________________ 1738 - अभिधानराजेन्द्रः भाग-४ णईसंतार मशीलमिति / अनु० / दुःशब्दार्थे,यथा अशीलाः, दुःशीला इत्यर्थः / स्था०३ ठा० 3 उ० / अल्पार्थे, यथाऽयं पुमानज्ञः, स्वल्पज्ञान इत्यर्थः / आचा०१ श्रु०६अ०६ उ०॥ णइ-अव्य०(णइ) अवधारणे,"णइ चेअ चिअब अवधारणे "||8| 2 / 184 / / इत्यवधारणे जइ इति प्रयोगः। 'गइ' प्रा०२ पाद। *नति-स्त्री० / नमने, नम्रीभवने, वाच०। णग्गाम-पुं०(नदीग्राम)" समासे वा"||२७॥ इति समासे द्वित्वं वा, द्वित्वे ह्रस्वः। नदीतटस्थे ग्रामे, प्रा०२ पाद। णइसोत्त-न०(नदीस्रोतस्)" दीर्घहस्वौ मिथो वृत्तौ " // 1 // // इति दीर्धकारस्य वा हस्वः। नद्याः प्रवाहे, प्रा०१ पाद। णइसंतार-पुं०(नदीसन्तार) 'णईसंतार' शब्दार्थे, जीत०। णई-स्त्री०(नदी) सरिति, सूत्र० 2 श्रु० 1 अ० 5 उ० / उत्त० / ज्ञान सलिलायाम् , भ०६ श०२ उ०। प्रश्न / गङ्गा नदी षष्टारके रथपथप्रमाणा भविष्यति, न वा, चेद्भविष्यति, तदाऽन्याश्चतुर्दशसहसमिता नद्यः क्व यास्यन्तीति प्रश्ने ? उत्तरम्-गड़ा यथोक्त-प्रमाणा भविष्यति, अन्यास्तु चतुर्दशसहसमिता नद्यः पृथिव्या भूयस्तरतापवत्त्वेन शोषं यास्यन्तीति जम्बूद्वीपप्रज्ञप्तिवृत्ताविति। 67 प्र० सेन०१ उल्ला०। तथा जम्बूद्वीपमध्ये चतुर्दशलक्षषट् पञ्चाशत्सहस्राश्चेन्ततस्तदा महाविदेहमध्यविजयविभेदविधात्र्यः षट् नद्योऽन्याः प्रतिवैताढ्यमध्यगोन्मग्ना निमग्नाभिधाना नद्यश्च संख्यामध्ये कथं नागताः ? इति प्रश्ने, उत्तरम्-पूर्वाचार्याणां विवक्षैव प्रमाणं, जम्बूद्वीपसंग्रहणीकारेण तु साधिकसप्तदशलक्षमिता नद्यो जम्बूद्वीपमध्ये संकलिताः सन्तीति।६८ प्र०। सेन० प्र०१ उल्ला०1 (सलिला महानद्योऽन्तरनद्यश्च" जंबूद्वीव " शब्दे चतुर्थभागे 1375 पृष्ठे उक्ताः) (गङ्गासिन्ध्वोर्वक्तव्यता स्वस्वस्थाने) णईकच्छ -पुं०(नदीकच्छ) नदीगहने, ज्ञा० 1 श्रु०१ अ०। जईगाम-(नदीग्राम) ' णइग्गाम शब्दार्थे, प्रा० 2 पाद। णईजल-न०(नदीजल) सामान्यनदीजले, गङ्गानदीजलं यथा लवणाब्धौ विश्राम्यति तथा मानुषोत्तरपर्वतसंमुखविनिर्गतनदीजलमपि कुत्र विश्राम्यतीति प्रश्ने ? उत्तरम्-मानुषोत्तराभिमुखनिर्गतनदीजलं पुष्करवरसमुद्रे विश्राम्यतीति स्थानाऽऽदावस्तीति। 264 प्र० / सेन० प्र०३ उल्ला। णईपमुह-त्रि०(नदीप्रमुख) नदीहृदाऽऽदिके, प्रव०८२ द्वार। णईमासय-न०(देशी) जलोद्भवे, दे० ना० 4 वर्ग। णईसंतार-पुं०(नदीसन्तार) नद्युत्तरणे, नदीसन्तारश्चतुर्धाजला- | दघ्नोदकः, संघट्टस्तदूर्ध्व नाभिद्वयसोदकः, लेपस्तदूर्ध्वजलो, लेपोपरि बाहुभ्यामुडुपैर्वा चतुर्थः / चतुर्वत्र प्रायः कायोत्सर्गः / जीत०। जलोत्तरणप्रकाराःजंघातारिम कत्थइ, कत्थइ बाहाहि अप्प ण तरेजा। कुंभे दतिए तुंबे, णावा उड्डुवे य पण्णी य॥ 161 // समासतो जलसंतरणदुविह-थाह, अथाह च।जंथाहं तं तिविहं संघट्टो, लेवो, लेवोवरियं च। एयं तिविहं विजंघासंतारिमग्गहणेण गहिय। (कत्थइ त्ति) क्वचिन्नद्यादिषु ईदृशं भवतीत्यर्थः। वितियं (कत्थइ त्ति) क्वचिन्नद्यादिषु अत्थाहं भवतीत्यर्थः / एत्थ य बाहाहिं अप्पणा णो तरेज्जा, हस्ताऽऽदिप्रक्षेपे बहूदकोपघातत्वात् / जलभाविएहिं इमेहिं संतरणं कायव्वं-कुंभेण, तदभावा दत्तिएण, तदभावा तुंबेण, तदभावा उडपेण, तदभावा पण्णीए, तदभावा णावाए। बंधऽणुलोमा मज्झे णावागहणं कतं / एत्तो एगतरेणं, तरियव्यं कारणम्मि जातम्मि। एतेसिँ विवचासे, चातुम्मासा भवे लहुया / / 162 // गाहा कंठा। णवरं (विवच्चासे त्ति) सति कुंभस्स दत्तिएण तरति तो चउलहुयं / एवं एक्केक्कस्स विवचासे चउलहुयं दट्टत्वं / सव्वते कुंभाती इमाए जयणाएघेत्तव्वा। णावं पुण अहिकिस भण्णतिणवाऽणवे विभासा तु, भाविताऽभाविते त्तिय। दगडण्णभाविए चेव, उल्लाऽणोल्ल य मग्गणा / / 163|| साणावा अहाकडेण य जाति, संजयट्टा वा अहाकडाए गंतव्वं / असति अहाकडाए संजयट्ठाए विजा जाति,ताए विगंतव्वं। सादुविहा-(णवाऽणवे विभास त्ति) णवा, पुराणा वा / णवाए गंतव्वं, न पुराणाए, सप्रत्यपायत्वात् / णवा दुविहा-(भावियाऽभाविय त्ति) उदगभाविता, अभावितायाजा उदगे छूढपुव्वा, सा उदगभावि-या। इतरा अभाविया / भावियाए गंतवं, ण इतराए / मा उदगशस्त्रं भविष्यतीति कृत्वा / तदुदयभाविया दुविहा-(उल्लाऽणोल्ल त्ति) मग्गणा उल्ला तिता, अणोल्ला सुल्ला। उल्लाए गंतव्वं, ण इयरीए, दगाकर्षणभयात्। (मग्गणे त्ति) एषा एव मार्गणा, याऽभिहिता, एरिसणावाए पुण गच्छति। नि० चू० 130 / (चत्वारो नौसंतरणप्रकाराः 'णावा 'शब्दे वक्ष्यन्ते) महार्णवसूत्रम्नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महण्णवाओ महानदीओ उद्दिट्ठाओगणियाओ वंजियाओ अंतोमासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा / तं जहा-गंगा, जउणा, सरऊ, कोसिया, मही। नो कल्पन्ते न युज्यन्ते / सूत्रे एकवचननिर्देशः प्राकृतत्वात् / निर्ग्रन्थानाम् , इमाः प्रत्यासन्नाः पञ्च महार्णवा बहूदकतया महासमुद्रगामिन्यो महानद्यो गुरुनिम्नगा उद्दिष्टाः सामान्येनाभिहिताः,यथा महानद्य इति / गणिता यथा पञ्चेति / व्यजिता व्यक्तीकृता यथा गङ्गेत्यादि / अन्तर्मध्ये मासस्य द्विःकृत्त्वो वा त्रिःकृत्वो वा उत्तरीतुं बाहुजनाऽऽदिना, संतरीतुं नावादिना / तद्यथा-गङ्गा 1 यमुना 2 सरयू 3 कौशिकी 4 मही५ / एष सूत्रार्थः। ___ अथ भाष्यकारः कानिचिद्विषमपदानि विवृणोतिइमाओं त्ति सुत्तउत्ता, उद्दिट्ठ नदीउ गणिय पंचेव। गंगादि वंजिताओ, बहुउदगा महण्णवाओ तु / / 714 / / (इमा इति) प्रत्यक्षवाचिना सर्वनाम्ना सूत्रोक्ता उच्यन्ते / उद्दिष्टा नद्य इति / गणिताः पोति / व्यञ्जिता गङ्गाऽऽदिपदै