SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 1737 - अमिधानराजेन्द्रः भाग - 4 णकार ण-पुं०(ण)'ण' इति टवर्गस्य पञ्चमो वर्णो मूर्धन्यः। संस्कृते णेत्येकाक्षरभिन्ना णकाराऽऽदयः शब्दा न सन्ति / ये चोपदेशे ' ण-म 'प्रह्वत्वे, शब्दे च, इत्यादयो धातवः पठ्यन्ते, तेषामपि" णोः नः " // 6 // 1 // 65 / / (पाणि०) इति नत्वेन नमतीत्यादीनि नकाराऽऽदीन्येव रूपाणि भवन्ति। प्राकृते तु नकाराऽऽदयोऽपि नद्यादयः शब्दाः " नो णः " // 8 / 1 / 228 // इति णत्वे कृते णकाराऽऽदितां वजन्तीति, अस्माभिनिवेशिष्यमाणा णाऽऽदयः शब्दा नादयोऽपि शुद्धा एवेत्यभ्यूह्यम्।' णख ' गतौ डः। पृषो०- णत्वम्। विन्दुदेवे, भूषणे, गुणबर्जिते, जलस्थाने, निर्णये, ज्ञाने च। वाच०। निर्गुणे, जये, योग्ये, दुष्टे, क्रोडे, तस्करे, पशुपुच्छे च / एका०। "णो निर्गुणे जये योग्ये, दुष्ट क्रोडे च तस्करे। पशुपुच्छे श्रियां णा स्त्री, बृहन्माने च णः पुमान्॥५८॥ संप्रत्यये तथा स्वार्थे, णः कोणे चैकचक्षुषि। क्षीरे रणे धने ध्याने, णीः पुमान् णीर्णियौ णियः / / 56 / / समे स्वरे चये तारे, चरणे णिश्चोभयात्मकः।" इति विश्वदेवशम्भुमुनिः। एका०। अन्यच"त्रिलिङ्गयां निर्गुणे गूढे, सौम्ये सव्यापसव्ययोः। णशब्दः कङ्कटे रागे, भेरावग्नौ ध्वजे पुमान्॥३६॥ णा तु स्त्री रजनीशय्या-धेनुनासाकृपास्वपि। ण सरोजजले ज्ञाने, गमने चरणे रणे // 40 // शब्दस्त्रिषु लिङ्गेषु, भवेद्णस्तुषवस्तुनि " // इतिमाधवः / एका०। *न-अव्य०।' नह' बन्धने कः / प्रतिषेधे, नि० चू०१ उ० नम्शब्दवन्नशब्दोऽप्यस्ति; अत एव न एकं नैकं, नायं न, किन्तु न इति; अन्यथा न लोपः स्यादिति। आ० म०१ अ०२ खण्ड। नि० चू० / तत्र क्रियायोगे अभावे, तद्भिन्नयोगे तुभेदे," नकारो संजोगमाइसुपडिसेहे। " नकारः पुनः संयोगाऽऽदिषु संयोगसमवायसामान्यविशेषचतुष्टये प्रतिषेधं करोति। अत्रोदाहरणम्अथ संयोगाऽऽदिविषयं नकारप्रतिषेधं भावयतिसंजोगे समवाए, सामन्ने खलु तहा विसेसे अ। कालतिए पडिसेहो, जत्थुवओगो नकारस्स / / 622 / / संयोगे, समवाये, सामान्ये, विशेषे चेति चतुर्दा प्रतिषेधो नकारस्य भवति। स च प्रत्येकमतीतानागतवर्तमानलक्षणकालत्रिकविषयत्वादेकै कः त्रिविध इति सर्वसंख्यया द्वादशविधो नकारप्रतिषेधः / यत्र च क्वापि नकारस्योपयोगो भवति तत्रामीषां द्वादशानां भेदानामन्यतमः प्रतिषेधः प्रतिपत्तव्य इति। अथ संयोगाऽऽदिषु यथाक्रमं प्रतिषेधमुदाहरति नत्थियरे जिणदत्तो, पुव्वपसिद्धाण तेसि दोण्हं पि। संजोगो पडिसिज्झइ, न सव्वसो तेसिँअत्थित्तं / / 523 // समवाए खरसिंग, सामन्ने नत्थि एरिसो चंदो। नत्थि