SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1773 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त मित्यादि) तस्मिश्च श्रावणे मासे चतुरड्गुलपौरुष्या चतुरङ्गुलाधिकपौरुष्या छायया सूर्योऽनु प्रतिदिवसं परावर्त्तते। किमुक्तं भवति?श्रावणे मासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसंक्रान्त्या तथा कथश्चनापि परावर्तते, यथा तस्य श्रावणमासस्य पर्यन्ते चतुरड्गुलाधिका द्विपदापौरुषी भवति। तदेवाऽऽह-(तस्स णमित्यादि) तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चागुलानि पौरुषी भवति। (ता वासाणमित्यादि) 'ता' इति पूर्ववत्। वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीय भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति? अस्य वाक्यस्य भावार्थः प्राग्वद्भावनीयः। भगवानाह-('ता' इत्यादि) 'ता' इति पूर्ववत् / चत्वारि नक्षत्राणि नयन्ति / तद्यथा-धनिष्ठा, शतभिषक्, पूर्वाप्रोष्ठपदा, उत्तराप्रोष्ठपदाच। तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथ-मान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति। तदनन्तरं शतभिषा नक्षत्रं सप्ताहोरात्रान् , ततः परमष्टावहोरात्रान् पूर्वाप्रोष्टापदा। तदनन्तरमेकमहोरात्रमुत्तराप्रोष्ठपदा। एवमेनं भाद्रपद मासं चत्वारि नक्षत्राणि नयन्ति। (तसि च णमित्यादि) तस्मिश्व ' णं ' इति वाक्यालङ्कारे / मासे भाद्रपदे अष्टाङ्गुलपौरुष्या अष्टाडुलाधिकपौरुष्या छायया सूर्यो अनुप्रतिदिवस परावर्त्तते। अत्राप्यय भावार्थ:-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रान्त्या तया कथमपि परावर्तते, यथा तस्य भाद्रपदस्य मासस्यान्ते अष्टाङ्गुलिका पौरुषी भवति / एतदेवाऽऽह-(तस्स णमित्यादि) सुगमम्। एवं शेषमासगतान्यपि सूत्राणि भावनीयानि, नवरं (लेहट्ठाणि तिपदाइं ति) रेखा पादपर्यन्तवर्तिनी सीमा, तत्स्थानि त्रीणि पदानि पौरुषी भवति। किमुक्तं भवति ?-परिपूर्णानि त्रीणि पदानि पौरुषी भवति / एषा चतुरङ्गुला प्रतिमासं वृद्धिस्तावदवसेया यावत्पौषमासः, तदनन्तरं प्रतिमासं चतुरडला हानिर्वक्तव्या / सा च तावद् यावदाषाढो मासः / तेनाऽऽषाढपर्यन्ते द्विपदा पौरुषी भवति / इदं च पौरुषीपरिमाणं व्यवहारत उक्त, निश्चयतः सार्द्धरिंशता अहोरात्रैश्चतुरङ्खला वृद्धिर्हानिर्वा वेदितव्या। तथा च निश्चयतः पौरुषीपरिमाणप्रतिपादनार्थमिमाः पूर्वाऽऽचार्यप्रदर्शिताः सव्याख्याः करणगाथाः"पव्वे पन्नरसगुणे, तिहिसहिए पोरिसीऍ आणयणे। छलसीइसयविभत्ते, जं लद्धं तं वियाणाहि" // 1 // व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषीपरिमाणं | ज्ञातुमिष्यते, ततः पूर्वयुगाऽऽदित आरभ्य यानि पर्वाण्यतिक्रान्तानि, तानि घ्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथेः प्रागतिक्रान्तास्तिथयः, ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते / इह एकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादिताना तिथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं, भागे च हृते यल्लब्ध तद्विजानीहि, सम्यगवधारयेत्यर्थः // 1 // "जइ होइ विसम लद्ध, दक्खिणमयणं हविज नायव्वं / अह हवइ सम लद्धं, नायव्वं उत्तर अयणं " // 2 // तत्र यदिलब्धं विषम भवति, यथा-एकरित्रकः, पञ्चकः, सप्तको, नवको वा; तदा तत्पर्यन्तवर्ति दक्षिणमपनं ज्ञातव्यम् / अथ भवति लब्धं समम्। तद्यथा-द्विकश्चतुष्कः, षट्कोऽष्टको, दशको वा। तदा तत्पर्यन्तवर्त्ति / उत्तरायणमवसेयम। तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः // 2 // सम्प्रति षडशीत्यधिकेन शतेन भागे हृते यच्छेषमवतिष्ठते, यदि वा भागासंभवेन यच्छेषं तिष्ठति, तद्गतविधिमाह"अयणगए तिहिरासी, चउगुणे पव्वपायभइयव्वं / जं लद्धमगुलाणि य, खयवुड्डी पोरिसीए उ''॥३॥ 'अयणगए' इत्यादि / यः पूर्व भागे हते, भागासंभवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्तते, स चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादनयुगमध्ये यानि सर्वसंख्यया पर्वाणि चतुर्विशत्यधिकशतसंख्यानि, तेषां पादेन चतुर्थनांशेन, एकत्रिंशता इत्यर्थः / तथा भागे हृते यल्लब्धं, तान्यकुलानि, चकारादगुलाशाश्च पौरुष्याः क्षयवृद्ध्योतिव्यानि / दक्षिणायने पदधुवराशेरुपरि वृद्धौ ज्ञातव्यानि; उत्तरायणे पदध्रुवराशेः क्षये ज्ञातव्यानीत्यर्थः / / अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुपपत्तिः? उच्यते-यदिषडशीत्यधिकेन तिथिशतेन चतुर्विंशतिरङ्गुलानि क्षये वृद्धौ वा प्राप्यन्ते, तत एकस्यां तिथौ का वृद्धिः, क्षयो वा ? राशित्रयस्थापना-१८६।२४।१।तत्रान्त्येन राशिना एकलक्षणेन मध्यमो राशिश्चतुर्विशतिरूपोगुण्यते, जातः स तावानेव, एकेन गुणित तदेव भवति इति वचनात्। तत आद्येन राशिना षडशीत्यधिकशतरूपेण भागो हियते तत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते, ततः छेद्यच्छेदकराश्योः षट्केनापवर्तना, जात उपरितनो राशिश्चतुष्करूपोऽधस्तनः एकत्रिंशत , लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ चेति चतुष्को गुणकार उक्त एकत्रिंशद्भागहार इति॥३॥ इह यल्लब्ध तान्यमुलानि क्षये वृद्धौ वा ज्ञातव्यानीत्युक्तं तत्र कस्मिन्नयने कियत्प्रमाणधुवराशेरुपरि वृद्धो, कस्मिन् वा अयने किं प्रमाणधुवराशेः क्षये ? इत्येतन्निरूपणार्थमाह-- " दक्खिणे वुड्डी दुपया-उ अंगुलाणं तु होइ नायव्वा / उत्तरअयणे हाणी, कायव्वा चउहिँ पायाहिं " / / 4 // " दक्खिणे वुड्डी " इत्यादि / दक्षिणायने द्विपदात् पदद्वयस्योपरि अद्भुलाना वृद्धिातव्या, उत्तरायणे चतुर्व्यः पादेभ्यः सकाशादड्डुलाना हानिः॥ 4 // तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिः, तन्निरूपयति" सावणबहुलपडिवए, दुपया पुण पोरिसी धुवा होइ। चत्तारि अंगुलाई, मासेणं वड्डए तत्तो॥ 5 // इकत्तीसइ भागा, तिहिए पुण अंगुलस्स चत्तारि। दक्खिणअयणे वुड्डी, जाव उ चत्तारि उपयाई" // 6 // "सावण " इत्यादिगाथाद्वयम्। युगस्य प्रथमे संवत्सरे श्रावणे मासि बहुलपक्षे प्रतिपदिपौरुषी द्विपदा पदद्वयप्रमाणा ध्रुवा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथिक्रमेण तावद्वर्धत यावन्मासेन सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षयकत्रिंशत्तिथिमिरित्यर्थः / चत्वारि अङ्गुलानिवर्धन्ते। 5 / कथमेतदवसीयते, यथा मासेन सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणे नै कत्रिंशतिथ्यात्मकेनेति ? अत आह("इकत्तीस '' इत्यादि) यत एकस्या तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच प्रागेव भावितम्। परिपूर्णे तु दक्षिणायने वृद्धिः। परिपूर्णानि चत्वारि पदानि / ततो मासेन सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेनैकत्रिंशत्तिथ्यात्मकेनेत्युक्तम् / तदेवमुक्ता वृद्धिः / / 6 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy