________________ णईसंतार 1747 - अभिधानराजेन्द्रः भाग - 4 णओवएस तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणिद्धेण वा काएण उदगतीरे चिढेजा (738) से भिक्खू वा भिक्खुणी वा उदउल्लं वा ससिणिद्धं वा कायं णो आमज्जेज वा, पमज्जेज वा, संलिहेज वा, णिल्लिहेज वा, उव्वलेज वा, उव्वट्टेज वा, आयावेजवा, पयावेज वा। अह पुण एवं जाणेज्जा-विगतोदए मे काए वोच्छिण्णसिणेहे तहप्पगारं कायं आमजेज वा० जाव पयावेज वा, तओ संजयामेव गामाणुगामं दूइजेजा। (736) ' से ' इत्यादि। स भिक्षुरुदके प्लवमानो हस्ताऽऽदिक हस्ताऽऽ-दिना नाऽऽसादयेद् न संस्पृशेत् , अपकायाऽऽदिसंरक्षणार्थमिति भावः / ततस्तथा कुर्वन् संयत एवोदकं प्लवेदिति / तथा' से ' इत्यादि / स भिक्षुरुदकेप्लवमानो मन्जनोन्मजनेनो विदध्यादिति सुगममिति। किश्व' से ' इत्यादि। स भिक्षुरुदके प्लवमानो दौर्बल्यात् श्रमं प्राप्नुयात्ततः क्षिप्रमेवोपधिं त्यजेत् , तद्देश वा विशोधयेत्त्यजेदिति नैवोपधावाशक्तो भवेत् / अथ पुनरेवं जानीयात्-(पारए सिय त्ति) समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय, ततस्तस्मादुदकाददुत्तीर्णः स संयत एवोदकाऽऽद्रेण गलद्विन्दुना कायेन सस्निग्धेन वा उदकतीरे तिष्ठेत् तत्र चेर्यापथिकां च प्रतिक्रामेन्न चैतत् कुर्यात् / आचा०२ श्रु०१चू०३ अ० २उ० णउ-अव्य०(ननु) असूयायाम् , आव०५०। णउअ-न०[नि(न्य)युत] चतुरशीतिलक्षगुणिते नियुताङ्गे, स्था० 2 टा० 4 उ० / जी० / अनु० / भ०।। णउअंग-न०[ नि(न्य)युताङ्ग] चतुरशीतिलक्षगुणिते प्रयुते, अनु०॥ स्था० / जी०। णउल-पुं०(नकुल) वभौ, उपा० 2 अ०। सूत्र / नेवला ' इति ख्याते जीवे, प्रज्ञा० 1 पद / माद्रीजाते पाण्डुराजपुत्रे, ज्ञा० 1 श्रु०१६ अ०। वाद्यभेदे, आ० चू०१ अ० / रा० / (नकुलोदाहरणम् "अणणुओग" शब्दे प्रथमभागे 287 पृष्ठे द्रष्टव्यम्) णउलय-पुं०(नकुलक)'नौली ' इतिख्याते रूप्यकभरणवस्त्रे,बृ० 4 उ०। णउली-स्त्री०[ न(ना)कुली] सर्पविद्याप्रतिपक्षभूतायां विद्याया-म् , विशे० / जी० / कल्प० / आ० म०1 आ० क०। ती०। णओवएस-पुं०(नयोपदेश) जिनप्रवचने, सर्व वस्त्वनन्तधर्माऽऽत्मकतया संकीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनापि तथैव भवितव्यमित्यसंकीर्णप्रतिनियतधर्मप्रकारकव्यवहारसिद्धये समर्थानां नयाना व्युत्पादने, तदर्थगर्म ग्रन्थेच।नयो०। तद्विषयश्च यशोविजयकृतनयामृततरङ्गिणीनाम्न्या नयोपदेशटीकायां दर्शितो यथा" नयोपदेशटीकेयं, नयामृततरङ्गिणी। सेव्यताममृतप्राप्त्य, मिथ्यात्वविषतापहृत्॥१॥ सबलविषयसन्निविष्टधर्मव्यतिकरसङ्करशङ्कयाऽऽविलानाम्। जयति भगवतो नयोपदेशः, पटुरखिलाङ्गभृतां हितं विधातुम् // 2 // इह खलु न हि नः स्मयो न रोषो, न च परबुद्धिपराभवाभिलाषः। अपि तु पितुरिव प्रजाहितस्य, प्रथमगुरोर्वचनाऽऽदरो निमित्तम् / / 3 / / न च नयवचनेषु पक्षपातः, क्वचन समाकलितप्रमाण दृष्टः / / अभिमतविषये हि गोपनीयाअनभिमते यदमी विगोपनीयाः // 4 // व्रजति फलवति प्रमाणवाक्ये, नयवचनं बहुरूपभङ्गभावम् / तदिह विविधभङ्गजालयुक्तं, छलवदिदं न विशङ्कनीयमार्यैः // 5 // प्रथम इह लौकिकोऽर्थबोधस्तदनु नयात्मक एव मध्यमः स्यात्। तदुपरि परितः प्रसर्पिभङ्गव्यतिकरसंवलितः प्रमाणबोधः // 6 // श्रुतमय उदितः किलाऽऽद्यबोधोऽमतहतकृन्नयचिन्तया द्वितीयः। कुमतमदहरः परस्तृतीयः, सकलजगद्धितकाम्यया पवित्रः // 7 // त्रयमिदमधिकृत्य लोकलोकोत्तरपयभङ्गभयं ननाश यस्मात् / गुरुमत इव चोपपत्तिकार्थे, न हि परिपन्थि विरम्य बोधकत्वम् // 8 // अपि च नियतकृतस्वजन्यबोधाविषमधियो विरहोऽत्र शाब्दबोधे / सनियतमनुयायि तत्परत्वं, तदिह मतस्तदतज्ज्ञबोधभेदः / / 6 / / न च शुकवचनादतत्परादप्यधिगमदर्शनतः प्रतीपमेतत् / श्रुतमयमपहाय बोधियुग्मे, यदिह न तत्परताधियोऽनपेक्षाः // 10 // वक्तुस्तात्पर्यभज्ञात्वा-ऽप्येतदुन्नीय वास्तवम्। प्रामाण्यमप्रमाणेऽपि, वाक्ये सम्यग्दृशां मतम् / / 11 / / सम्यकश्रुतस्य मिथ्यात्वं, मिथ्यादृष्टिपरिग्रहात्। मिथ्या श्रुतस्य सम्यक्त्वं, सम्यग्दृष्टिग्रहादतः // 12 // लौकिकान्यपि वाक्यानि, प्रमाणानि श्रुतार्थतः / तात्पर्यार्थे प्रमाण त्, सप्तभङ्गाऽऽत्मकं वचः / / 13 // ना प्रमाणं प्रमाण वा, स्वतः किं त्वर्थतः श्रतम।। इति यत् कल्पभाष्योक्तं, तदित्थमुपपद्यते / / 14 / / तात्पर्य खल्वपेक्षानय इति च समं स्थापितं शास्त्रगर्भ, तत्कल्लोलैर्विचित्रैः समयजलनिधौ जायते चिद्विवर्त्तः / यत् त्वेकं निस्तरङ्ग परमसुखमयं ब्रह्म सर्वातिशायि, स्थायि ज्ञानस्वभावं तदिह दहतु बोऽनल्पसंकल्पजातम् / / 15 // निक्षेपा वा नया वा तदुभयजनिताः सप्तभङ्गाऽऽत्मका वा, शृङ्गाराः सार्ववाचः परगुणरचनाजातरोचिष्णुभावाः / यस्याग्रे भान्ति किञ्चिन्न निरुपधिचिदुबुद्धशुद्धस्वभावात् , तद्रूपं स्वीयमुच्चैः प्रकटय भगवन् ! बाढमात्मन् ! प्रसीद // 16|| इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्री