________________ ठि 1724 - अभिधानराजेन्द्रः भाग - 4 ठि तचाष्टभागन्यूनमपि देशोनं भवति / ततो विशेषस्थापनायाऽऽहपल्योपमस्यासंख्येयभागोनम् / एतच हैमवतैरण्यवतक्षेत्रापेक्षया द्रएव्यम्। तत्र जघन्यतः स्थितेरेतावत्प्रमाणायाः संभवात् , उत्कर्षतस्त्रीणि पल्योपमानि, तानि च देवकुर्वपेक्षया। (संहरणं पडुचेत्यादि) संहरणं नामकर्मभूमिजायाः स्त्रियोऽकर्मभूमिषु नयनं, तत्प्रतीत्य तदाश्रित्य, जघन्येनान्तर्मुहूर्तम् , उत्कर्षतो देशोना पूर्वकोटी। इयमत्र भावना इह कर्मभूमिकाऽप्यकर्मभूमिषु संहृता अकर्मभूमिकेति व्यवयिते, तत्क्षेत्रसंबन्धभावात् / यथा लोके कश्चित् मगधाऽऽदिदेशात् सुराष्ट्रान् प्रस्थितो, गिरिनगरेषु निवासं कल्प-यितुकामः सुराष्ट्रपर्यन्तग्राम प्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तद्वदधिकृताऽपि तत्र संहृता सती काचिदन्तर्मुहूर्त जीवति / ततोऽपि वा भूयोऽपि संह्रियते काचित्पूर्वकोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते, ततो जघन्यतोऽन्तर्मुहूर्तमुक्तम् , उत्कर्षतो देशोना पूर्वकोटीति। आह-भरतैरवतान्यपि कर्मभूमौ वर्तन्ते , तत्र चैकान्तसुषमाऽऽदौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति, संहरणं च संभवति, तत्कथं देशोना पूर्वकोटी भण्यते इति ? अत्रोच्यतेकर्मकालवि-वक्षयाऽभिधानात्तस्य चेतावन्मात्रत्वादिति हैमवतैरण्यवतकर्म-भूमिकमनुष्यस्वीणां जन्मतो जघन्येन देशोनं पल्योपमं, पल्योप-मासंख्येयभागेन न्यनम् , उत्कर्षतः परिपूर्ण पल्योपमम्। संहरण-मधिकृत्य जघन्यतोऽन्तर्मुहूर्तम, उत्कर्षतोदेशोना पूर्वकोटी, भावना प्रागिव / एवं " हरिवासरम्मग" इत्याद्यपि सूत्रत्रयं भावनीयम्। नवरं हरिवर्षरम्यकयोर्जन्मतो तधन्येन द्वे पल्योपमे, पल्योपमासंख्येयभागन्यूने। उत्कर्षतः परिपूर्णे द्वेपल्योपमे / देवकु रूत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि, पल्योपमासंख्यैय-भागहीनानि / उत्कर्षतः परिपूर्णानि त्रीणि पल्योधमानि / अन्तर-द्वीपेषु जघन्यतो जघन्येन देशोनपल्योपमासंख्येयः / कियता देशो-न इति चेत् ? अत आह-पल्योपमासंख्येयभागोनः। किमुक्तं भवति ?-उत्कृष्टात् पल्योपमासंख्येयभागप्रमाणादायुषो जधन्यमायुःपल्योपमासंख्येयभागन्यूनम् , नवरमूनताहेतुः पल्योपमासंख्ये-यो भागोऽऽतीव स्तोको द्रष्टव्यः / संहरणमधिकृत्य सर्वत्रापि जघ-न्यत उत्कर्षतश्च तावदेव प्रमाणम्। जी०२ प्रति०। नपुंसकानाम्मणुस्सणपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! खत्त पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी। धम्मचरण पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसणं देसूणा पुव्वकोडी। कम्मभूमगभरहेरवयपुय्वविदेहअवरविदेहमणुस्सणपुंसगस्स वि तहेव। अकम्मभूमगमणुस्सणपुंसगस्सणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जम्म णं पडुच्च जहपणेणं अंतोमुहुत्तं, उक्कोसेणं अंतोमुहुत्तं / संहरणं पडुच्च जहण्णेणं अंतोमुहत्तं, उक्कोसेणं दंसणा पुव्वकोडी। एवं० जाव अंतरदीवगाणं॥ सामान्यतो मुनष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहुर्तम् , उत्कर्षतः पूर्वकोटी / कर्मभूमिक मनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षतः पूर्वकोटी / धर्मचरणं बाह्यवेषपरिकरितप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त, तत ऊर्द्ध मरणाऽऽदिभावात्। उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्टकादुर्द्ध प्रतिपद्य जन्मपालनात्। भरतैरवतकर्मभूमिकमनुष्यनपुंसकस्य च क्षेत्रं, धर्मचरणं च प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् / अकर्मभूमिकमनुष्यनपुंसकस्य जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तम् , उत्कर्षेणापि अन्तर्मुहूर्तम्। अकर्मभूमौ हि संमूछिमा मनुष्या नपुंसका एव भवन्ति, न गर्भव्युत्क्रान्तिकाः, युगलधर्मिकाणां नपुंसकत्वा-भावात्। समूच्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त बृहत्तरमवसेयम्। संहरणं प्रतीत्यजघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षतो देशोना पूर्वकोटी, संहरणादूर्द्धमामरणान्तमवस्थानसंभवात् / देशोनता च पूर्वकोट्या गर्भनिर्गतस्य संभवात् / एवं विशेषचिन्तायां हैमवतैरण्यवताकर्मभूमिक मनुष्यनपुंसकस्य हरिवर्षरम्यक वर्षाकर्मभूमिकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यनपुंसकस्य, अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म, संहरणं च प्रतीत्यैवमेव वक्तव्यम् / जी० 3 प्रति०। सम्मुच्छिममणुस्साणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / गब्भवतियमणुस्साणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई। अपज्जत्तगगब्भवतियमणुस्साणं पुच्छा ? गोयमा ! जहणणेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं / पञ्जत्तगगडभवक्कं तियमणुस्साणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं अंतोमुहुत्तूणाई। प्रज्ञा०४ पद। उत्तरकुरुमनुष्याणां जघन्येन पल्योपमस्यासंख्येयभागेनोनानि त्रीणि पल्योपमानि, उत्कर्षात् परिपूर्णानि त्रीणि पल्योपमानि। जी०३ प्रति० / वाणमंतराणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा! जहण्णेणं दस वाससहस्साई, उक्कोसेणं पलिओवमं। अपअत्तयवाणमंतरदेवाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पज्जत्तयवाणमंतरदेवाणं पुच्छा? गोयमा! जहण्णेणं दस वाससहस्साइं अंतोमुहत्तूणाई, उक्कोसेणं पलिओवमं अंतोमुहुत्तूणं / प्रज्ञा०४ पद / प० द०। अकामकायक्लेशतपस्विना व्यन्तरेषूपपन्नानां दश वर्षसहस्राणि स्थितिः / औ० / बालमरणेन मृतानां व्यन्तरेषुपपन्नानां द्वादश वर्षसहस्राणि स्थितिः / औ० / विधवानामल्पारम्भप्रवृत्तानां व्यन्तरेधूपपन्नानां चतुर्दश वर्षसहस्राणि स्थितिः / औ० / अकामकायक्लेशतपस्विनीनां स्त्रीणां व्यन्तरेषूपपन्नानां चतुःषष्टिवर्षसहस्त्राणि स्थितिः / औ० / उदकद्वितीयाऽऽदीनां पाखण्डव्रतिनां निर्विकृति-कानां व्यन्तरेषूपपन्नानां चतुरशीतिवर्षसहस्रं स्थितिः। औ०। वाणमंतरीणं देवीणं पुच्छा? गोयमा ! जहण्णे णं दस वाससहस्साइं, उक्कोसेणं अद्धपलिओ पमं / अपज्जत्तियाणं भंते ! वाणमंतरीणं देवीणं पुच्छा ? गो