________________ (31) प्रशान्त-वपुषं श्रीमद् राजेन्द्रसूरिं नुमः प्रशान्त विद्यालकरणं सुधर्मशरणं मिथ्यात्विनां दूषणं, विद्न्मण्डलमण्डनं सुजनता सदोधिबीजपदम् / सच्चरित्रनिधिं दयाभरविधि प्रज्ञावतामादिमम्, जैनानां नवजीवनं गुरुवरं राजेन्द्रसूरिं नुमः // 1 // धुर्यो यो दशसंख्येकेऽपि यतिनां धर्मे दृढः संयमे, सत्वात्मा जनतोमकारनिरतो भव्यात्मनां बोधकः / शास्त्राणां परिशीलने दृढमतिानी क्षमावारिधि स्तं शान्तं करुणावतारमनिशं राजेन्द्रसूरिं नुमः // 2 // वाणी यस्य सुधासमाऽतिमधुरा दृष्टिमहाजजुला, संव्रज्या सुखशान्तिदा खलु सदाऽन्यायादिदोषापहा / बुद्धिलॊकसुखानुचिंतनपरा कल्याणकों नृणां, लोके सुप्रथिपताऽस्ति तं गुरुवरं राजेन्द्रसूरि नुमः / / 3 / / यकर्ता जिनबिम्बकाञ्जनशलाका नामनेकाऽऽत्मनां, __मूर्तिश्चापि जिनेश्वरस्य शतशः प्रातिष्ठिपन्मन्दिरे / जीर्णोद्धारमनेकजैननिलयस्याचीकरच्छावकै स्तं सत्कार्यकरं मुदा गुरुवरं राजेन्द्रसूरिं नुमः // 4 / / लोके यो विहरन् सदा स्ववचनैर्वरं मिथो देहिनां, दूरीकृत्य सहानुभूतिरुचिरां मैत्री समावर्धयत् / मूढाँश्चापि हितोपदेशवचसा धर्मात्मनः संव्यधाद्, देशोपद्रवनाशकं तमजित राजेन्दसूरि नुमः / / 5 // यो गङ्गाजलभिर्मलान् गुणगुणान् संधारयन् वर्णिराङ्, यं यं देशमञ्चकार गरनैस्तं तं त्वपायीन्मुदा। सच्छास्त्रामृतवाक्यावर्षणवशाद् मेधव्रतं योऽधरन्, तं सज्ज्ञानसुधानिधिं कृतिनुतं राजेन्दसूरिं नुमः // 6 // तेजस्वी तपसा प्रदीप्तवदनः सौम्योऽतिवक्ताचलः, शास्त्रार्थेषु परान् विजित्य विविधैनिस्तथा युक्तिभिः / शिष्यांस्तानकरोत्स्वधर्मनिरतान् यो ज्ञानसिन्धुः प्रभु स्ते सूरिप्रवरं प्रशान्त-वपुषं राजेन्द्रसूरिः नुमः // 7 // लोकान्मंदमतीन्स्वधर्मविमुखप्रायान् बहून् वीक्ष्य यो, जैनाचार्यनिबद्धसर्वनिगमानालोङय बुद्ध्या चिरम् / मान् बोधियितुं सुखेन विशदान् धर्मान्महामागधीकोशं संव्यत्तनोत्तमच्छमनसा राजेन्द्रसूरि नुमः / / 8 / / गुरुवरगुणराजिभ्राजितं सारभूतं, परिपठति मनुष्यो योऽष्टकं शुद्धमेत्तद् / अनुभवति स सर्वां सम्पदं मानावानामिति वदति मुनीशो वाचको मोहनाख्यः || 6 || -उपाध्याय श्री मोहनविजयजी महाराज