SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ णंदि 1752 - अभिधानराजेन्द्रः भाग - 4 णंदि नन्दिपदार्थज्ञस्यापगतजीवितस्य शरीरं सिद्धशिलातलाऽऽदिगतं तद् भूतभावतया ज्ञशरीरद्रव्यनन्दिः / वस्तु बालको नेदानी नन्दिशब्दार्थमवबुध्यते, अथ चावश्यमायत्यां तेनैव शरीरसमुच्छुयेण भोत्स्यते, स भाविभावनिबन्धनत्वाद् भव्यशरीरद्रव्यनन्दिः / इह हि यद् भूतभावं, भाविभावं वा वस्तु, तद् यथाक्रमं विवक्षितभूतभाविभावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्धिमुपागमत्। उक्तं च- ''भूतस्य भाविनो भावाः, भावस्य हि कारणं तु यल्लोके / तद् द्रव्यं तत्त्वज्ञैः, सचेतनाचेतनं कथितम् || 1 || ज्ञशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनन्दिः क्रियाविशिष्टो द्वादशविधतूर्यसमुदायः / उक्तं च-" दव्ये तूरसमुदओ।" तानि च द्वादशविधतूर्याण्यमूनि-" भंभा 1 मुकुंद 2 मद्दल, 3 कडंप 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 6 वंसो 10, संखो ११पणवो १२य बार-समो" ||1|| भावनन्दिर्दिधाआगमतो, नोआगमतश्च / तत्राऽऽ-गमतो नन्दिपदार्थस्य ज्ञाता, तत्र चोपयुक्तः," उपयोगो भाव-निक्षेपः " इतिवचनात् / नोआगमतः पञ्चप्रकारोज्ञानसमुदायः." भावम्मि व पंच नाणाइ" इति वचनात्। नं० / अथवा पञ्चप्रकार-ज्ञानस्वरूपमात्रप्रतिपादकोऽध्ययनविशेषो भावनन्दिः, नोशब्द-स्यैकदेशवाचित्वात् , अस्य चाध्ययनरन्य सर्वश्रुतैकदेशत्वात्। तथाहि-अयमध्ययनविशेषः सर्वश्रुताभ्यन्तरभूतो वर्तते, तत एक-देशः / अत एव चायं सर्वश्रुतस्कन्धाऽऽरम्भेषु सकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिरभिधीयते। नं०।पा०। विशे० / तदुक्तम्-" नंदी चउक्कदव्वे, संखबारसगतूरसंघातो। भावम्मि नाणपणगं, पचविखयरं च तं दुविहं / / 1 // "बृ०१ उ०।" गंदी य मंगलट्ठा, पंचग दुग तिग दुगे च चोद्दसए। अंगगयमणंगगए, का तत्थ परुवणा पगतं // 2 // " इति वक्तव्यार्थेन प्रतिज्ञायाऽऽह कल्पकारःनंदी मंगलहेऊ, न यावि सा मंगला हि वइरित्ता। कजामिलप्पनेया, अपुढो य पुढो य जह सिद्धा // 3 // नन्दिनिपञ्चकरूपो, मङ्गलहेतुर्मङ्गलनिमित्तं वक्तव्यः / आह-यदि मङ्गलनिमित्तं नन्दिर्वक्तव्यः, ततः स मङ्गलादेकान्तेन भिन्नः प्राप्तः, अन्यथा तदुत्पादननिमित्तं तस्योपादानमिति व्यवहारानुपपत्तेः। उपादानं हि तस्य सिद्धस्य सतो भवति, उत्पाधं चाद्याप्यसिद्धं, ततः कथमनयोरभेदः, किंतु भेद एव ? तत आह-न चापि सनन्दिर्मङ्गलाद् व्यतिरिक्तः, अपिशब्दादव्यतिरिक्तोऽपि स्यात् , व्यतिरिक्ताव्यतिरिक्त इत्यर्थः / कथमेतत् श्रद्धेयमिति चेत् ? अत आह-(कजेत्यादि) यथा कार्याभिलाप्यज्ञेयानि कारणाभिलापज्ञानेभ्यः पृथक्त्वापृथक्त्वसिद्धानि, तथा नन्देर्मङ्गलमपि। तथा-हि-कार्य पटः, कारणं तन्तवः / तत्र तन्तव एव पुरुषव्यापारमपेक्ष्य तानवितानभावेन परिणममानाः पटकार्यरूपतया परिणमन्ते, तेषु च तेषु च तथा परिणतेषु सत्सु न कार्यकारणयोर्भेदः,किंत्वभेदः / एवमिहापिनन्दिनिपञ्चकाभिधानरूप उत्तरोत्तरशुभाध्यवसायविशेषसंभवसव्यपेक्षतरतमभावेन परिणममानो वाञ्छिताधिगतिलक्षणमङ्गलरूपतया परिणमते इति नन्दिमङ्गलयोरभेदः प्राचीनां त्ववस्थामपेक्ष्य भेदः / यथा-तन्तुभ्यः पटस्य, तथा अभिलापशब्देन कदाचिदभिलाप्यस्याभिलाप्यमानतोच्यते, अभिलपनमभिलाप इति व्युत्पत्तेः / कदाचित्तद्वाचकशब्दः, अभिलाप्यते वस्त्वभिलाप्य- मनेनेति व्युत्पादनात्। तत्र यदा अभिलाप्यमानतोच्यते, तदाऽभिलाप्याभिलापकयोरभेदो, धर्मधर्मिभावात्। यदा तु तद्वाचकशब्दः, तदा भेदः, शब्दार्थयोभिन्नदेशत्वाद्भिन्नस्वरूपत्वाच।