________________ णक्खत्त 1766 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त कत्तिताणं समप्पेति० जाव पातो चंदं रोहिणीणं समप्पेति, रोहिणी जहा उत्तरभद्दवया, मिगसिरं जहा धणिट्ठा / एवं जहा सतभिसता, तहा णत्तंभागा णेयव्वा / एवं जहा पुव्वाभद्दवता, तहा पुव्वंभागा छप्पि णेयव्वा / जहा धणिट्ठा तहा पच्छंभागा अट्ठणेयव्या. जाव एवं खलु उत्तरासाढा दो दिवसे एगं च रातिं चंदेण सद्धिं जोगं जोएति, जोगं जोइत्ता जोगं अणुपरियट्टति, जोगं अणुपरियट्टित्ता सायं चंदं अभिईसवणाणं समप्पेइ। "ता कह से " इत्यादि।' ता' इति पूर्ववत् , कथं ते त्वया भगवन् ! योगस्याऽदिराख्यात इति वदेत् ? इह निश्चयनयमतेन चन्द्रयोगस्याऽऽदिता सर्वेषामपि नक्षत्राणामप्रतिनियतकालप्रमाणा, ततः सा करणवशादवगन्तव्या। तच करणं ज्योतिष्करण्डके समस्तीति तदीका कुर्वता तत्रैव सप्रपञ्चंभावितमतस्ततोऽवधार्यम् / अत्र तु व्यवहारनवमधिकृत्य बाहुल्येन यस्य नक्षत्रस्य यदा चन्द्रयोगस्याऽऽदिर्भवति तमभिधित्सुराह-" ता अभिई " इत्यादि। ' ता ' इति पूर्ववत् / द्वे अभिजिच्छ्रवणाऽऽख्ये नक्षत्रे पश्चाद्भागे समक्षेत्रे / इहाभिजिन्नक्षत्र समक्षेत्र, नाप्यर्द्धक्षेत्र, नापि व्यर्द्धक्षेत्र, केवलं श्रवणेन सह संबद्धमुपात्तमित्यभेदोपचारात् तदपि समक्षेत्रमुपकल्प्य समक्षेत्रम् इत्युक्तम्। सातिरेकैकोनचत्वारिंशन्मुहूर्तप्रमाणे। तथाहि-सातिरेका नव मुहूर्ता अभिजितः, त्रिंशन्मुहूर्ताः श्रवणस्येत्युभयमीलने यथोक्तं मुहूर्तपरिमाण भवति / तत्प्रथमतया चन्द्रयोगस्य प्रथमतया, सायं विकालवेलायाम् , इह दिवसस्य कतितमाघरमाद्भागादारभ्य यावद्रात्रे: कतितमो भागो यावन्नापि परिस्फुटनक्षत्रमण्डलाऽऽलोक: तावान् कालविशेषः सायमिति द्रष्टव्यः तथा लोके व्यवहारदर्शनात्। तस्मिन् सायं समये, चन्द्रेण सार्द्ध योगं युक्तः / इहाभिजिन्नक्षत्रं यद्यपि युगस्याऽऽदौ प्रातश्चन्द्रेण सह योगमुपैति, तथाऽपि श्रवणेन सह सम्बद्धमिह तद्विवक्षितम्। श्रवणनक्षत्रं च मध्याह्रादूर्द्धमपसरति, दिवसे चन्द्रेण सह योगमुपादत्ते / ततस्तत्साहचर्यात्तदपि सायं समये चन्द्रेण सार्द्ध युज्यमानं विवक्षितं ततः सामान्यतः सायं चन्द्रेण सार्द्ध योगयुञ्जन्तीत्युक्तम् (बहुत्वं प्राकृतानुवादवशात् ) अथवा युगस्याऽऽदिमतिरिच्यान्यदा बाहुल्यमधिकृत्येदमुक्तं, ततो न कश्चिद्दोषः / " ततो पच्छा " इत्यादि। पश्चात् तदूर्द्धवम्, अपरमन्यं सातिरेकदिवसं यावत्। एतदेवोपसंहारव्याजेन व्यक्तीकरोति-" एवं खलु "इत्यादि। एवमुक्तेन प्रकारेण, खल्विति निश्चये, अभिजिच्छवणौ द्वे नक्षत्रे, सायं समयादारभ्य एकां रात्रिमेकं च सातिरेक दिवसं, चन्द्रेण सार्द्ध युक्तः / एतावन्तं च कालं युक्त्वा तदनन्तरं योगमनुपरिवर्तयति, आत्मनश्चयावयत इत्यर्थः / योग चानुपरिवर्त्य सायं दिवसस्य कतितमे पश्चाद्भागे चन्द्रं धनिष्ठायां समर्पयतः। तदेवमभिजित् श्रवणंधनिष्ठा सायं समये चन्द्रेण सह प्रथमतो योगं युञ्जन्ते / तेनामूनि त्रीण्यपि पश्चाद्भागान्यवसेयानि / ततः समर्पणादनन्तरं धनिष्ठा खलु नक्षत्रं पश्चाद्भाग सायं समये तस्य प्रथमतश्चन्द्रेण सह युज्यमानत्वात् समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया साय समये चन्द्रेण सार्द्ध योग युनक्ति / चन्द्रेण सह योगं युक्त्वा ततः सायं समयादूर्द्ध, ततः पश्चाद्रात्रीः, अपरं च दिवसं यावद् योगं युनक्ति / एतदेवोपसंहारव्याजेनाऽऽचष्टे -" एवं खलु इत्यादि सुगम, यावद् योगमनुपरिवर्त्य सायं समये चन्द्र शतभिषजः समर्पयति / प्रायः परिस्फुटनक्षत्रमण्डलावलोके