________________ णंदणवण 1750 - अभिधानराजेन्द्रः भाग - 4 णंदराय सिद्धाऽऽयतनानि, विदिक्षु पुष्करिण्यः / तदेव प्रमाण सिद्धाऽऽवतनानां पुष्करिणीनां च यद्भद्रशाले उक्तम् / प्रासादावतं सकास्तयैव शकेशानयोर्वाच्याः, यथा भद्रशाले, दक्षिणदिक्संबद्धविदिग्वर्तिनः / प्रासादाः शक्रस्य, तथोत्तरदिसंबद्धविदिग्वर्तिनस्तु ईशानेन्द्र-स्य, तेनैव प्रमाणेन पञ्चयोजनशतोचत्वाऽऽदिनेति / / अत्र च पुष्क-रिणीनां नामानि सूत्रकारालिखितत्वाद् , लिपिप्रमादाद्वा आदर्शेषु न दृश्यन्ते इति / तत्रैशान्यादिप्रासादक्रमादिमानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्रविचारतः-नन्दोत्तरा 1 नन्दा 2 सुनन्दा 3 नन्दिवर्द्धना 4 / तथा नन्दिषेणा 1 अमोघा 2 गोस्तूपा 3 सुदर्शना 41 तथा सुभद्रा 1 विशाला 2 कुमुदा 3 पुण्डरीकिणी 4 / तथा विजया 1 वैजयन्ती 2 अपराजिता 3 जयन्ती 4 इति / जं० 4 वक्ष० / स्था० / (अत्र नन्दनाऽऽदीनि नव कूटानि कूड' शब्दे तृतीयभागे 622 पृष्ठे उक्तानि) द्वारिकायां रैवताचलपर्वतस्य वने, अन्त०५ वर्ग 2 अ०।" तस्स णं रेवयगस्स पव्वयस्स अदूरसामंते, एत्थ णं णंदणवणे णामं उब्जाणे होत्था / " नि०१ श्रु० 5 वर्ग 1 अ० / आ० चू० / आ० म० / ज्ञा० / विजयपुरनगरसत्कोद्याने, विपा०२ श्रु० 4 अ०। णंदणीपिया-पुं०(नन्दनीपितृ) श्रावस्तीनगरीवास्तव्ये स्वनामख्याते गृहपतौ, उपा०। तवृत्तम्एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सावत्थी णयरी, कोट्ठए चेइए, जियसत्तू राया। तत्थ णं सावत्थीए णंदणीपिया णामं गाहावई परिवसइ। अड्डे चत्तारि हिरण्णकोडीओ णिहाणपउत्ता, वुड्डिपवित्थरपत्ताओ चत्तारि, वया दस गोसाहस्सिएणं वएणं, अस्सिणी भारिया। सामी समोसढो, जहा आणंदो तहेव गिहिधम्म पडिवाइ। सामी बहिया विहरइ। तए णं से णंदणीपिया समणोवासए जाए विहरइ, तए णं तस्स गंदणीपियस्स बहूहिं सीलव्वयगुणव्वयं० जाव भावेमाणस्स चोद्दस संवच्छरा वितिकता, तहेव जेट्टपुत्तं ठवेइ। घम्मपणित्तिं वीसं वासाई परिआयं पाउणित्ता अरुणगविमाणे उववाए महाविदेहे वासे सिज्झिहि त्ति / उपा०६ अ०। स्था०। आ० म०। णंदमाण-त्रि०(नन्दत् ) सौख्यं भुब्जाने, तं०। णंदराय-पुं०(नन्दराज) पाटलिपुत्रमहाराजे नन्दे, ती०। तद्यथापाटलीनाम्ना पाटलिपुत्रं पत्तनमासीत् / असमकुसुमबहुलतया च कुसुमपरमित्यपि नाम रूढम् / तन्मध्ये श्रीनेमिचैत्यं राज्ञाऽकारि / तत्र पुरे गजाश्वरथशालाप्रासादसौधप्राकारगोपुरपुण्यशालासत्राऽऽगाररम्ये चिरं राज्यं जैनधर्म चापालयदुदायिनरेन्द्रः। तस्मिन्नुपात्तपोषधेऽन्यदोदायिमारकेण स्वर्गाऽऽतिथ्यं प्रापिते तणिकासुतो नन्दः श्रीवीरमोक्षाच षष्टिवत्सर्यामतीतायां क्षितिपतिरजनि। तदन्वये सप्तनन्दा नृपा जाताः / नवमनन्दे राजनि परमार्हत्कल्पकान्वयी शकटाओ मन्त्र्यभूत् / तस्य पुत्रौ स्थूलभद्रश्रीयको, सप्त च पुत्र्यो यक्षायक्षदत्ताभूताभूतदत्तासेणावेणारेणाऽऽख्याः क्रमादेकादिसप्ताऽऽचारश्रुतपाठिन्योऽजनिषत। / तत्रैव पुरे कोशा वेश्या, तज्जामिरुपकोशा चाभूताम्। तत्रैव च चाणिक्यः सचिवोनन्दं समूलमुन्मूल्य मौर्यवंश्यं श्रीचन्द्रगुप्तन्यवीविशद्विशां पतित्वे / तवंशे तु बिन्दुसारोऽशोकश्री: कुणालसूनुस्विखण्ड भरताधिपः परमार्हतोऽनार्यदेशेष्वपि प्रवर्तितश्रमणविहारः संप्रतिमहाराजश्चाभवत् / मूलदेवः सकलकलाकलापज्ञो बलसार्थवाहो महाधनी, देवदत्ता च गाणिक्यं तत्रैव प्रागभवत्। उमास्वातिवाचकः कौभीषणिगोत्रः पञ्चशतसंस्कृतप्रकरणप्रसिद्धः तत्रैव तत्त्वार्थाधिगमसूत्रं सभाष्यं व्यरचयत् / चतुरशीतिर्वादशालाश्च तत्रैव विदुषां परितोषाय पर्यणसिषुः / तत्रैव चोत्तुङ्गतरङ्गोत्सङ्गितगगनाङ्गणा परिवहति महानदी गङ्गा, तस्यैव चोत्तरादिशि विपुलं वालुकास्थलं नातिदूरे / यत्राऽऽरुह्य कल्की, प्रातिपदाऽऽचार्यप्रमुखसङ्घश्च सलि-लप्लवान्निस्तरीता / तत्रैव च भविष्यति कल्किनृपतिः / धर्मदत्तजितशत्रुमेघधोषाऽऽदयश्च तश्याः / तत्रैव च विद्यन्तेऽर्निहितनन्दसत्ककनकनवतिद्रव्यकोटयः पञ्च स्तूषाः, येषु धनाशया श्रीलक्ष्मणावतीसुरत्राणस्तांस्तानुपाक्रमतोपक्रमान् / ते चतत्सैन्योपप्लवायैवाकल्पन्त। तत्रैव विहृतवन्तः श्रीभद्रबाहुमहागिरिसुहस्तिवजस्वाम्यादवो युगप्रवराऽऽगमाः, विहरिष्यन्ति च प्रातिपदाऽऽचार्याऽऽदयः। तत्रैव महाधनधनश्रेष्ठिनन्दना रुक्मिणी श्रीवजस्वामिनं प्रतीयन्ती, प्रतिबोध्य तेन भगवता निर्लोभचूडामणिना प्रव्राजिता। तत्रैव सुदर्शनश्रेष्ठी मर्हषिरभयाराज्ञया व्यन्तरीभूतया भूयस्तरमुपसर्गितोऽपि न क्षोभमभवत् / तत्रैव स्थूलभद्रमहामुनिः षट्रसाऽऽहारपरः कोशायाश्चित्रशालायामुत्सादितमदश्वकार वर्षारात्रं चतुर्मासीम्। सिंहगुहावासिभुनिरपि तत्स्पर्द्धिष्णुस्तत्रैव कोशया तदानीतरत्नकम्बलस्य बन्दनिकाप्रक्षेपेण प्रतिबोध्य पुनश्वारुतरां चरणश्रियमङ्गीकारितः / तत्रैव द्वादशाब्दे दुर्भिक्षे गच्छे देशान्तरं प्रोषिते सति सुस्थिताऽऽचार्यशिष्यौ क्षुल्लकावदृश्यीकरणाञ्जनाक्तचक्षुषौ चन्द्रगुप्तनृपतिना सह वुभुजाते कियन्त्यपि दिनानि। तदनु गुरुप्रत्युपालम्भाद्विष्णुगुप्त एव तयोर्निर्धारमकरोत् / तत्रैव श्रीव्रजस्वामी पौरस्त्रीजनमनःसंक्षोभरक्षणार्थ प्रथमदिने सामान्यमेव रूपं विकृत्य, द्वितीयेऽहि चाहो नास्य भगवतो गुणानुरूपं रूपमिति देशनारसहतहृदयजनमुखात् संखापान श्रुत्वाऽनेकलब्धिमान् महल्लनप्रतिरूपं रूपं विकुळ सौवर्णसहस्रपत्रे निषध देशनां विधाय राजादिजनताममोदयत। तस्यैव पुरस्य मध्ये सप्रभावातिशया मातृदेवता आसन् , तदनुभावात् तत्पुरं परैराग्रहवद्भिरपि न खलु ग्रहीतुमशकि। चाणिक्य-वचसोत्पादिते पुनर्जनातृमण्डले गृहीतवातको चन्द्रगुप्तचाणक्यौ। एवमाद्यनेकसंविधानकनिधाने तत्र नगरेऽष्टादशसु विद्यासुस्मृतिषु पुराणेषु च द्वासप्ततौ कलासु भरतवात्स्यायनचाणिक्यलक्षणं रत्नत्रयम्, मन्त्रतन्त्रयन्त्रविद्यासु रसवादधातुनिधिवादाञ्जनगुटिकापादप्रलेपरत्नपरीक्षावास्तुविद्यास्त्रीगजाश्ववृषभाऽऽदिलक्षणेन्द्रजालाऽऽदिग्रन्थेषु काव्येषु च नैपुण्यचणास्ते ते पुरुषाः प्रत्यूषकीर्तनीयनामधेयाः / आर्यरक्षितोऽपि हि चतुर्दशविद्यास्थानानि तत्रैवाधीत्य दशपुरमागमत्। आद्यास्तुतत्रैवंविधा वसन्तिस्म,एके योजनसहस्रगमने यानि गजपदानि भवेयुस्तानि प्रत्येकं स्वर्णसहस्रेण पूरयितुमीशते। अन्ये च तिलानामाढके प्ररूढे सुफलिते यावन्तस्तिलाः स्युः, तावन्ति हेमसहस्राणि विभ्रति गृहेऽपरेऽनवद्यनामकाः प्रवरगिरिनदीप्रवाहपूरस्यैकदिनोत्पन्न