SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1766 - अभिधानराजेन्द्रः भाग-४ णक्खत्त 1380 / तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा मुहूर्ता विंशतिः 20 / स्थिताः पश्चात् चत्वारिंशत् 40 / आगतं श्रवणनक्षत्रं विंशतिमुहूर्तेषु, एकस्य च मुहूर्तस्य चत्वारिंशति सप्तषष्टिभागेषु चन्द्रेण भुक्तेषुयुगे द्वितीये अहोरात्रे द्वितीयायां सूर्य उदयते / एवं सर्वत्रापि भावनीयम्। ज्यो०६ पाहु०। (13) पव्वं पन्नरसगुणं, तिहिसहियं ओमरत्तपरिहीणं। तिहि छावट्ठसएहिं, भागे सेसम्मि सोहणगं / / युगमध्ये विवक्षिताद् दिनात् प्राक् यानि पर्वाणि अतीतानि, तत्संख्या स्थाप्यते, स्थापयित्वा च पञ्चदशभिर्गुण्यते, ततो विवक्षिताद् दिनात् प्राक् पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्तत्सहिता क्रियते / ततस्तदनन्तरमधिकृताद् दिनादर्वाग् ये गता अवमरात्राः, तैः परिहीना क्रियते, ते ततः पात्यन्त इत्यर्थः। ततः शेषस्य त्रिभिः शतैः षषष्ट्यधिकैर्विभजेत भाग हरेत् , भागे च हृते यत् शेषं, तस्मिन् शेषे, शोधनक वक्ष्यमाणस्वरूपं कुर्यात्। तत्र यस्मिन शोधनके शुद्धे यन्नक्षत्रं शुद्धं भवति, तदेतन्निरू पयन्नाहचउवीसं च मुहुत्ता, अट्ठेव य केवला अहोरत्ता। एए पुस्से सेसा, एत्तो सेसाण वोच्छामि।। चतुर्विशतिर्मुहूर्ताः, अष्टौ च केवलाः परिपूर्णा अहोरात्राः। एते एतावन्तो / मुहूर्ताः, अहोरात्राश्च-पुष्ये पुष्यनक्षत्रे, शोध्याः। किमुक्तं भवति?-एतेषु शोधितेषु पुष्यनक्षत्रं शोधितं भवति / अत ऊर्द्धव शेषाणां नक्षत्राणां शोधनकानि वक्ष्ये। तानि च क्रमेण आहराइंदिया विसट्ठी, य मुहुत्ता वारसुत्तरा सुद्धा। सोलससयं विसाहा, वीसंदेवा य तेसीयं / / द्वाषष्टिषष्टिसंख्यानि, रात्रिन्दिवानि, द्वादश च मुहूर्ताः, एतावति शोधिते उत्तरफाल्गुनीनक्षत्र शुद्ध भवति। तथा षोडशशतं षोडशाधिक शतं, विशाखा विशाखापर्यन्तसूचकं, ततस्तस्मिन् शोधिते विशाखाऽन्तानि नक्षत्राणि शोधितानि भवन्तीति भावः। तथा त्र्यशीतंत्र्यशीत्यधिकं शतं, विष्वगदेवाविष्वग्देवाधिपतिरुत्तराषाढा इत्यर्थः / अत्राऽयं भावार्थ:-त्र्यशीत्यधिक शतमुत्तराषाढापर्यन्त-सूचकमिति। दो चउपण्णे छच्चे-ब मुहुत्ता उत्तरा उ पोट्ठवया। तिण्णेव एकवीसा, छच्च मुहुत्ता उ रोहिणिया।। द्वेशते चतुष्पञ्चाशे चतुष्पञ्चाशदधिके, षट् च मुहुर्ताः, उत्तराप्रोष्टपदाउत्तराभाद्रपदा, उत्तराभाद्रपदपर्यन्तसूचका इत्यर्थः / ततस्त्रीणि शतान्येकविंशत्यधिकानि, षट् च मुहूर्ताः, रोहिणी-रोहिणीसूचका इति योगः। तिन्नेगट्ठा वारस, य मुहुत्ता सोधणं पुणव्वसुणो। जं सोहणं न गच्छइ, नक्खत्तं तं तु सूरगयं / / त्रीणि शतान्येकषष्ट्यधिकानि द्वादश मुहूर्ताः, एतावत् शोधनकं पुनर्वसोः पुनर्वसुनक्षत्रस्य। एतानि च शोधकानि पुष्यं मुक्त्वा शेषाणि व्यर्द्धक्षेत्रपय॑न्तानामुक्तानि। तत एतेषामपान्तराले यानि नक्षत्राणि, तान्यात्मीयेन | प्रमाणेन शोध्यन्ते / तद्यथा-अर्द्धक्षेत्राणि षभिरहोरात्रैरेकविंशत्या च मुहूतः : समक्षेत्राणि त्रयोदशभिर्दिनैदशभिश्च मुहूर्तः, व्यर्द्धक्षेत्राणि विंशत्या दिनैस्त्रिभिश्च मुहूर्तरिति / यत्पुनरुद्धारित शोधनं न गच्छति, तन्नक्षत्रं सूर्यगतमवसेयम् / वाऽपि राशिः स्तोकतया षट्षष्ट्यधिकशतत्रयभागंन सहते, तत्रापि यथा-योगशोधनं कर्त्तव्यम्। उक्तं करणम्। संप्रत्येतद्विषया भावना क्रियतेयुगस्य प्रथमे संवत्सरे चान्द्रेदशसुपर्वस्वतिक्रान्तेषु पञ्चम्यां केन नक्षत्रेण सह योगो दिवसाधिपतेः ? इति चिन्तायां पर्वसंख्या दश ध्रियते, ततः पञ्चदशभिर्गुण्यते, जातं पशाशदधिकंशतम् 150 / दशानां च पर्वणामुपरि पञ्चम्याः प्राक् तिथयोऽतिक्रान्ताश्चतस्रः, ततस्तास्तत्र प्रक्षिप्यन्ते, जातं चतुःपञ्चाशदधिकं शतम् 154 / दशसु च पर्वसु द्वाववमरात्रौ / ततस्तो तस्मात् पात्येते, जातं द्विप-ञ्चाशदधिकं शतम 152 / अयं च राशिः षट्षष्ट्यधिकं शतत्रयभागं न सहते, ततो यथासंभवं शोधनक कर्तव्यम्। तत्र षोडशाधिकेन शतेन विशाखाऽन्तानि नक्षत्राणि शुद्धानि, शेषाणि षत्रिंशत् / ततोऽनुराधा त्रयोदशभिरहोरात्रै‘दशभिमुहूर्तः शुद्धा, शेषास्तिष्ठन्ति द्वाविंशतिर्दिवसाः, अष्टादश च मुहूर्ताः / पुनः षभिर्दिवसैरकविंशत्या च मुहूर्तज्येष्ठा शुद्धा, शेषाः पञ्चदश दिवसाः सप्तविंशतिर्मुहर्ता अवतिष्ठन्ते / तेभ्यस्त्रयोदशभिर्दियसैदिशभिश्व मुहूर्त्तर्मूलनक्षत्र शुद्ध, शेषौ द्वौ दिवसौ, पञ्चदश मुहूर्तास्तिष्ठन्ति / एतावान् कालः पर्वदशकातिक्रमे पञ्चम्यां पूर्वाषाढाप्रविष्टस्य सूर्यरयाभूत।। तथा युगस्य प्रथमसंवत्सरपर्यन्ते केन नक्षत्रेण सह समेतो भास्करः ? इति चिन्तायां प्रथमसंवत्सरे पर्वाणि चतुर्विशतिः, तानिपञ्चदश-भिर्गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि 360 / संवत्सरे च पड़वमरात्रा इति षट् तेभ्यः पात्यन्ते, जातानित्रीणि शतानि चतुष्पञ्चाशदधिकानि 354 / अत्रापि त्रिभिः शतैः षट्षष्ट्यधिकै- भागोनपूर्यते, ततो यथासंभवं शोधनं कर्तव्यम् / तत्र त्रिभिः शतैरेकविंशत्याऽधिकैः षट्भिश्च मुहूर्तर्राहिण्यन्तानि नक्षत्राणिशुद्धानि, शेषास्तिष्ठन्ति द्वात्रिंशदहोरात्राश्चतुर्विशतिश्च मुहूर्ताः। तेभ्योऽपि त्रयोदशभिर्दिवादशभिश्च मुहूतैर्मृगशिरो नक्षत्र, शेषा अवतिष्ठन्ते एकोनविंशतिरहोरात्राः, द्वादश च मुहूर्ताः / तेभ्योऽपि षभिर्दिवसैरेकविंशत्या च मुहूर्तरार्द्रा नक्षत्र शुद्ध, शेषास्तिष्ठन्ति द्वादश दिवसाः, एकविंशतिर्मुहूर्ताः। एतावान् कालस्तदानीं पुनर्वसुनक्षत्रप्रविष्टस्य सूर्यस्याभवत्। इह यन्नक्षत्रमहोरात्रं कालं यावचन्द्रेण सह योगमपारूढं वर्तते, तस्य सूर्येण सह यावन्तं कालं योगः, तस्य त्रिंशत्तमभागप्रमाण एकः सूर्यमुहूर्तः / एवं त्रयोदश मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशतिषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य किशिल्समधिकाः सा स्विपश्चाशद्भागाः / एवं प्रमाणा मुहूर्ता अर्धक्षेत्राणां पञ्चदश, समक्षेत्राणां त्रिंशत् , व्यर्द्धक्षेत्राणां पञ्चचत्वारिंशत्। तत्र द्वादशभिर्दिनैरेकविंशत्या च मुहूर्तये चतुष्पञ्चाशदधिकशतत्रयस्योपरिद्वादश द्वाषष्टिभागाश्चन्द्रसंवत्सरसत्काः, ते चाष्टाविंशतिसंख्याः किञ्चित्समधिकाः सूर्यमुहूर्ता भवन्ति; शेषास्तु किञ्चित्समधिकाः / एवंप्रमाणाः सूर्यमुहूर्ताः षोडश तिष्ठन्ति। तदुच्यते सूर्यप्रज्ञप्तौ- " जेणं दोच्चस्स चंदसंवच्छरस्स आई, सेणं पढमस्स चंदसंवच्छरस्सपज्जवसाणे, अणंतरपच्छाकडे समए। तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ, जोइत्ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं छच्चीस मुहुत्ता, छ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy