________________ ठाण 1713 - अभिधानराजेन्द्रः भाग - 4 ठाण संठाणमणित्थंथं, जं जरामरणविमुक्काणं / / 8 / / "ओगाहणाएँ" इत्यादि सुगम, नवरम् (अणित्थंथमिति) इदप्रकारमापन्नमित्थम् / इत्थं तिष्ठतीति इत्थंस्थः, न इत्थंस्थम्अनित्थंस्थं, वदनाऽऽदिशुषिरप्रतिपूरणेन पूर्वाऽऽकारान्यथात्वभावतोऽनियताऽऽकारमिति भावः / योऽपि च सिद्धाऽऽदिगुणेषु ''सिद्धे न दीहेनहस्से'' इत्यादिना दीर्घत्वाऽऽदीनां प्रतिषेधः सोऽपि पूर्वाऽऽकारापेक्षया संस्थानस्यानित्थंस्थत्वात्प्रतिपत्तव्यः, नपुनः सर्वथा संस्थानस्याभावतः। आह च भाष्यकृत"सुसिरपरिपूरणाओ, पुव्वागारउन्नहाववत्थातो। संढाणमणित्थथ, जे भणिय अणिययागारं / / 3172 / / एत्तो चिय पडिसेहो, सिद्धाइगुणेसु दीहयाऽऽईण। जमणित्थंथ पुव्वा-ऽऽगारावेक्खाएँ नाभावो / 3173 / / " (विशे०) // 8 // नन्वेते सिद्धाः परस्परं देशभेदेन व्यवस्थिताः, उत नेति ? नेति तद् ब्रूमः / कस्मादिति चेत् ? उच्यतेजत्थ य एगो सिद्धो, तत्थ अनंता भवक्खयविमुक्का। अन्नोन्नसमोगाढा, पुट्ठा सव्वे वि लोयंते / / 6 || " जत्थ य" इत्यादि। यत्रैव देशे, चशब्दस्य एवकारार्थत्वात् , एकः सिद्धो निर्वृतः,तत्रानन्ता भवक्षयविमुक्ताः। अत्र भवक्षयग्रहणेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह / अन्योन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायाऽऽदिवत्। तथा स्पृष्टा लग्नाः सर्वेऽपि लोकान्ते॥६॥ फुसइ अणंते सिद्धे, सव्वपएसेहिँ नियमसो सिद्धा। ते वि असंखेज्जगुणा, देसपदेसेहिँ जे पुट्ठा // 10 // " फुसइ' इत्यादि / स्पृशत्यनन्तान सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमशः सिद्धः / तथा नेऽपि सिद्धाः सर्वप्रदेशस्पृष्टभ्योऽसंख्येयगुणा वर्तन्ते, ये देशप्रदेशः स्पृष्टाः / कथमितिचेत् ? उच्यतेइहकस्य सिद्धस्य यदवगाहनक्षेत्रं, तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते / अपरे तु ये तस्य क्षेत्रस्य एकैकं प्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पञ्चाऽऽप्रदेशवृझ्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूल क्षेत्रस्य एकैकं प्रदेशं परित्यज्य येऽवगादास्तेऽपि प्रत्येकमनन्ताः / एवं च सति प्रदेशवृद्धिहानिभ्यां ये समवगाढाः, ते परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, अवगाढप्रदेशानामसङ्ख्यातत्वात्। आह च भाष्यकृत्" एगक्खेत्तेऽणंता, पएसपरिखुड्डिहाणिओ तत्तो। हुति असंखेनगुणा-ऽसंखपएसो जमवगाहो" || 3180 / / (विशे०) / / 10 // सम्प्रति सिद्धानेव लक्षणतः प्रतिपादयतिअसरीरा जीवधणा, उवउत्तादंसणे य नाणे य / सागारमणागारं, लक्खणमेयं तु सिद्धाणं / / 11 // " असरीरा" इत्यादि। अविद्यमानशरीरा अशरीराः : औदा-रिकाऽऽदिपशाविधशरीररहिता इत्यर्थः / जीवाश्च ते घनाश्च वदनोद राऽऽदिशुषिरपूरणाद् जीवघनाः, उपयुक्ता दर्शनेकेवलदर्शन, ज्ञाने चकेवलज्ञाने। यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधान, तथाऽपि सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्याऽऽलम्बनं दर्शनमुक्तम् / तथा च सामान्यविषयं दर्शनं, विशेषविषयं ज्ञानमिति। ततः साकारानाकारं, सामान्यविशेषोपयोगरूपमित्यर्थः / सूत्रे मकारोऽलाक्षणिकः / लक्षणंतदन्यव्यावृत्तिस्वरूपम् , एतत् अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थः, सिद्धानां निष्ठितार्थानामिति / / 11 / / सम्प्रति केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयतिकेवलणाणुवउत्ता, जाणंती सव्वभावगुणभावे। पासंति सव्वओ खलु, केवलदिट्ठीहिऽणंताहिं / / 12 // " केवलणाणुवउत्ता' इत्यादि / केवलज्ञानेनोपयुक्ताः, न त्वन्तःकरणेन, तदभावादिति केवलज्ञानोपयुक्ताः, जानन्त्यवगच्छ-न्ति, सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायान् / प्रथमो भावशब्द: पदार्थवचनः, द्वितीयः पर्यायवचनः / गुणपर्याययोस्त्वयं विशेषः-सह वर्तिनी गुणाः, क्रमवर्तिनः पर्याया इति। तथा पश्यन्ति सर्वतः खलु, खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलदृष्टिभिरनन्ताभिः, अनन्तैः केवलदर्शनरित्यर्थः / केवलदर्शनानां चानन्तता सिद्धानामनन्तत्वात् , इहाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्ध्यन्तीति ज्ञापनार्थम् // 12 // सम्प्रति निरुपमसुखभाजस्ते इति दर्शयतिन वि अत्थि माणुसाणं, तं सोक्खं नत्थि सव्वदेवाणं। जं सिद्धाणं सुक्खं, अव्वावाहं उवगयाणं / / 13 // "न वि अस्थि" इत्यादि। नैव अस्ति मनुष्याणां चक्रवादीनामपि, तत्सौख्य, नैव सर्वदेवानामनुत्तरपर्याप्तानामपि, यत् सिद्धानां सौख्यम्, अव्यावाधामुपगतानां, न विविधा आबाधा अव्याबाधा, ताम् , उप सामीप्येन गताना प्राप्तानाम् // 13 // यथा नास्ति तथा भङ्गया उपदर्शयतिसुरगणसुहं समत्तं, सव्वद्धापिंडियं अणंतगुणं / न वि पावइ मुत्तिसुहं-ऽणंताहिँवि वग्ग वग्गूहिं / / 14|| " सुरगणसुहं " इत्यादि / सुरगणसुखं देवसघातसुखं, समस्त सम्पूर्णम् , अतीतानागतवर्तमानकालोद्भवमित्यर्थः / पुनः सर्वाद्धापिण्डितं सर्वकालसमयगुणितम् , तथाऽनन्तगुणमिति, तदेवं प्रमाण किलासत्कल्पनया एकैकाऽऽकाशप्रदेशे स्थाप्यते, इत्येवं सकलाssकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति, तदनन्तरमप्यनन्तैर्वर्गर्गितम् , तथाऽप्येयं प्रकर्षगतमपि मुक्तिसुखं सिद्धिसुखं, न प्राप्नोति॥१४ / / एतदेव स्पष्टतरं भङ्गयन्तरेणा प्रतिपादयतिसिद्धस्स सुहोरासी, सव्वद्धापिंडिए जइ हविज्जा। सोऽणंतवग्गभइओ, सव्यागासे ण माइज्जा / / 15 / / ' सिद्धस्स सुहोरासी" इत्यादि / सुखाना राशिः सुखराशिः सुखसजातः सिद्धस्य सुखराशिः सिद्धसुखराशिः, सर्वाद्धापिण्डितः सर्वया साद्यपर्यवसितया अद्धया, यत्सुख, सिद्धः प्रतिसमयमनुभवति, तदेकत्र पिण्डीकृतमिति भावः / सोऽनन्तवर्गभक्तोऽनन्तैर्वर्गमूले रपवर्तितः, अनन्तर्वगमूलै स्तावदपवर्तितो यावत्सर्वाद्धालक्षणेन गुणकारेण गुणने यदधिकं जातं, तस्य सर्वस्या