तत इदं नक्षत्रं नक्तंभाग द्रष्टव्यम् / तथा चाऽऽह-(ता इत्यादि)'ता' इति। ततः समर्पणादनन्तरं शतभिषग्नक्षत्रं खलु नक्तंभागमपार्द्धक्षेत्रं पञ्चदशमुहूर्त तत्प्रथमतया चन्द्रेण सार्द्ध योगं युनक्ति। तचतथा युक्तं सन्न लभते अपरं दिवसं, पञ्चदशमुहूर्तप्रमाणत्वात्, किन्तु रात्रित एव योगमधिकृत्य परि-समाप्तिमुपैति / तथा चाऽऽह-'' एवं खलु " इत्यादि सुगमम् / यावद् योगमनुपरिवर्त्य प्रातश्चन्द्रं पूर्वयोः प्रोष्ठपदयोर्भद्रपदयोः समर्पयति / इह पूर्वप्रोष्ठपदानक्षत्रस्य प्रातश्चन्द्रेण सह प्रथमतया योगः प्रवृत्त इतीदं पूर्वभागमुच्यते / तथा चाऽऽह-(ता पुग्वेत्यादि) ततः समर्पणादनन्तरं पूर्वप्रोष्ठपदा खलु नक्षत्रं पूर्वभागसमक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया प्रातश्चन्द्रेण सह योगं युनक्ति। तच तथा युक्तं सत्ततः समयादूर्द्ध तं सकलं दिवसम् , अपरां च रात्रिं यावद्वर्त-ते / एतदेवोपसंहारव्याजेनाऽऽह-" एवं खलु " इत्यादि सुगम, यावद् योगमनुपरिवर्त्य प्रातश्चन्द्रमुत्तरयोः प्रोष्ठपदयोः समर्पयति / इदं किलोत्तराभाद्रपदाऽऽख्य नक्षत्रमुक्तप्रकारेण प्रातश्चन्द्रेण सह योगमधिगच्छति, केवलं प्रथमान् पञ्चदश मुहूर्तानधिकानपनीय समक्षेत्रत्वं कल्पयित्वा यदा योगश्चिन्त्यते, तदा नक्तमपि योगो-ऽस्तीत्युभयभागमवसेयम् / तथा चाऽऽह-ततः समर्पणादनन्तरं प्रोष्ठपदा नक्षत्रं खलुभयभागं व्यर्द्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातश्चन्द्रेण सार्द्ध योग युनक्ति / तच तथा युक्तं सत्सकलमपि दिवसमपरा च रात्रि ततः पश्चादपरं दिवसं यावद्वर्त-ते। एतदेवोपसंहारव्याजेन व्यक्तीकरोति(एवं खलु) इत्यादि सुगमम् , यावद्योगमनुपरिवर्त्य सायं समये चन्द्र रेवत्याः समर्पयति / ततो रेवतीनक्षत्रं सायं समये चन्द्रेण सह योगमधिगच्छति; ततस्तत्पश्चाद्भागमवसेयम् / तथा चाऽऽह-" ता रेवती " इत्यादि।'ता' इति। ततः समर्पणादनन्तरं, शेष सुगमम्। इदं च चन्द्रेण युक्तं सत् सायं समयादूर्द्ध सकलां रात्रिमपरं च दिवस यावदवतिष्ठते, समक्षेत्रत्वात् / एतदेवोपसंहारत आह-" एवं खलु " इत्यादि सुगम-म्। यावद् योगमनुपरिवर्त्य सायं समये चन्द्रमश्विन्याः समर्पयति / तत इदमप्यश्विनी नक्षत्रं सायं समये चन्द्रेण सह युज्यमानत्वात् पश्चाद्भागमवसेयम् / तथा चाऽऽह-" ता" इत्यादि सुगम, नवरमिदमप्यश्विनी नक्षत्रं समक्षेत्रत्वात् सायं समयादारभ्य तां सकलां रात्रिमपरं च दिवसं यावच्चन्द्रेण सह युक्तमवतिष्ठते / एतदेवोपसंहारव्याजेनाऽऽह-" एवं खलु" इत्यादि सुगमम् / यावद् योगमनुपरिवर्त्य सायं प्रायः परिस्फुटनक्षत्रमालावलोकसमये चन्द्र भरण्याः समर्पयति / इदं च भरणी नक्षत्रमुक्तयुक्त्या रात्रौ चन्द्रेण सह योगमुपैति, ततो नक्तंभागमवसेयम्।तथात्वाऽऽह-" भरणी " इत्यादि पाठसिद्धम्। नवरमिदमपार्द्धक्षेत्रत्वाद्रात्रौतंयोग परिसमापयति, ततोन लभते चन्द्रेण सह युक्तमपरं दिवसम्। एतदेवोपसंहारव्याजेनाऽऽह-" एवं खलु " इत्यादिसुगमम्। यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं कृत्तिकानां समर्पयति। इदं च कृत्तिकानक्षत्रमुक्तयुक्त्या प्रातः चन्द्रेण सह योगमुपैति, ततः पूर्वभागमवसेयम्। एतदेवोपसंहारख्याजेन व्यक्तीकरोति-"एवं खलु" इत्यादि सुगमं, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं रोहिण्याः समर्पयति। इदं च रोहिणीनक्षत्रं व्यर्द्धक्षेत्रम् , अतः प्रागुक्तयुक्तिवशादुभयभागं प्रतिपत्तव्यम् / (रोहिणी जहा उत्तरभद्दवया इति) रोहिणी यथा प्रागुत्तरभद्रपदा उक्ता, तथा