तथाऽपरः कोऽपि पृच्छतिसप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति ? तत्र षण्णबतिर्धियते, तस्याश्चाधस्तात् पञ्च षण्णवतिश्च पञ्चदशभिर्गुण्यते, जातानि चतुर्दशशतानि चत्वारिंशदधिकानि 1440 / तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते / जातानि चतुर्दशशतानि पञ्चचत्वारिंशदधिकानि 1445 / तेषां षडशीत्यधिकेन शतेन भागो हियते, लब्धानि सप्त अयनानि। शेष तिष्ठति त्रिचत्वारिंशदधिक शतम् 143 / तचतुर्भिर्गुण्यते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि 572 / तेषामेकत्रिंशता भागो ह्रियते, लब्धान्यष्टादश अङ्गुलानि 18 / तेषां मध्ये द्वादशभिरनुलैः पदमिति लब्धमेकं षडडलानि, उपरि चाशा उदरन्ति चतुर्दश, ते यवाऽऽनयनार्थमष्टभिर्गुण्यन्ते, जातं द्वादशोत्तरं शतम् 112 // तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः, शेषास्तिष्ठन्ति यवस्यैकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रान्तानि / अष्टमं वर्तते, अष्टमं चायनमुत्तरायणम् , उत्तरायणे च पदचतुष्टयरूपात् ध्रवराशेहानिर्वक्तव्या, तत एक पद सप्ताङ्गलानि, त्रयो यवाः, एकस्य च यवस्यैकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात् पात्यते, शेष तिष्ठतिद्वेपदे चत्वारि चाडलानि, चत्वारो यवाः, एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः। एतावती युगे आदित आरभ्य सप्तनवतितमे पर्वणि पञ्चम्यां तियौ पौरुषीति / एवं सर्वत्र भावनीयम्। संप्रति पौरुषीपरिमाणतोऽयनगतपरिमाणज्ञापनार्थमियं करण-गाथा"वुड्डी वा हाणी वा, जावइया पोरिसीऍ दिवाओ। तत्तो दिवसगएणं, जं लद्धं तं खु अयणगयं / / 8 / / " "वुड्डी वा " इत्यादि। पौरुष्यां यावतीवृद्धिानिर्वा दृष्टा, ततः सकाशाद् दिवसगतेन प्रवर्तमानेन वा त्रैराशिककर्मानुसारतो यल्लब्ध, तदयनगतमयनस्य तावत्प्रमाणं गतं वेदितव्यम्। एष करणगाथाऽक्षरार्थः / / 8|| भावना त्वियम्-तत्र दक्षिणायने पदद्वयस्योपरि चत्वारयकुलानि वृद्धी दृष्टानि / ततः कोऽपि पृच्छतिकियद् गतं दक्षिणायनस्य ? अत्र त्रैराशिककर्मावतारः; यदि चतुर्भिरडलस्यैकत्रिंशद्भागैरेका तिथिलभ्यते, ततश्चतुर्भिरङ्गुलैः कति तिथीर्लभामहे ? राशित्रयस्थापना-४। 1 / 4 / अत्रान्त्यो राशिरगुलरूप एकत्रिंशद्भागकरणार्थमकत्रिंशता गुण्यते, जातं चतुर्विशत्यधिक शतम् 124 / तेन मध्यो राशिगुण्यते, जातं तदेव चतुर्विशत्यधिकंशतम् 124. 'एकेन गुणितं तदेव भवति' इति वचनात् / तस्य चतुष्करूपेणाऽऽदिराशिना भागो हियते, लब्धा एकत्रिंशत्तिथयः / आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरङ्गुला पौरुष्यां वृद्धिरिति / तथा उत्तरायणे पदचतुष्टयादडलाष्टकं हीन पौरुष्यामुपलभ्य कोऽपि पृच्छतिकियद् गतमुत्तरायणस्य ? अत्रापि त्रैराशिकम् / यदि चतुर्भिरङ्गुलस्यैकत्रिंशद्भागैरेका तिथिर्लभ्यते, ततोऽष्टभिरङ्कुलैहीनेः कति तिथयो लभ्यन्ते ? राशित्रयस्थापना-४।१ / 8 / अत्रान्त्यो राशिरेकत्रिंशद्भागकरणार्थभकत्रिंशता गुण्यते, जाते द्वे शतेऽष्टाचत्वारिंशदधिके 248 / ताभ्यां मध्यो राशिरेकरूपो गुण्यते, जाते ते एव द्वे शते अष्टाचत्वारिशदधिके 246 / तयोराद्येन राशिना चतुष्करूपेण भागहरणम् , लब्धा द्वाषष्टिः 62 / आगतमुत्तरायणे द्वाषष्टितमायां तिथावष्टावगुलानि पौरुष्या हीनानीति। " तसि च ण मासंसि वट्टाए" इत्यदि। तस्मिन्नाषाढे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया, समचतुरस्रसंस्थानसं स्थितस्य च समचतुरस्त्र संस्थानसं स्थितया, न्यग्रोधपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया / उपलक्षणमेतत्-शेषसंस्थानसस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थितया। आषाढ़े हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति / निश्चयतः पुनराषाढमासस्य चरममण्डले, तत्रापि सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये / ततो यत्प्रकाश्य वस्तु यत्संस्थानं भवति, तस्य छायाऽपि तथासंस्थानोपजायते। तत उ