घडयप्पमाणा, विसेसओ होति मुत्ताओ // 24 // 'नास्ति गृहे जिनदत्तः ' इत्यत्र प्रयोगे पूर्वप्रसिद्धयोस्तयोर्गृहजिनदत्तयोर्द्वयोरपि संयोगः संबन्धमात्र प्रतिषिध्यते, न पुनः सर्वथैव, तयोरस्तित्वमिति संयोगप्रतिषेधः / समवायप्रतिषेधे तु खरशृङ्गमुदाहरणं, खरोऽप्यस्ति, शृङ्गमप्यस्ति, परं खरशिरसि शृङ्गं नास्तीति समवायः,' एकत्र संश्लेषः उभयोरपि ' प्रतिषिध्यते इति समवायप्रतिषेधः / सामान्यप्रतिषेधो यथा-नास्यस्मिन् स्थानेऽन्य ईदृशश्चन्द्रमा इति। विशेषमाश्रित्य पुनरय प्रतिषेधः-नसन्ति घटप्रमाणा मुक्ताः, मुक्ताफलानीत्यर्थः। सन्ति मुक्ताफलानि, परं नघटप्रमाणानीति घटप्रमाणत्वलक्षणस्य विशेषस्य प्रतिषिध्यमानत्वाद्विशेषप्रतिषेधो भावितः / भावितः संयोगाऽऽदिचतुष्टयप्रतिषेधः। सम्प्रति कालत्रयविषयं तमेव भावयतिनेवासी न भविस्सइ, णेव घडो अस्थि इति तिहा कालो। पडिसेहेइ नकारो, सशं तु अकारनोकारा / / 225 / / नैवाऽऽसीन्न भविष्यति, नैवास्ति घट इति यथाक्रममतीतानागतवर्तमानभेदाद त्रिधा कालविषयं वस्तु नकारः प्रतिषेधयति / अकारनोकारौ तु सद्यो वर्तमानकालमेव प्रायः प्रतिषेधयतः / यथाअकरोषित्वं, नो कल्पते तालप्रलम्ब प्रतिगृहीतुमित्यादि / नाकार-स्य द्विविधकालप्रतिषेधकत्वं पूर्वमुक्तमेवेतिन पुनरुच्यते। बृ० 1 उ० / नि० चू०। सूत्र० / उपमायां बन्धे, प्रस्तुते च / वाच० / नराऽऽदिषु, एका०। " नो नरे च सनाथेऽपि, नो नाथेऽपि प्रदर्श्यते। नृशब्दोऽपि नरे नाथे, ना नरौ नर इत्यपि।। 76 // ननौ इति निपातौ द्वौ, नू दर्पऽपि तथोदितः। पृच्छाया नु वितर्केऽपि, निर्निशब्दौ तथाऽऽव्ययम्।। 77 // नीवन्तो लक्ष्मीवाच्यः स्या-नीर्नेतरि नियौ नियः। नु स्तुतौ दीर्घहस्वे स्त्री, नेनौश्च तरणौ स्त्रियाम् // 7 // नूशब्दः पातके पुंसि, वायौ क्लीबे नुवारिणि। नं ब्रह्माणि तथाऽनन्ते, सानन्देनं च नन्दने॥७६ / / इति विश्वदेवशम्भुमुनिः / एका०। " नकारस्तु स्त्रियां नामौ,नं नाट्यज्ञानयोर्भवेत्। नशब्दस्त्रिषु लिङ्गेषु, पठ्यते भिन्नसूक्ष्मयोः।। 53 / / प्रस्तुते वा परिश्लिष्ट, शुद्धे निर्णेतरि स्मृतः। नुः स्त्रियां नु स्तुतौ नावि, नौस्तथैव निरूप्यते॥ 54 // नुन्नशब्दस्विलिङ्गः स्या-न्मिष्टयुक्तार्थवाचकः। अव्ययं प्रतिषेधेऽल्पे, नकारः स्थिरनिश्चये // 55 // नानाप्रकारे नेदं स्यात् , भावे नन्वबधारणे / / " इति माधवः / एका०। *न-अव्य० / सर्वनिषेधे, पयुदासे, नं / स्था। कुत्सार्थे, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः / ध०१ अधि० / कुत्सितं शील
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy