________________ घण्टापथः। (30) अर्हम्। ग्रन्थनिर्माणकारणम्श्रीवर्धमानजिनगौतमसत्सुधर्मजम्बूमुनीन्द्रजगदर्चितभद्रबाहोः / यो वर्धितो निजकृतोदकसेचनाभिधर्मद्रुमो निखिलधर्मतरुप्रधानः ||1|| काले गते बहुतिथेऽथ विलुण्ठितं तं, मूलार्थविप्लवनसाहसमाश्रयद्भिः / मिथ्यात्विभिः पुनरपीह समुद्विधीर्षुः, सूरीश्वरो भुवि दयोदधिराविरासीत् // 2 / / कामाऽऽदिवैरिनिवहोन्मथनाद्त्सुहृष्टः, बाह्याऽऽन्तरोभयविचित्रचरित्रदृष्टः / कारुण्यपूर्णरसपूरितभव्यपुण्यनीराब्धिसंगतसुधोन्मथने समर्थः / / 3 / / चेतोऽन्धकारोद्धरणे विरोचनो, राजेन्द्रसूरिर्विबुधार्चिताघ्रिकः / संघोपकर्ता न च कोऽपि तादृशः पुण्यैकमूर्ति विकौघबोधदः ||4|| निजमतच्युतिजैनमतग्रहान्यतरमाहवभङ्गपणं दिशन् / विततवादकथासमरे परान्, व्यजयताऽजयतां प्रथयन्निजाम् // 5 // अथ विजित्य दिशो दश शिष्यतां, गतवतः करुणावरुणाऽऽलयः / मुनिगणान् नववादरणाऽङ्गणे, निजधियाऽजधिया समयोजयत् // 6|| सूत्राण्युपास्य तदुपोदलितैः स्ववाक्यैराख्यानकैश्च विततैर्निजदेशनाभिः / यो जैनसंघमखिलं कृपयोद्दधार, सूरिः स वै विजयते स्म पवित्रकीर्तिः / / 7 / / इत्थं स जैनाऽऽगममत्र लोके, सम्यग् व्यवस्थाप्य न संतुतोष / कालक्रमेणास्य पुनर्विनाश-- माशङ्कमानो विजितान्यमानः ||8|| ततोऽभ्यगात् शिष्यगणैः सुविज्ञैवृतो विहारेण मरुस्थलं तु / उवास कालं चिरमात्मतत्त्वं, तान् बोधयन् धर्मशिरःप्रतिष्ठम् ||6|| अथैकदा संसदि सन्निविष्टो, निजाऽऽप्तशिष्याऽऽदिविभूषितायाम् / सङ्घोपकण्ठं च निजाभिलार्ष, व्यजिज्ञपत् सूरिवरः कृपालुः ||10|| जैनाऽऽगमानां निजयुक्तियोगात्, संयोक्तुमेकत्र नवीनरीत्या / / कोशं विधित्सामि जिनेन्द्रभाषामयं न लुप्येत यतः कदाचित् // 11 / / श्रुत्वा पुनस्तमुपदेशवरं प्रहृष्टामूर्नाऽग्रहीषत गुरोरनुशासनं तत् / संगृह्य द्रव्यमतुल्यं च ततोऽभिधानराजेन्द्रकोशममलं निरमापयँस्ते // 12 // इति विज्ञपयन्तिश्रीमदुपाध्यायमोहनमुनयः।