SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ठाण 1714 - अभिधानराजेन्द्रः भाग-१ ठाण पवर्तनः सिद्धत्वाद्यः समयभाविसुखमात्रता प्राप्त इति भावः / सर्वाकाशे नमाति-एतावन्मात्रेऽपि सर्वाकाशेन माति, सर्वस्तु दूरापारतप्रसर एवेति ज्ञापनार्थ पिण्डयित्वा पुनरपवर्तनसुखराशेः / इय-मत्र भावना-इह किल विशिष्टाऽऽहादरूपं सुखं परिगृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिः, तमालादमधिकृत्य एकैकगुणवृद्धितारतम्येन तावदसावागादो विशिष्यते, यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठामुपगतः, सोऽयमत्यन्तोपमाऽतीतैकान्तौत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पश्चरमाऽऽहादः सदा सिद्धानां यस्माचारतः प्रथमाचोर्द्धवमपान्तरालवर्तिनी ये गुणास्तारतम्येनाऽऽह्लादविशेषरूपाः, ते सर्वाऽऽकाशप्रदेशेभ्योऽप्यतिभूयांसः / ततः किलोक्तम्-"सव्वाऽऽगासे न माएजा" इति / अन्यथा यत्सर्वाऽऽकाशे न माति, तत्कथमेकस्मिन् सिद्धे भावात् ? इति पूर्वसूरिसम्प्रदायः // 15 // साम्प्रतमस्य निरुपमता प्रतिपादयतिजह नाम कोइ मिच्छो, नगरगुणं बहु विजाणंतो। ण चणइ * परिकहेउं, उवमाए तहिँअसंतीए॥ 16 / / "जह नाम " इत्यादि / यथा नाम कश्चिम्लेच्छो नगरगुणान् गृहनिवासाऽऽदीन् , बहुविधान् अनेकप्रकारान् , विजानन् , अरण्याऽऽगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुम्। कस्माद्न शक्नोति ? इत्यत आह-उपमायां तत्रासत्याम।" निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्।" इतिन्यायाद् हेतौ सप्तमातत्र उपमाया अभावादिति द्रष्टव्यम्। एष गाथाऽक्षरा-र्थः / / भावार्थः कथानकादवसेयः / तचेदम्-" एगो महारण्णवासी मिच्छोऽरणे चिटुति / इतो य एगो राया आसेण अवहरितो तं अडवि पवेसितो। तेण दिट्ठो सकारेऊण जणवयं नीतो। रन्ना विसो नगरे पच्छा उवगारित्ति गाढम्पचरितो-जहा राया चिट्ठइ धवल-घराइभोगेण वि. वासाकालेणऽरणं सरिउमारझो, रन्ना विसजिओ, ततोऽरण्णगा पुच्छंति-केरिसंनयरं ति? सो वियाणतो वितत्थो-वमाऽभावान सक्केइ नयरगुणे परिकहेउ। एस दिहतो || 16 // अयमर्थोपनयःइय सिद्धाणं सोक्खं, अणोवम नत्थि तस्स ओवम्म। किंचि विसेसेणित्तो, सारिक्खमिणं सुणह योच्छं / / 17 / / " इय सिद्धाणं " इत्यादि / इति एयं, सिद्धानां सौख्यमनुपम वर्त्तते। किमिति? तत आह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किशिद्विशेषेण, " इत्तो " इति / आर्षत्वादस्येत्यर्थः / सादृश्यमिदं वक्ष्यमाणं, शृणुत / / 17 / / जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोई। तण्हाछुहाविमुक्को, अत्थिज जहा अमियतित्तो / / 18|| " जहा सव्य " इत्यादि / यथेत्युदाहरणोपदर्शनार्थः / भुज्यते इति भोजनं, सर्वकामगुणितं सकलसौन्दर्यसंस्कृतं, कोऽपि पुरुषो, भुक्त्वा, क्षुड्विमुक्तः सन् , यथा अमृततृप्तः, तथा तिष्ठति // 18 // इय सव्वकालतित्ता, अउलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं, चिट्ठति सुही सुहं पत्ता / / 16 / / " इय'' इत्यादि। इति एवं, निर्वाणं मोक्षमुपगताः सिद्धाः, सर्व-काल * शकेश्चय तर-तीर-पाराः // 8| 4 | 86 // शक्नोतेरेते चत्वार आदेशा भवन्ति।" चयइ "त्यजतेरपि' चयइ। साद्यपर्यवसितंकाल, तृप्ताः सर्वथौत्सुक्यविनिवृत्तिभावतः परमसन्तोषमधिगताः, अतुलमनन्यसदृशम, उपमातीतत्वात:शाश्यत प्रतिपाताभावात् ; अव्याबाधं लेशतोऽपि व्याबाधाया असम्भवात् सुखं प्राप्ताः, अत एव सुखिनस्तिष्ठन्ति॥ 16 / / एतदेव सविशेषतरं भावयतिसिद्ध त्तिय बुद्ध त्ति य, पारगत त्तिय परंपरगत त्ति। उम्मुक्ककम्मकवया, अजरा अमरा असंगा य // 20 // "सिद्ध त्तिय" इत्यादि। सित बद्धमष्टप्रकार कर्म,ध्मातंभ-स्मीकृतं, यैस्ते सिद्धाः।" पृषोदराऽऽदयः " // 3 / 2 / 155 / / (हेम०) इति रूपनिष्पत्तिः, निर्दग्धानेकभवकर्मेन्धना इत्यर्थः / ते च सामान्यतः कर्माऽऽदिसिद्धा अपि भवन्ति / यत उक्तम्-"कम्मे सिप्पे य विजाए, मंते जोगे य आगमे। अस्थ-जत्ता-अभिप्पाए, तवे कम्मक्खए इय // 361 / / (आव०नि०) (3028 विशे०) ततः कर्माऽऽदिसिद्धाध्यपोहायाऽऽह-(बुद्ध त्ति) अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवाऽऽदिरूपं तत्त्वंबद्धवन्तो बुद्धाः, सर्वज्ञ-सर्वदर्शिस्वभावबोधरूपा इति भावः / एतेऽपि च संसारनिर्वाणोभय-परित्यागेन स्थितवन्तः कैश्विदिष्यन्ते,"संसारे न च निर्वाण, स्थितो भुवनभूतये / अचिन्त्यः सर्वलोकानां : चिन्तारत्नाधिको महान् " // 1 // इतिवचनात्। ततस्तन्निरासार्थमाहपारगताः-पारंपर्यन्तं संसारस्य,प्रयोजनवातस्य वा, गताः पारगताः। तथा भव्यत्वाऽऽक्षिप्तसकलप्रयोजनसमाप्त्या निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः / इत्थंभूता अपि कैश्चित् यदृच्छावादिभिरक्रमसिद्धत्वेनापि गीयन्ते / तथोक्तम्-" नैकादिसख्याक्रमतो, वित्तप्राप्तिनियोगतः / दरिद्रराज्याऽऽप्तिसमा, तद्वन्मुक्तिः क्वचिन्न कि-म् ? // 1 // " ततस्तन्मतव्यपोहायाऽऽहपरम्परागता इति / परम्परया ज्ञानदर्शनचारित्ररूपया, मिथ्यादृष्टिसासादनसभ्यगमिथ्यादृष्ट्यविरतिसम्यग्दृष्टियविरतिसम्यग्दृष्टिदेशविरतिप्रमत्तनिवृत्त्यनिवृत्तिबादरसम्परायसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया, गताः / एते च कैश्चित्तत्त्वतोऽनुन्मुक्तकर्मकवचा अभ्युपगम्यन्ते,तीर्थनिकारदर्शनादिहाऽऽगच्छन्तीति वचनतः पुनः संसारावतरणाभ्युपगमादतस्तन्मतापाकरणार्थमाह-उन्मुक्तकर्मकवचाः-उत्प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्तकर्मकचाः / अत एव अजराः शरीराभावतो जरसोऽभावात् , अमरा अशरीरत्वादेव प्राणत्यागासम्भवात् / उक्तं च"वयसो हाणीह जरा, पाणचाओ य मरणमादिट्ट / सह देहम्मि तदुभयं, तदभावे नेव करसेव॥१॥" असङ्गाःबाह्याभ्यन्तरसङ्गरहितत्वात्।।२०।। णित्थिन्नसव्वदुक्खा, जातिजरामरणबंधणविमुक्का। अव्वाबाहं सुक्खं, अणुहोंती सासयं सिद्धा।।२१।। "नित्थिन्न " इत्यादि। निस्तीर्ण लडितं सर्व दुःखं यैस्ते निस्तीर्णसर्वदुःखाः / कुतः ? इत्याह-(जातिजरामरणबंधणविमुक्का) जातिर्जन्म, जरा वयोहानिलक्षणा, मरण प्राणत्यागरूपं, बन्धनानि तन्निबन्धरूपाणि कर्माणि, तैर्विशेषतो निःशेषांपगमनेन मुक्ता जातिजरामरणबन्धनविमुक्ताः / हेतावियं प्रथमा / यतो जरामरणबन्धनविमुतास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात्। ततोऽऽयाबाधं सौख्यंशाश्वत सिद्धा अनुभवन्ति / / 21 / / प्रज्ञा० 2 पद / जी० / एतदर्थप्रतिपादके प्रज्ञापनाया द्वितीये पदे, प्रज्ञा०१ पद ! जी० / तिष्ठति अनवस्थाननिबन्धनर्माभावेन सदाऽवस्थितोभवति यत्रतत्स्थानमाक्षीणकर्मणोजीवस्यस्व
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy