________________ णईसंतार 1741 - अभिधानराजेन्द्रः भाग - 4 णईसंतार तस्सऽसति अणकंते, निरचएणं तु गंतव्वं / / 741 // उपलजले कर्दमो न भवति, स्थिरसंहननं च तद् भवति, अतः पूर्व तेनाऽऽक्रान्ते निरत्ययेन क्षुण्णनिष्प्रत्यपायेन गन्तव्यम् / तख्याभावे अनाक्रान्ते निरत्ययेनापि गन्तव्यम्। एमेव सेसएसु वि, सिगतजलादीहिँहोंति संजोगा। पंकमहुसित्तलत्तग-खलद्धजंधा य जंघा य।। 742 / / उपलाद् बालुका अल्पसंहनना, तत उपलजलाभावे बालुकाजलेन / गन्तव्यम् / बालुकायाः शुद्धा पृथिवी स्वल्पतरसंहनना, ततो बालुकाजलानन्तरं शुद्धोदकेन गम्यते, तेष्वपि सिकताजला दि, शेषपदेषु एवमेव प्राग्वदाक्रान्तानाक्रान्ताऽऽदयः संयोगा भवन्ति / पङ्कजलं बहुप्रत्यपायमतः सर्वेषामुपलजलाऽऽदीनामभावे तेन गम्यते। स च यो मधुसिक्ताऽऽकृतिक्रमतलयोरेव केवलं लगति, यो वा अलक्तकमात्रस्तेन पूर्व गम्यते, पश्चात् खलुकमात्रेण, पश्चादर्द्धजङ्घामात्रेण, ततो जसामात्रेणापि, जानुप्रमाणेनेत्यर्थः / यस्तु जानुप्रमाणादुपरि पङ्कस्तेन न गन्तव्यम्। यत आहअद्धोरुगमित्तातो, जो खलु उवरिंतु कद्दमो होति। कंटादिजढो विय सो, अत्थाहजलं व सावायं / / 743 / / अोरुकमात्राद् जानुप्रमाणादुपरि यः कर्दमो भवति, स कण्टकाऽऽद्यपायवर्जितोऽप्यस्ताघजलमिव गन्तुमशक्यत्वात् सापायो मन्तव्यः / एष विधिः सर्वोऽपि सचित्तपृथिव्यामुक्तः। अथाचित्तपृथिव्यां तमेवाऽऽहजत्थ अचित्ता पुढवी, तहियं आउतरुजीवसंजोगो। जोणिपरितथीरेहि य, अक्कंतणिरचएहिं च / / 744 / / यत्र पृथिवी अचित्ता तत्राप्कायजीवानां तरुजीवानां च संयोगाः कर्तव्याः / तद्यथा-पृथिवी सर्वत्राप्यचित्ता किमप्कायेन गच्छतु, किं वा वनस्पतिना ? उच्यते-अप्काये नियमाद्वनस्पतिरस्ति, तस्मात्तेन / मागात् / वनस्पतिना गच्छन् तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निरत्ययेन निष्प्रत्यपायेन। अत्र षोडश भङ्गाः / तद्यथाप्रत्येकयोनिकः स्थिर आक्रान्तो निष्प्रत्यपायः / एष प्रथमो भङ्गः। सप्रत्यपायेन द्वितीयः / अनाक्रान्तेऽप्येवमेव द्वौ विकल्पौ। एंव स्थिरे चत्वारो विकल्पा लब्धाः / अस्थिरेऽप्येवं चत्वारः / एते प्रत्येकयोनिकेनाष्टौ भगा लब्धाः / अनन्तयोनिकेऽप्येवमेवाष्टौ लभ्यन्ते / एवं सर्वसंख्यया वनस्पतिकाये परीत्ताऽऽदिभिः पदैः षोडश भङ्गा भवन्ति। अथाप्कायस्य, सानां च संयोगानाहएमेव य संजोगा, उदगस्स चउविहेहि तु तसेहिं। अक्कंतथिरसरीरे, णिरचएहिं तु गंतव्वं / / 745 // चतुर्विधास्त्रसा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति / एतैश्चतुर्विधैरपि त्रसैराक्रान्ताऽऽदिभिः पदैरेवमेव उदकेन सह संयोगाः कार्याः / तद्यथा-आक्रान्ताः स्थिराः सप्रत्यपायाः। एवं त्रिभिः पदैरष्टौ भङ्गा भवन्ति / एते च द्वीन्द्रियाऽऽदिषु चतुर्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते, जाता भड़कानां द्वात्रिंशत्। अथ सान्तरनिरन्तर विकल्पविवक्षा क्रियते, ततश्चतुःषष्टिसंयोगा उत्तिष्ठन्ते / अत्र चाऽऽक्रान्तस्थिरनिरत्ययैः सान्तरैस्त्रसैर्गन्तव्यम् . नाप्काये नावा तेऊवाउविहूणा, एवं सेसा विसव्वसंजोगा। उदगस्स उ कायव्वा, जेणऽहिगारो इहं उदए / / 746 // तेजोवायुकाययोर्गमनं न संभवतीति कृत्वा तेजोवायुविहीनाः / एवं शेषा अपि संयोगाः सर्वेऽपि कर्तव्याः। तत्राप्कायस्य वनस्पतिना त्रसैश्च सह भङ्गका उक्ताः / (बृ०) " अंतो मासस्स दुक्खुत्तो वा " इत्यादिसूत्रं व्याख्यातिएरवइ जत्थ चक्किय, तारिसए ण उवहम्मती खेत्तं / पडिसिद्ध उत्तरणं, अण्णासति खेत्तऽणुण्णातं॥७४७॥ या ऐरावती नदी कुणालाजनपदे योजनार्द्ध विस्तीर्ण जडार्द्धजानुमुदक वहति, तस्यां केचित्प्रदेशाः शुष्काः, न तत्रोदकमस्ति / तामुत्तीर्य यदि भिक्षाचर्या गम्यते, तदा ऋतुबद्धे तु ये उदकसंघट्टाः, ते च गताऽऽगतेन षड् भवन्ति। वर्षासुसप्त दकसंघट्टाः, तेच गता-5ऽगतेन चतुर्दश भवन्ति / एवमीदृशे संघट्टप्रमाणे क्षेत्र नोपहन्यते / इत एकेनाप्यधिके संघट्टे उपहन्यते / अन्यतोऽन्यत्रापि यत्राधिकतरसंघट्टाः, तत्रोत्तरण प्रतिषिद्धम् / पूणे मासकल्पे, वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यं क्षेत्रमस्ति, ततो नोत्तरणीयम्। अथानुत्तीर्णानामन्यत् क्षेत्रं नास्ति, ततः असति क्षेत्रे उत्तरणमनुज्ञातम्। इदमेव व्याचष्टेसत्त उवासासु भवे, दगघट्टा तिण्णि होंति उडबद्धे। जे तु ण हणंति खेत्तं, भिक्खायरियं च ण हणंति / / 758 / / सप्तोदकसंघट्टाः वर्षासु, त्रयः संघट्टा ऋतुबद्धे भवन्ति / ये एतावन्तं क्षेत्र नोपनिन्ति, न वा भिक्षाचर्यामुपघ्नन्ति। जह कारणम्मि पुन्ने, अंतो तह कारणम्मि असिवाऽऽदी। उवहिस्स गहणलिंपण-नावोदगतं वि जतणाए।। 746 / / यथा कारणे पूर्णे मासकल्पे, वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरण, तथा मासस्यान्तरेऽप्यशिवाऽऽदिभिः कारणैः, उपधेर्वा ग्रहणार्थ, लेपस्याऽनयनार्थ चोत्तरणीयम् , कारणे यत्र नावाऽप्युदकं तार्यते, तत्रापि यतनया संतरणीयम्। तत्र चाय विधिःनावथललेवहिट्ठा, लेवो वा उवरि एव लेवस्स। दोण्हादिवड्डमेगं, अद्धं णावाऐं परिहाती।। 750 // तत्र पूर्वार्द्धपश्चाद्धपदानां यथासंख्येन योजना। नावुत्तरणस्थानाद्यदि द्वेयोजने वक्रस्थलेन गम्यते, तेनगन्तव्यं, नचनौरारोढव्या। (लेवहिट्ठ त्ति) लेपस्याधस्ताद् दकसंघट्टेन यदि सार्द्धयोजनपरिरयेण गम्यते, ततस्तत्र गम्यता, न च नावमधिरोहेत्। एवं योजनपरिहारेण लेपेन गच्छतु, नचनावमधिराहेत्। अर्द्धयोजनपरि-हारेण स्थलेन एकयोजनपरिरयेण संघट्टेन अर्द्धयोजनपरिहारेण वा लेपेन गम्यताम् , न च लेपोपरिणा। लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेनाद्धयोजनपरिहारेण वा संघट्टेन गन्तव्यं, न लेपेन / संघट्टोत्तरणस्थानादड़योजनपरिहारेण स्थलेन गम्यता, न च संघटेन / एतेषां परिहरमाणानामभावे नावा लेपोपरिणा लेपेन संघटन वा गम्यतेः, न कश्चिद्घोषः। अत्र' नावथल त्ति पदं व्याचष्टेदो जोयणाई गंतुं, जहियं गम्मति थलेण तेण वए।