ज्ञानशब्देनापिक्वचिद् ज्ञेयस्य ज्ञानमत्तोच्यते, ज्ञातिनिमिति भावे व्युत्पादनात् / कदाचिदात्मधर्मो, ज्ञायतेऽनेनेति ज्ञानमिति करणे व्युत्पत्तेः / तत्र यदा ज्ञायमानता, तदा ज्ञानज्ञेययोरभेदो, धर्मधर्मिभावात्। यदा त्वात्मधर्मः, तदा भेदो, भिन्नस्वरूपत्वात् / एवमिहापि नन्दिशब्दो यदा भाववचनो नन्दनं नन्दिरिति, तदा नन्दनं समृद्धीभवनं वाञ्छितस्याधिगतिरिल्लनन्तरं, मङ्गलमपि चैवस्वरूपमिति परस्परमभेदः / यदा तु प्राचीनावस्थामपेक्ष्य करणसाधनो नन्दिशब्दो, नन्द्यतेऽनेनेति नन्दिरिति, तदा भेदः, कालभेदेन, भेदादिति। बृ०१ उ०। आ० चू० / नमस्कारत्रयरूपे मगले, ध०२ अधि० / विशे० / श्रावकश्राविकाणां नन्दीसूत्रश्रावणं" नाणं पंचविहं पण्णत्तं "इत्यादिरूपं, नमस्कारत्रयरूपं वा क्रियते ? इति प्रश्ने, उत्तरम्-अत्र श्रावकश्राविकाणां नन्दीसूत्रं नमस्कारत्रयरूपं श्राव्यते इति। 31 प्र०। ही०४ प्रका० / साम्प्रतं पञ्चमःअइगरुअमोहविहुणिय-सुहबोहा केइ धम्ममगणिता। कारेंति नंदिमाई, सड्डीणं संजईहिंतो॥ 1 // अतिगुरुकमोहविधूनितशुभबोधा वृहत्तरमूढताकम्पितप्रधानम-तयः, केचनैके, धर्म क्षान्त्यादिकम् , अगणयन्तस्तिरस्कुर्वाणाः, कारयन्ति विधापयन्ति, नन्द्यादिकं, मकारोऽत्र प्राकृतप्रभवः। आदिशब्दानिषिरानुष्ठानाऽऽदिग्रहः / तत्र नन्दिरुपधानाऽऽदिषु समयप्रतीतो विधिः, श्राद्धीनां श्राविकाणां, (संजईहितो त्ति) संय-तिनीभ्यो व्रतिनीभ्यः सकाशात् / ' हिंतो त्ति ' पञ्चम्याः स्थाने निर्देशः," उहिंतो लोपास्तस्यातः पञ्चम्याः " / / इति प्राकृतेन / स च दर्शित एव / अयमभिप्रायः-स्वयं विहारं व्रजन्तोऽन्येषु त्वाचार्येषु बहुश्रुताऽऽदिषु विद्यमानेषु विज्ञार्यिकाभिः श्राविकाणां नन्द्यादि कारयन्ति / यदि पुनरेकोऽप्याचार्यस्तत्र भवति, ततः सामाचार्या अविरुद्धमपि भवेदिति गाथाऽर्थः॥१॥ एतस्यापि आगमसंवादपूर्वकप्रतिषेधपूर्व जीवोपदेशमाहआरेण अज्जरक्खिय-इचाईवयणओ न तं जुत्तं / रागद्दोसविमुक्को, रे जीव ! तर्हि पि मा मुज्झ / / 2 // (आरेणेति) अर्वाक्,'आरोवणं पच्छित्तदाणं चेति' दृश्य, सुबोधं च। अयमभिप्रायः-निगोदजीवविचारार्थाऽऽयातदेवेन्द्रवन्दिताऽऽर्यरक्षिताऽऽचार्यात् पूर्वं सामायिकाऽऽदिषु आर्यिकाणामनुज्ञा, अर्वाक् पुनर्नास्ति / सामायिकाऽऽदिक च नन्दिपूर्वकं क्रियते, अतस्तत्प्रतिषेधादेतदपि प्रतिषिद्धं बोद्धव्यम् / अतो नेति निषेधे, युक्तं संगतम्। रागद्वेषविमुक्तोऽभिष्वङ्गमत्सररहितो,जीव ! इत्यामन्त्रणे, तत्रापि नन्द्यादिकरणेऽपि, न केवलं पूर्वोक्तेषु, इत्यपिशब्दार्थः / मेति निषेधे, मुह्यस्व मोहं विधेहीति गाथाऽर्थः / समाप्तोऽयमार्यि - कानन्दिवक्तव्यताऽऽख्यः पञ्चमः साध्वीनां पाठः / जीवा० 5 अधि०। अन्यतीर्थीयः कश्विद्यदि तुर्य व तमु चारयति, तदा किं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy