________________ णक्खत्त 1765 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त योगो वर्त्तते ? कानि च प्रागतीतानि ? इति सम्यग् ज्ञानं, तन्निमित्तं करणं, चन्द्रे सूर्ये च प्रत्येक यथाऽनुपूर्व्या क्रमेण वक्ष्यामि। तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः चन्द्रविषयंकरणमाहपव्वं पन्नरसगुणं, तिहिसहियं ओमरत्तपरिहीणं / वासीइए विभत्ते, लद्धे अंसे वियाणाहि।। जं हवइ भागलद्धं, कायव्वं तं चउग्गुणं णियमा। अभिइस्स एकवीसा, भागे सोहेहि लद्धम्मि।। सेसाणं रासीणं, सत्तावीसा तु मंडला सोज्झा। अभिइस्स सोहणाऽसं-भवे तु इणमो विही होइ / / सेसाओ रासीओ, रूवं घेत्तूण सत्तसहि काऊणं / पक्खिव लद्धेसु पुणो, अभिजिइ सोहेउ पुव्वकमा / / पंच दस तेरसऽट्ठा-रसे य वावीस सत्तवीसाय। सोज्झा दिवड्डखेत्तं, तं भद्दवई असाढता।। एयाणि सोहइत्ता, जं सेसं तं हविज नक्खत्तं / सोज्झा तीसगुणाओ, सत्तट्ठिहते मुहुत्ताओ। यस्मिन् दिने चन्द्रेण सह युक्तं नक्षत्रं ज्ञातुमिष्यते, तस्माद् दिनात् प्राक यानि पर्वाणि युगमध्येऽतीतानि, तानि संख्यया परिभाव्य तत्संख्या ध्रियते / सूत्रे च पर्वसंख्याऽप्युपचारात् पर्वेत्यभिहिता / पर्व पञ्चदशतिथ्यात्मकम् , अतस्तत् पञ्चदशभिर्गुण्यते, गुणयित्वा च तेषां पर्वाणामुपरि विवक्षितायास्तिथेाः प्रागतीतास्तिथयः, ताभिः सहितं संयुक्तं पञ्चदशगुणनाऽनन्तरं पर्वोपरिवर्तिन्योऽतीता-स्तिथयो मध्ये प्रक्षिप्यन्त इति। ततो येऽवमरात्रा अतिक्रान्तेषु पर्वसुगताः, तैः परिहीणं क्रियते, ततोऽपनीयत इत्यर्थः। ततो व्यशीत्या भागो ह्रियते। तत्र भागे हृते यल्लब्ध, ये चांशा अवतिष्ठमानाः, तदेतत्सर्व विजानीहि, बुद्ध्या सम्यगवधारयेति भावः / लब्धं चोपरि स्थापय, अंशाँश्चाऽधस्तात् लब्धश्च राशिरिति व्यवहियते, अशाश्च शेषो राशिरिति // तत्र यद भवति वर्तते भागलब्धं, तद् नियमाचतुर्गुणं कर्तव्य, कृते च सति लब्धरूपात् राशेरभिजितो नक्षत्रस्य सम्बन्धिन एकविंशतिभागान शोधय / / शेषाणां तु राशीनामधस्तनस्थानवर्तिनां मध्यात्सप्तविंशतिसंख्यं नक्षत्रमण्डलं शोध्य, सप्तविंशतिः शोध्या इत्यर्थः / अथोपरितनो राशिः स्तोकतया एकविंशतिरूपं शोधनं न सहते, तत आह-" सेसाओ" इत्यादि। शेषात् अधस्तनरूपात राशेरकं रूप गृहीत्वा सप्तषष्टिभागीक्रियते, कृत्वा च पुनस्ते सप्तषष्टिभागा लब्धेषु लब्धराशिमध्ये प्रक्षिपेत् / प्रक्षिप्य च ततोऽभिजिदष्टादशनक्षत्रसंबन्धेनेकविंशतिभागान् , पूर्वक्रमात् पूर्वक्रमानुसारेण शोधय / शोधयित्वा च पञ्चदशत्रयोदशाष्टादशद्वाविंशतिसप्तविशतिरूपान् शोध्यान् द्वयर्द्धक्षेत्रान् व्यर्द्धक्षेत्रपर्यन्तसूचकान् , तानपि शोधय। एतदेव व्यक्तमाचष्टभाद्रपदाऽऽदीन् आषाढान्तान् , उत्तरभाद्रपदान् , उत्तराषाढापर्यन्तसूचकानित्यर्थः। तथाहि-पञ्चकं श्रवणादारभ्योत्तरभाद्रपदारूपद्व्यर्द्धक्षेत्रपर्यन्तसूचकः / दशको रोहिणीरूपव्य क्षेत्रसीमा सूचकः / त्रयोदशकः पुनर्वसुरूपद्व्यर्द्धक्षेत्रपर्यन्तख्यापकः / अष्टादशक उत्तरफाल्गुनीरूपद्व्यर्धक्षेत्रसीमापरिज्ञापकः / द्वाविंशतिर्वि- | शाखारपद्व्यर्द्धक्षेत्रसीमासूचिकेत्यर्थः / सप्तविंशतिरुत्तराषाढारूपद्वयर्धक्षेत्रसीमासूचकः / शोधितेषु चामूषु तदुपरितनेषु यदस्तितत् त्रिंशता गुणयित्वा, सप्तषष्ट्या भागे हृते ये लब्धास्ते मुहूर्ता ज्ञातव्याः / तत्राप्यवशेषांशा मुहूर्तस्य सप्तषष्टिभागाअवसेया इतिकरणगाथाक्षरार्थः। संप्रति भावना क्रियतेयुगस्य प्रथमे संवत्सरे दशसु पर्वसु गतेषु पञ्चम्यां केन नक्षत्रेण सह योक्तव्यम् ? इति जिज्ञासायां पर्वसंख्या दशको ध्रियते, ते च दश पञ्चदशभिर्गुण्यन्ते, जातं पञ्चाशदधिकंशतम् 150 / पञ्चम्यां च नक्षत्रेण सह चन्द्रस्य योगो ज्ञातुमिष्ट इति दर्शानां पर्वणामुपरितनास्तिथयोऽतिक्रान्ताः, ताः प्रक्षिप्यन्ते, जाते चतुष्पञ्चाशदधिक शतम् 154 / दशसु पर्वसु द्वावप्यमरात्रौ, ततस्तौ तस्मात्पात्येते, जातं द्विपञ्चाशदधिकं शतम् 152 / तस्य व्यशीत्या भागो ह्रियते, लब्धमेकं रूप, तच उपरिन्यस्यते, न्यस्य च चतुर्भिर्गुण्यते, जाताश्चत्वारः 4 / शेषं चाधस्तादुद्वति सप्ततिः / तत्रोपरितनो राशिः स्तोकत्वादेकविंशतिरूप शोधनं न सहते, ततः सप्ततेरेक रूपं गृहीत्वा सप्तषष्टिखण्डीक्रियते तेच सप्तषष्टिभागा उपरितनराशिमध्ये प्रक्षिप्यन्तेजात उपरितनो राशिरेकसप्ततिः 71 / अधस्ताच्चैकोनसप्ततिः। तत उपरितनराशेरभिजित एकविंशति शोध्यते, अधस्तनराशेश्च नक्षत्रमण्डलं सप्तविंशतिः, तत उपरि पञ्चाशत् जाताः 50 / अधस्ताद् द्विचत्वारिंशजाताः। ततः पुनरप्युपरितनराशेरेकविंशतिः शुद्धाः, अधस्ताच सप्तविंशतिः / तत उपरि एकोनत्रिंशत् 26 जाताः, अधस्तात् पञ्चदशन। ततो भूयोऽप्युपरितनराशेरभिजित एकविंशतिः शोध्यते 5 / अधस्ताच पञ्चदशसु त्रयोदशकमकस्थानं पुनर्वसुनक्षत्रपर्यन्तस्तयकम् , अतः पुनर्वसुपर्यन्ताति नक्षत्राणि शुद्धानि। शेषौ द्वौ तिष्ठतः / तस्य द्वे नक्षत्रे शुद्धे / तद्यथा-पुष्यः, आश्लेषा च / उपरि च तिष्ठन्त्यष्टौ / ते त्रिंशता गुण्यन्ते, जाते द्वे शते चत्वारिंशदधिके 240 / तयोः सप्तषष्ट्या भागे हृते लब्धास्त्रयो मुहूर्ताः, एकस्य च मुहूर्तस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः / एकस्य च मुहूर्तस्य सत्केष्वेकोनचत्वारिंशत्संख्येषु सप्तषष्ट्या भागेषु चन्द्रेण भुक्तेषु पञ्चम्यां सूर्य उदित इति // तथा युगे प्रथमदिवसे प्रतिपदि केन नक्षत्रेण सह युक्तश्चन्द्रः? इति चिन्तायां पाश्चात्ययुगपर्वसंख्या ध्रियते चतुर्विशशतं 124 / ततः पञ्चदशभिर्गुण्यते, जातानि षष्ट्यधिकान्यष्टादशशतानि 1860 / युगे च त्रिंशदवमरात्रा इति तेभ्यस्त्रिंशत्पात्यते, जातान्यष्टा-दशशतानि त्रिंशदधिकानि 1830 / तेषा व्यशीत्या भागो हियते, लब्धा द्वाविंशतिः। सा उपरिन्यस्ते, न्यस्य च चतुर्भिर्गुण्यते, जाता अष्टाशीतिः। शेषमधस्तादुद्वरति षड्विशतिः। तत्रोपरितनराशेरेकविंशतिरभिजितः शोध्यते, स्थिता पश्चात् सप्तषष्टिः 67 तथा च किलैक नक्षत्र लभ्यते / अधस्ताच षड्विशतिरिति सर्वसकलनया सप्तविंशतिरपि नक्षत्राण्युत्तराऽऽषाढापर्यन्तानि शुद्धानि / तत आगतमुदयसमय एवाभि-जिन्नक्षत्रं चन्द्रेण सह योगमुपयातीति तथा युगे द्वितीयेऽहोरात्रे द्वितीयायां केन नक्षत्रेण सहयुक्तश्चन्द्रः? इति चिन्तायां पाश्चात्या तिथिरतिक्रान्ता प्रतिपल्लक्षणा, तत्संख्या एकको ध्रियते, स ट्यशील्या भागं न सहते, ततः सप्तषष्टिभागीक्रियते, तस्मादेकविंशतिरभिजितः शोध्यते, स्थिता पश्चात् षट्चत्वारिंशत् 46 / सा मुहूर्तकरणार्थम् ३०त्रिंशता गुण्यते।जातानित्रयोदशशतान्यशीत्यधिकानि