________________ ठाण 1712 - अभिधानराजेन्द्रः भाग - 4 ठाण अवेदा अवेयणा निम्ममा असंगा य संसारविप्पमुक्का पदेसनिव्वत्तिसंठाणा। अत्र शिष्यः पृच्छन्नाहकहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया। कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झइ ? || 1 // " कहिं पडिहया सिद्धा' इत्यादि। कहिं ' इत्यत्र सप्तमी तृतीयार्थे, प्राकृतत्वात् / यथा " तिसु तिसु अलंकिया पुढवी " इत्यादि। ततोऽयमर्थः-केन प्रतिहताः केन वलिताः ? सिद्धाः मुक्ताः, तथा क्व कस्मिन् स्थाने, सिद्धाः, प्रतिष्ठिता अवस्थिताः तथा क्व कस्मिन् क्षेत्रे, बोन्दिस्तनुः शरीरमित्यनान्तर, तां त्यक्त्वा, क्व गत्वा सिद्ध्यन्ति निष्ठितार्था भवन्ति ?" सिज्झइ" इत्यत्रानुस्वारलोपो द्रष्टव्यः, अथ चैकवचनोपन्यासोऽपि सूत्रशैल्या न विरोधभाक् / तथा चान्यत्राप्येवं प्रयोगः- " वत्थगंधमलंकार, इत्थीओ सयणाणि य / अच्छंदा जे न भुजति, न से चाइत्ति वुच्चइ // 1 // " इति। एवं शिष्येण प्रश्ने कृते सूरिराहअलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया। इह बोंदि चइत्ता णं,तत्थ गंतूण सिज्झइ / / 2 / / '' अलोए पडिहया सिद्धा" इत्यादि / अत्रापि सप्तभी तृतीयार्थे / अलोकेन केवलाऽऽकाशास्तिकायरूपेण, प्रतिहताः स्खलिताः सिद्धा ; इह तत्र धर्मास्तिकायाऽऽद्यभावात्तदानन्तर्यावृत्तिरेव प्रतिस्खलन, न तु संबन्धे सति विघातः, अप्रतिघत्वात् , सप्रतिघानां हि संबन्धे सति विधातो, नान्येषामिति। तथा लोकस्य पञ्चास्तिकायाऽऽत्मकस्य, अग्रे मूर्द्धनि, प्रतिष्ठिता अपुरागत्या व्यवस्थिताः, इह मनुष्यलोके. बोन्दि तनु, त्यक्त्वा, तत्र लोकाग्रे, समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिद्ध्यन्ति निष्ठितार्था भव-न्ति। संप्रति तत्र गतानां यत्संस्थानमानं तदभिधित्सुराहदीहं वा हस्सं वा, जं चरिमभवे हविज्ज संठाणं / तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिया।। 3 / / " दीहं वा हस्सं वा " इत्यादि / दीर्घ वा पञ्चधनुःशतप्रमाण, ह्रस्वं वा हस्तद्वयप्रमाणं, वाशब्दामध्यमं वा विचित्रं,यचरमभवे पश्चिमभवे, भवेत् संस्थान, ततस्तस्मात्संस्थानात् , त्रिभागहीना वदनोदरादिरन्ध्रपूरणेन तृतीयेन भागेन हीना, सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगाहना स्वावस्थैव, भणितातीर्थकरगणधरैरिति। अत्र गतस्य संस्थानप्रमाणापेक्षया त्रिभागहीन तत्र संस्थानमिति भावः। एतदेव स्पष्टतरमुपदर्शयतिजं संठाणं तु इह, भवं चयंतस्स चरमसमयम्मि। आसीय पदेसघणं, तं संठाणं तहिं तस्स / / 4 / / "ज संठाणं तु इहं' इत्यादि। यत्संस्थानं यावत्प्रमाण संस्था-नम् , इह मनुष्यभवे आसीत् , तदेव, भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं, त्यज्यतः परित्यजतः, काययोग परिजिहानस्येति भावः / चरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानबलेन वदनोदराऽऽदिरन्ध्रपूरणात्रिभागेन हीनं प्रदेशघनमासीत्(तं संठाणं तहिं तस्स ति) तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाण संस्थान, तत्र लोकाग्रे, तस्य सिद्धस्य, नान्यदिति। साम्प्रतमवगाहनामुत्कृष्टाऽऽदिभेदभिन्नामभिधित्सुराहतिन्नि सया तेत्तीसा, धणुत्तिभागो य होइ नायव्वो। एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया।। 5 / / चत्तारि य रयणीओ, रयणि तिभागूणिया य बोधव्वा / एसा खलु सिद्धाणं, मज्झिम ओगाहणा भणिया।।६।। एगा य होइ रयणी, अट्ठेव य अंगुलाइ सहियाई / एसा खलु सिद्धाणं, जहन्न ओगाहणा भणिया / / 7 / / त्रीणि शतानि, त्रयस्त्रिंशानि त्रयस्त्रिशदधिकानि, धनुविभागश्च भवति बोद्धव्यः / एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थकरगणधरैः, सा च पञ्चधनुःशततनुकानामवसेया। ननु मरुदेवा नाभिकुलकरपत्नी, नाभेश्व पञ्चविंशत्यधिकानि पञ्चधनुःशतानि शरीरप्रमाणं,यदेव च तस्य शरीरमानं तदेव मरुदेवा अपि, "संघयणं संठाणं, उत्तं चेव कुलगरेहि सम" इति वचनात्। मरुदेवा च भगवती सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते ? इति। नैष दोषः / मरुदेवायाः नाभेः किञ्चिदूनग्रमाणत्वात् , स्त्रियो हि उत्तमसंस्थाना उत्तमसं-स्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किश्चिदूनप्रमाणा भवन्ति। ततो मरुदेवाऽपि पञ्चधनुःशतप्रमाणेति न कश्चिद् दोषः। अपि चहस्तिस्कन्धाधिरूढा संकुचिताङ्गी सिद्धा। ततः शरीरसंकोचनभावानाधिकावगाहनासंभव इत्यविरोधः / आह च भाष्यकृत्-" कह मरुदेवामाण, नाभीतो जेण किंचिदूणा सा / तो किर पंच सय चिय, अहवा संकोचतो सिद्धा" / / 5 / / (3167 विशे०)" चत्तारिय रयणीओ " इत्यादि / चतस्रो रत्नयो, रत्निश्च त्रिभागोना च बोधव्या, एषा खलु सिद्धानामवगाहना भणिता मध्यमा। आह-जघन्यपदे सप्तहस्तोच्छितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा ? तदयुक्तम्। वस्तुतत्त्वापरिज्ञानात्। जघन्यपदे हि सप्तहस्तानां सिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेवलिनांतुहीनप्रमाणानामपि भवति। इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः / / 6 / / " एगा य होइ" इत्यादि / एका रत्निः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि, एषा भवति सिद्धानामवगाहना जघन्या। सा च कूर्मापुत्रा दीनां द्विहस्तानामवसेया। यदि वासप्तहस्तोच्छितानामपि यन्त्रपीलनाऽऽदिना संवर्तितशरीराणाम्। आह च भाष्यकृत्" जेट्टा उ पंचधणुसय, एवं मज्झाय सत्तहत्थस्स। देहत्तिभागहीणा, जहन्निया जा विहत्थस्स " // 3166 / / " सत्तूसिएसु सिद्धी, जहन्नतो कहमिहं विहत्थेसु? सा किर तित्थयरेसुं, सेसाणं सिज्झमाणाणं / / 3168 / / ते पुण होज्ज विहत्था, कुम्मापुत्तादओ जहन्नेण। अन्ने संवट्टियस-तहत्थसिद्धस्स हीण त्ति / / 3166 / / " (विशे०)॥७॥ साम्प्रतमुक्तानुवादेनैव लक्षणं सिद्धानामभिधित्सुराहओगाहणएिं सिद्धा, भवत्तिभागेण होइ परिहीणा।