________________ णक्खत्त 1767 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त व्वीसं च वावट्ठिभागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्ठिहा छेत्ता चउपण्णं चुन्निया भागा सेसा / तं समयं च ण सूरे केणं णक्खत्तेण जोएइ, जोइत्ता पुणव्वसुस्स सोलस मुहुत्ता अट्ठय वावट्टिभागा मुहत्तस्स, वावट्ठिभागं च सत्तट्टिहा छित्ता वीसं चुणिया भागा सेसा" इति। संप्रति पञ्चाशदधिकेन शतेन भागे हृते लब्धाः षडहोरात्राः, शेष तिष्ठति पञ्चोत्तर शतं, ततो मुहूर्ताऽऽनयनाय छेदराशेरर्द्धक्षेत्राऽऽदीनां नक्षत्राणां कालपरिमाणज्ञानार्थ करणमाहनक्खत्तचंदजोगे, नियमा सत्तट्ठिए समुप्पन्ने। पण्णेव सएण भए, लहई सूरस्स सो जोगो / / नक्षत्राणां यावत् प्रमाणो योगः सप्तषष्टया नियमान्निश्चयेन, प्रत्युत्पद्यते इत्यर्थः / तस्मिन् चन्द्रनक्षत्रयोगे सप्तषष्ट्या प्रत्युत्पन्ने पश्चाशेन पञ्चाशदधिकेन शतेन भजेत् भागहारं कुर्यात् , भागे हृते यद् लब्धे, स / तावत्कालप्रमाणः सूर्यस्य योगः। इयमत्र भावना-कोऽपि पृच्छति-यस्मिन् क्षेत्रे पञ्चदश मुहूर्तान-वतिष्ठते चन्द्रः, तत्र सूर्यः कियन्तं कालमवस्थानं करोति ? तत्र पञ्चदश सप्तषष्ट्या गुण्यन्ते, जातं पञ्चोत्तरं सहस्रम् 1005 / तस्य पञ्चाशदधिकशतरूपस्य विशता भागहरणं, लब्धाः पञ्च, तेन पञ्चोत्तरशतस्य भागे हृते लब्धा एकविंशतिर्मुहूर्ताः / एतावानद्धक्षेत्राणां प्रत्येकं सूर्येण समं योगः / तथा समक्षेत्राणां त्रिंशन्मुहूर्ताश्चन्द्रयोगपरिमाणं, ततविंशत्सप्तषष्ट्या गुण्यते, जाते द्वे सहस्र दशोत्तरे 2010 / तेषां पञ्चाशदधिकेन शतेन भागो ह्रियते, लब्धाः त्रयोदश अहोरात्राः, शेषास्तिष्ठन्ति षष्टिः, ततो मुहूर्ताऽऽनयनात छेदराशे-रिंशता भागहरण, स्थिताः पञ्च, तैः षष्टेर्भागो हियते, लब्धा द्वादश मुहूर्ताः, एतावान् समक्षेत्राणां प्रत्येकं सूर्येण सह योगः / तथा व्यर्द्ध- क्षेत्राणां पञ्चचत्वारिंशन्मुहूर्ताश्चन्द्रयोगः पञ्चचत्वारिंशत्सप्तषष्ट्या गुण्यते, जातानि त्रीणि सहस्राणि पश्चदशोत्तराणि 3015 / तेषां पञ्चाशदधिकेन शतेन भागो ह्रियते, लब्धा विंशतिरहोरात्राः, शेषास्तिष्ठन्ति पञ्चदश, ततो मुहूर्ताऽऽनयनाय छेदराशेस्त्रिशता भागहरणं, स्थिताः पञ्च, तथा दशानां भागे हृते लब्धाःस्त्रयः पञ्च मुहूर्ताः, एतावान् व्यर्द्धक्षेत्राणां प्रत्येकं सूर्येण समं योगः। साम्प्रतं यथा सूर्ययोगपरिमाणदर्शनतः चन्द्रयोगपरिमाणज्ञा नं भवति, तथा प्रतिपादयतिनक्खत्तसूरजोगो, मुहुत्तरासीकओ उपंचगुणो। सत्तट्ठीऍ विभत्तो, लद्धो चंदस्स सो जोगो॥ नक्षत्राणामर्द्धक्षेत्राऽऽदीनां यः सूर्येण सह योगः स मुहूर्तराशीक्रियते, कृत्वा च पञ्चभिर्गुण्यते, ततः सप्तषष्ट्या भागे हृते यल्लब्धं, स चन्द्रस्य योगः / अत्रापीयं भावनाकोऽपि शिष्यः पृच्छतियत्र सूर्यः षट् दिवसान् एकविंशतिच मुहूर्तान् अवतिष्ठते, तत्र चन्द्रः कियन्तं कालं तिष्ठतीति? तत्र मुहूर्तराशिकरणार्थ षट् दिवसाः त्रिंशता गुण्यन्ते, गुणयित्वा चोपरि एकविंशतिर्मुहूर्ताः प्रक्षिप्यन्ते, जाते