SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ णईसंतार 1740 - अभिधानराजेन्द्रः भाग - 4 णईसंतार पनुयात् , तत्र नो कल्पते अन्तर्मासस्य द्विःकृत्वो वा त्रिःकृत्यो वा उत्तरीतुं वा संतरीतुं वा / इति सूत्रार्थः। अथ भाष्यकृद्विषमपदानि व्याचष्टेएरवइ जण्हि चक्किय, जलथलकरणे इमं तु णाणत्तं / एगो जलम्मि एगो, थलम्मि इहइं थलागासं // 732 / / ऐरावती नाम यत्र, नदी तस्यां जलस्थलयोः पादकरणेनोत्तरीतुं शक्यम् / इदमेव चात्र नानात्व, यत्सर्वसूत्रोक्तासु महानदीसुमासान्ता: त्रीन्वारान न कल्पते। यद्यात्रैको जले, एकश्च पादः स्थले इत्युक्त, तदिह स्थलमाकाशमुच्यते। एरवइ कुणालाए, वित्थिन्ना अद्धजोयणं वहति। कप्पति तत्थ अपुण्णे, गंतुं जा एरिसी अण्णा / / 733 / / ऐरावती नदी कुणालानगर्या अदूरे अर्द्धयोजनविस्तीर्णा वहति / सा चोद्वेधेन च जङ्घार्द्धप्रमाणा, तत्र ऋतुबद्ध काले मासकल्पे अपूर्णे, त्रिःकत्यो भिक्षाग्रहणलेपाऽऽनयनाऽऽदौ कार्ये यतनया गन्तं कल्पते,या चेदृशी अन्याऽपि नदी, तस्यामपि त्रिःकृत्वो गन्तुं कल्पते / कृता विषमपदव्याख्या भाष्यकृता। सम्प्रति नियुक्तिविस्तरःसंकमथले य णो-थल पासाणजले य वालुगजले य। सुद्धदगें पंकमीसे, परित्तऽणते तसा चेव / / 734 / / नदीमुत्तरतस्तु ये पन्थानः / तद्यथा-संक्रमस्थलं, नो स्थलं च तत्र यदेकानिकाऽऽदिना संक्रमेण गम्यते तत संक्रमस्थलं. नद्या कपरण वरणेन वा यद् नदीजलं परिहृत्य गम्यते / नोस्थलं चतुर्विधम्पाषाणजलं, वालुकाजलं. शुद्धोदकं, पङ्कमिश्रजलम् / एतेषु चतुर्ध्वपि गच्छतां यथासंभवं परीत्तानन्तकायास्त्रसाश्व विराधनां प्राप्नुवन्ति / तथाउदए चिक्खिल्लपरि-त्तऽणंतकाइगतसे य मीसे य। अकंतमणकते, संजोए होति अप्पबहुं / / 735 / / उदके चिक्खिल्लाऽऽदिकः पृथिवीकायो, वनस्पतयश्व परीत्तकायिकाः, अनन्तकायिका वा, साश्च द्वीन्द्रियाऽऽदयो भवेयुः / एते च सर्वेऽपि यथासंभवं मिश्राः सचित्ता अचित्ता वा, आक्रान्ता अनाक्रान्ता वा, स्थिराः अस्थिरावा, सप्रत्यपाया निष्प्रत्यपाया वा भवेयुः / एतेषु बहवः संयोगा उपयुज्य वक्तव्याः / तेषु यत्राल्पबहुत्वं भवति, अल्पतरसंयमाऽऽत्मविराधनादोषाः, बहवश्च गुणा भवन्ती-त्यर्थः / तत्र कारणे समुत्पन्ने गन्तव्यम्। यत्रच संक्रमो भवति, तत्रामी भङ्गविकल्पा भवेयु:एगंगिचलत्थिरपारि-साडिसालंबवजिए सभए। पडिवक्खेसु तु गमणं, तजातितरे य संडेवा / / 736 / / संक्रमः एकाङ्गिको वा स्याद् , अनेकाङ्गिको वा / एकाङ्गिको य एकेन फलकाऽऽदिना कृतः / अनेकाङ्गिको योऽनेकफलकाऽऽदिनिर्मितः / अत्रैकानिकेन गन्तव्यम्, न अनेकानिकेन / एवं स्थिरेण, न च चलेन। अपरिशाटिना, नो परिशाटिना। सालम्बेन गन्तव्यं, न वर्जितेन : निरालम्बेनेत्यर्थः। सालम्बोऽपि द्विधाएकतःसालम्बः, द्विधा सालम्बश्च / पूर्व द्विधा सालम्बेन, तत एकतः सालम्बेनापि। तथा निर्भयेन गन्तव्यं, न | सभयेन / अत एवाऽऽह-(पडिव-क्खेसु य गमणं ति) अनेकाङ्गिकचलपरिशाटिनिरालम्बसभयाऽऽख्यानां पञ्चानां पदाना, ये एकाङ्गिकाऽऽदयः प्रतिपक्षाः, तेषु गमनं कर्तव्यम् / अत्र पञ्चभिः पदैात्रिंशद्भङ्गाः / एकाङ्गिकः, स्थिरोऽपरिशाटी, सालम्बो, निर्भय इत्यादि / एषु प्रथमो भङ्गः शुद्धः, शेषा अशुद्धाः / तेष्वपि बहुगुणतरेषु गमनं,यतना च कर्तव्या। सण्डेवका अपि संक्रमभेदा एव। उद्यानकाः, इतरेवा अनुद्यानकाः सण्डवका भवेयुः। अत आह-तत्रैव जातास्तज्जाताः, शिलाऽऽदयः / अन्यतः स्थानादानीय स्थापिता अतजाताः, इहालकाऽऽदयः / तेष्वपि चलाचलाऽऽक्रान्तानाक्रान्ताऽऽदयो भेदाः कर्तव्याः। उक्तः सक्रमः। अथ स्थलमाहनदिकोप्परवरणेण व, थलमुदयं णोथलं तु तं चउहा। उवलजलवालुगजलं, सुद्धमहीपंकमुदगं च / / 737 // नद्या आकुण्टितकूर्पराऽऽकारजलेन नदीकूर्परमुच्यते / जलोपरि कपाटानि मुक्त्वा पालिबन्धः क्रियते, स वरण उच्यते। एताभ्यां यदुदकं परिहत्य गम्यते, तत् स्थल द्रष्टव्यम् / अथ नोस्थलं, तचतुर्विधम् / उपलजलम्-अधः पाषाणाः, उपरि जलम् / वालुकाजलम्-अधो वालुकाः, उपरि पानीयं च / शुद्धोदकम्-अधः शुद्धा मही, उपरिजलम् / पड़ोदकम्-अधः कर्दम उपरिजलम्। पकोदकस्य चामूनि विधानानिलत्तमपहे य खलुए, तहऽद्धजंघाएँ जाणुउवरिं च / लेवो य लेवउवरिं, अकंतादी उ संजोगा / / 738 / / यावन्मात्रमलतेनेव पादो रज्यते, तावन्मात्रो यत्र पथि कर्दमः स लक्तकपथः / खलुकमात्रः पादधुण्टकप्रमाणः, अर्धजङ्घामात्रो जजार्द्ध यावद्भवति,जानूपरिजानुमात्र यावद्भवति, लेपो नाभिप्रमाणः, तत ऊर्द्ध सर्वोऽपि लेपोपरि। एते सर्वेऽपि कर्दमप्रकाराश्चतुर्विधे नोस्थले कर्दमे च, आक्रान्तानाक्रान्तसमयनिर्भयाऽऽदयः संयोगा यथासंभवं वक्तव्याः / सदोषः पन्थाः। अमुना दोषेण युक्तः पन्थाः परिहर्तव्यःजो वि पहो अक्कतो, हरियादितसेहिँचेव परिहीणो। तेण वितु ण गंतव्वं, जत्थ अवाया इमे होति / / 736 / / योऽपिचपन्था आक्रान्तो दरमलितो, हरिताऽऽदिभिरत्रसैश्च परि-हीणो भवति, ततोऽपि न गन्तव्यम् , यत्रामी अपाया भवन्ति। गिरिनदि पुण्णा बाला-हिकंटगा दूरपारमावत्ता। चिक्खिल्लकल्लुगाणि य, गारा सेवाल उवला य / / 740 / / यथ पथि गिरिनदी पूर्णा तीव्रवेगा वहति। मकराऽऽदयो व्याला अहयो वा यत्र जलमध्ये भवन्ति, कण्टका वाऽऽपूरेणाऽऽनीताः, दूरपारम् , आवर्तबहुलं वा जलं भवेत्। चिक्खिल्लो वा नदीषु तद्देशो-यत्र पादौ निमज्जति, कल्लुकाः, गाथायां नपुंसकत्वं प्राकृतत्वात् / पाषाणेषु द्वीन्द्रियजातिविशेषा भवन्ति, ते पादौ छेदयन्ति। गाराः पाषाणशङ्गिकाः, सेवालः प्रसिद्धः, उपलाः छिन्नपाषाणाः। एभिरपायैर्वर्जितेन पूर्व स्थलेन गन्तव्यम् , तदभावे संक्रमेण, तदभावे नोस्थलेनापि / तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम्उवलजलेण तु पुव्वं, अक्कतें निरचएण गंतव्वं /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy