________________ णओवदेस 1748 - अभिधानराजेन्द्रः भाग - 4 णंद लाभविजयगणिशिष्यावतंसपण्डितजीतविजयगणिसतीर्थ्यतिलकपण्डितश्रीनयविजयगणिचरणकमलसेविना पण्डितश्रीपद्मविजयगणिसहोदरेणोपाध्यायश्रीयशोविजयगणिना विरचिताऽमृततरङ्गिणी नाम्नी नयोपदेशटीका संपूर्णा / नयो०। णं-अव्य०(ण) नन्वर्थे," णं नन्वर्थे "|| 4 | 283 // शौरसैन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः / ण अफलोदया, णं अय्यमि-स्सेहि पढमं य्येव आणतं, णं भव मे अग्गदो चलदि। आर्षे वाक्या-लङ्कारेऽपि दृश्यते-नमोऽत्थु ण / जया णं / तयाणं। प्रा० 4 पाद / ते णं काले णं ते णं समए ण / णमिति वाक्यालङ्कारे / सूत्र० 1 श्रु० 11 अ० / तिः / प्रश्नः / रा० / औ० / कल्प० / स०। ल० प्र० / विशे० / स्था० / प्रश्ने, अभ्युपगमसूचने, सम्म० 2 काण्ड। निपा-तानामनेकार्थत्वात् (प्रज्ञा० 15 पद) णमित्युपसंहारवाक्यम्। रा०!"णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा" || 8 / 3 / 107 / / इत्यनेन अमासहितस्यास्मदो णमादेशः : प्रा०३ पाद।' णं इत्यात्मनिर्देशे, नि० चू०२ उ० / णंगल-न०(लागल)"लाहल-लाङ्गल-लाले वाऽऽदेणः " // 8 // 15256 // इत्यनेन सूत्रेण आदिलस्य णत्वंवा। ईषायाम् , प्रा०१पाद। णंगलग्गाम-पुं०(लागलग्राम) स्वनामख्याते ग्रामे, यत्र वासुदेवगृहे वीरजिनः प्रतिमया स्थितः, तेन सह विहरन् गोशालो डिम्भभापनयाऽक्षिविक्रिया कुर्वन्तत्पित्रादिभिः कुट्टितो मुनिपिशाच इत्युपेक्षितः / कल्प० 6 क्षण / आ० म० / आ० चू० / णंगलिय-पुं०(लाङ्गलिक ) गलावलम्बितसवुर्णाऽऽदिमयलागल प्रतिकृतिधारिणि भट्टविशेषे, भ०६ श०३ उ० / 0 / कल्प० / औ०। णंगुल-न०(लाडूल)" लाहल-लाल-लाडूले वाऽऽदेणः " // 8! 1 / 256 / / इति सूत्रेण आदिलस्य णत्वं वा। पुच्छे, प्रा०१पाद / ज० / णंगोलिय-पुं०(लाङ्गोलिक) हिमवतः पश्चिमाया दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशित्रीणि योजनशतानिलवणसमुद्रमवगाह्योपरि दंष्ट्रायां चतुर्थेऽन्तरद्वीपे, कर्म०१ कर्म०।०जी० / स्था०। तद्वासिनि मनुष्य च। प्रज्ञा०१ पद। णंतग-न०(देशी) वस्त्र, वस्तवृक्षेषु परिहीयमाणेषु भगवता वस्त्रोत्पादनिमित्तं वस्त्रशिल्पमुत्पादितम्। आ०म०१ अ०१ खण्ड। यथा'मुहणंतगं 'मुखवस्त्रिका / आव०५ अ०। णंद-पुं०(नन्द) नन्दयति, नन्दतीति वा नन्दः / समृद्धे, ज्ञा० 1 श्रु०१ अ०।" जय जय गंदा ! जय जय भद्दा !" नन्दति समृद्धो भवतीति नन्दः / तस्य सम्बोधन हे नन्दा ! दीर्घत्वं प्राकृतत्वात् / कल्प० 5 क्षण। प्रश्न० / स्वनामख्याते राजगृहजे मणिकारश्रेष्ठिनि, स च मणिकार श्रेष्ठी राजगृहे वीरजिनान्तिके श्रावको भूत्वाऽपि मिथ्यात्वं गतः / श्रेणिकाऽऽज्ञया राजगृहस्य बहिरारोग्यशालाऽऽदिशोभितवनखण्डचतुष्कपरिवृत्तां नन्दापुष्करिणी निर्माप्य तदध्यवसायेन मृत्वा तत्रैव पुष्करिण्यां दर्दुरो जातः / ततो जातिस्मरणेन वीरसमवसरणमागच्छन् श्रेणिकाश्चकिशोरेणाऽऽक्रान्तो मृत्वा सौधर्मे कल्पे दर्दुरेऽवतंसके दर्दुरो नाम देवो जातः, ततश्युत्त्वा महाविदेहे सेत्स्यति / ज्ञा० 1 श्रु० 13 अ० / (इति ' दडुर ' शब्दे वक्ष्यते) अरिष्टनेभेः प्रथमशिष्ये श्रावके, | कल्प०७ क्षण। आ० चू०। ति०। आ० म० काशीस्थे नाविकभेदे, ती०। तद्वृत्तम्काश्या नन्दाभिधानो नाविकस्तरिपण्यजिघृक्षया मुमुक्षू धर्मरुचिं विराध्य तस्य हुङ्कारेण भस्मीभूय गृहकोकिलहंससिंहभवान् यथा-संख्यं सभामृगाङ्कतीराजनगिरिमवाप्य तस्यैवानगारस्य तेजोनिसर्गेण विपद्य चास्यामेव (काश्यां) पूर्वो बभुर्भूत्वा तत्रैव निधममधिगत्यास्यामेव राजा रामजनिष्ट जातिस्मरः सार्द्ध श्लोकमकरोत् , अन्येधुस्तत्रैवाऽऽगतं तमनगारं समस्यापूरणाद्विज्ञायाभयदानपुरस्सरमुपगत्य च क्षमयित्वा परमाऽऽर्हतोऽभूत् , सिद्धश्च धर्मरुचिः क्रमात्। सा चेयं समस्या विज्ञेया" गंगाए नाविको नंदो, सभाए घरकोइलो। हंसो मयंगतीराए, सीहो अंजणपव्वए॥१॥ बाणारसीए बभुओ, राया तत्थेव आगओ। एएसिं घायओ जाओ, सो इत्थेव समागओ॥२॥" ती० 37 कल्प। आ० क० / अ० म० / तं०। (' राग ' शब्दे उदाहरणम्) वीरमोक्षात्पञ्चाशत्तमे वर्षे जाते पाटलिपुत्रस्य महाराजे, ति०। नव नन्दा आसन्, तत्र प्रथमस्ययावदष्टमस्य वृत्तं कथाऽनुयोगादवसेयम्, अत्र नोपलभ्यते। नवमेन नन्देन चाणक्यो विप्रो यथा कर्थितो, यथा च-" कौशश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च भृत्यैश्च विवृद्धशाखम्। उत्पाट्य नन्दंपरिवर्तयामि, महाद्रुमं वायुरिवोगवेगः // 1 // इति प्रतिज्ञाऽनुसारेण नन्दमुन्मूलितवान्। आ० क० / नं० / आचा० / आ० चू०। आ० म०। आव० / (' एतच चंद-गुप्त ' शब्दे तृतीयभागे 1068 पृष्ठे दर्शितम्) (चन्द्रगुप्तस्य बिन्दुसारः, तस्य चाशोकश्रीः, तस्य कुणालः, तस्य संप्रतिमहाराज इत्येवं मौर्यवंश्यस्याशोकश्रियः श्रेणिकापरनामत्वाङ्गीकारे नन्द-वंशो वीरजिनाद् पूर्वमेव द्वितीये तृतीये वा शतके जायते इति युक्तं स्यात् , तद् न संभाव्यते, तस्मान्मौर्यादशोकश्रीनाम्नोऽशोकचन्द्रापरनामा वीरजिनसमकालीनः श्रेणिकोऽन्य इति वीरजिनमोक्षादागेव नन्दवंशो मौर्यवंशश्च पाटलिपुत्रराज्यमकार्षीत् इति प्रतिभाति) (नवानां नन्दानां कल्पकवंश्या मन्त्रिण आसन इति' कप्पअ 'शब्दे तृतीयभागे 232 पृष्ठे उक्तम् ) (नवमनन्दस्य मन्त्रितांशकटालसुतः स्थूलभद्रोऽनङ्गीकृत्य प्रवव्राजेति'थूलभद्द' शब्दे वक्ष्यते) ('नंदराय' शब्देऽनुपदमेव 1750 पृष्ठे ऽस्य संक्षिप्तवक्त-व्यता वक्ष्यामि) वीरजिनकाले ब्राह्मणग्रामे स्वनामख्याते प्रधानपुरुषे, कल्प० / ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्दभ्रातृद्वयसंबन्धिनौ द्वौ पाटको, स्वामी नन्दपाटकेप्रविष्टः, प्रतिलाभितश्च नन्देन। गोशालस्तूपनन्दगृहे पर्युषितान्नदानेन रुष्टः, यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृह दह्यतामिति शशाप। तदनु तद्गृहमासन्नदेवता ददाह। कल्प०६क्षण। आ० चू० / आ० म० / श्रेयांसजिनस्य प्रथमभिक्षादायके, आ० म० 1 अ० 1 खण्ड / स० / पाटलिपुत्रे स्वनामख्याते लुब्धवणिजि, आ० म०१ अ०२ खण्ड। (उदाहरणं' लोभ ' शब्दे वक्ष्यते)। उत्सर्पिण्यां जनिष्यमाणे प्रथमावासुदेवे, स० / नि० / नासिक्यपुरे सुन्दरीभर्तरि, नं० / वृत्तलोहासने, ज्ञा०१ श्रु०१ अ० / भ० 1 आ० म० / मुहूर्तयोगभेदे, द०प० / नन्दने, कल्प०७ क्षण / सप्तमदेवलोकस्थे विमानभेदे, सप्तमदेवलोके नन्दाऽऽद्यानि विमानानि / स० /