द्वे शते एकोत्तरे 201 / ते पञ्चभिर्गुण्यन्ते, जाते पञ्चोत्तरं सहस्रम् 1005 / तस्य सप्तषष्ट्या भागे हृते लब्धाः पञ्चदश मुहूर्ताः, एतावानर्द्धक्षेत्राणां प्रत्येकं चन्द्रेण समं योगः। तथा समक्षेत्राणां सूर्ययोगस्त्रयोदशदिवसा द्वादश मुहूर्ताः, तत्र दिवससंख्या मुहूर्तकरणार्थं त्रिंशता गुण्यते, जातानि त्रीणि शतानि नवत्यधिकानि 360 / उपरितनाश्च द्वादश मुहूर्तास्तत्र प्रक्षिप्यन्ते, जातानि चत्वारि शतानि व्युत्तराणि ४०२शतानि पञ्चभिर्गुण्यन्ते, जाते द्रे सहस्र दशोत्तरे 2010 / तेषां सप्तषष्ट्या भागे हृते लब्धास्त्रिंशन्मुहूर्ताः 30 / एतावान् समक्षेत्राणां प्रत्येकं चन्द्रयोगः / तथा द्वयर्द्धक्षेत्राणां सूर्ययोगः विंशतिरहोरात्रास्त्रयो मुहूर्ताः, तत्राहोरात्रसंख्या मुहूर्तकरणार्थ त्रिंशता गुण्यते, जातानिषट् शतानि, उपरितनाश्च त्रयो मुहूर्तास्तत्र प्रक्षिप्यन्ते, जातानि षट् शतानि व्युत्तराणि 603 / तानि पञ्चभिर्गुण्यन्ते, जातानि त्रीणि सहस्राणि पशदशोत्तराणि 315 / तेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्चत्वारिंशन्मुहूर्ताः 45 // एतावान् व्यर्द्धक्षेत्राणां प्रत्येक चन्द्रेण सहयोगः / संप्रत्युपसंहारमाहनक्खत्ताणं जोगा, चंदाऽऽइचेसु करणसंजुत्ता। भणिया (मुणाहि एत्तो, पविभागं मंडलाणं तु)! नक्षत्राणां चन्द्राऽऽदित्येषु चन्द्रविषये, आदित्यविषये च करण-संयुक्ता योगा भणिताः प्रतिपादिताः / ज्यो०६ पाहुः / (14) कति भागानि नक्षत्राणि चन्द्रेण सह युज्यन्तेता कहं ते एवंभागा आहिता ति वदेञा? ता एतेसिणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता, जे णं णक्खत्ता पुव्वंभागा समक्खेत्ता तीसतिमुहुत्ता पण्णत्ता / अस्थि णक्खत्ता, जे णं णक्खत्ता पच्छंभागा समक्खेत्ता तीसतिमुहुत्ता पण्णत्ता। अत्थि णक्खत्ता, जे णं णक्खत्ता णत्तंभागा अवड्डखेत्ता पण्णरस मुहुत्ता पण्णत्ता। अत्थि णक्खत्ता, जे णं णक्खत्ता उभयंभागा दिवढक्खेत्ता पणयालीस मुहुत्ता पण्णत्ता।ता एएसिणं अट्ठावी-साए णक्खत्ताणं कतरेणक्खत्ता,जेणं णक्खत्ता पुव्वंभागा समक्खेत्ता तीसतिमुहुत्ता पण्णत्ता ? कतरे णक्खत्ता, जे णं णक्खत्ता पच्छंभागासमक्खेत्ता तीसतिमुहुत्ता पण्णत्ता? कतरे णक्खत्ता, जे णं णक्खत्ता णत्तंभागा अवड्डक्खेत्ता पण्ण-रस मुहुत्ता पण्णता? कतरे णक्खत्ता, जे णं णक्खत्ता उभयं-भागा दिवडक्खेत्ता पणयालीसइमुहुत्ता पण्णत्ता ? ता एतेसिणं अट्ठावीसाए णक्खत्ताणं,तत्थ णं जे ते णक्खत्ता,जेणं णक्खत्ता पुव्वंभागा समक्खेत्ता तीसतिमुहुत्ता पण्णत्ता / ते णं छ / तं जहा-पुटवभद्दवया 1, कत्तिता 2, महा 3, पुटवफुग्गुणी 4, मूलो 5, पुव्वासाढा 6 / तत्थ णं जे ते णक्खत्ता, जेणं णक्खत्ता पच्छंभागा समक्खेत्ता तीसतिमुहुत्ता पण्णत्ता। ते णं दसतं जहाअभिई 1, सवणो 2, धणिट्ठा 3, रेवती 4, अस्सिणी 5, मिगसिरं 6, पुस्सो 7, हत्थो 8, चित्ता 6, अणुराहा 10 एवं पच्छंभागा दस हवंति / तत्थ णं जे ते णक्खत्ता, जे णं णक्खत्ता णत्तंभागा अवड्डक्खेत्ता पण्णरस मुहुत्ता पण्णत्ता।