________________ (26) घण्टापथः। गुणानुरागों, निभृतकायवागव्यापाराऽऽदिरूपम् / यदुक्तं दशवैकालिकटीकायाम्- "सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनाऽऽगमहेतुचिन्ता। पझेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति संप्रवदन्ति, तज्ज्ञाः / / 1 // " आत्मनः स्वसंवेदनाग्राह्यमन्येषामनुमेयमाध्यात्मिकं तु तत्त्वार्थसंग्रहाऽऽदौ चातुर्विध्येन प्रदर्शितं, संक्षेपतोऽन्यत्र दशविधाम् / तद् यथा-"अपायोपायजीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति / " तथाहि दुष्टमनोवाक्कायव्यापारविशेषाणामपायः कथमनुमानं स्यादित्येवंभूतः संकल्पमबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायश्चियम्। तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयम् / असंख्येयप्रदेशाऽऽल्मकसाकारानाकारोपयोगलक्षणानादिस्वकृतकर्मफलोपभोगित्वाऽऽदिजीवस्वरूपानुचिन्तनं जीवविचयम् / धर्माधर्माऽऽकाशकालपुद्गलानामनन्तपर्यायाऽऽत्मकानामजीवानामनु चिन्तनमजीवविचयम / मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलाऽऽत्मकस्य मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविपाकविशेषानुचिन्तनं विपाकविचयम्। कुत्सितमिदं शरीरकं शुक्रशोणितममुद्-भूतमशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि नवछिद्रतथाऽशुचि आधेयाशौचं न किञ्चिदत्र कमनीयतरं समस्ति, किम्पाकफलोपभोगोपमाः प्रमुखरसिका विपाककटयः प्रकृत्या भङ्गुराः पराधीनाः सन्तोषामृताऽऽस्वादपरिपन्थिनः सनिनिन्दिता विषयाः, तदुद्भवंचसुखं दुःखानुषङ्गि दुःखजनके च, नातो भोगिनां तृप्तिः, न चैतदात्यन्तिकमिति नाऽत्राऽऽस्था विवेकेनाऽऽधातुं युक्तेति विरतिरेवातः श्रेयस्कारिणीत्यादिविरागहेतुचिन्तनं वैराग्यविचयम्। प्रेत्य स्वकृतकर्मफलोपभोगार्थं पुनः प्रादुर्भावो भवः, स चारघट्टघटी यन्त्रवद् मूत्रपुरीषान्त्रतन्त्रनिबद्धदुर्गन्धजछरपुरकोटराऽऽदिष्वजसमावर्तनं, न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतश्वेतनमचतनं वा सहायभूतं शरणतां प्रतिपद्यवइत्यादिभवसंक्रान्तिदोषपर्यालोचनं भवविचयम् / तथा च "संसाराम्बुनिधौ सत्त्वाः, कार्मिपरिघट्टिताः / संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः? // 1 // " अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि / सत्त्वो नैवास्त्यसौ कश्चिद, यो नबन्धुरनेकधा।॥१॥" भवनवननगसरित्समुद्रभूरुहाऽऽदयः पृथ्वीव्यवस्थिताः, साऽपि घनोदधिधनवाततभुवातप्रतिष्ठा, तेऽप्याकाशप्रतिष्ठाः, तदपि स्वाऽऽत्मप्रतिष्ट, तचाधोमुखमल्लकसंस्थान वर्ण यन्त्यधोलोकमित्यादिसंस्थानानुचिन्तनं संस्थानविचयम् / अतीन्द्रियत्वाद् हेतूदाहरणाऽऽदिसद्भावेऽपि बुद्धयतिशयशक्तिविकलैः परलोकबन्धमोक्षधर्माधर्माऽऽदिभविष्वत्यन्तदुःखबोधेष्याप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेत्याज्ञाविचयम् / आगमविषयप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकाऽऽगमस्य कषच्छेदतापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् / एतच सर्व धर्मध्यानम्, श्रेयोहेतुत्वात् इति सर्वं सुस्थम्। इतोऽप्यधिकविषयजिज्ञासुभिः सूक्ष्मधिया धर्मशब्दोऽत्र निरीक्षणीयः। प्रतायते नेह, विस्तरभयादिति।। उपसंहारःइह संसारे स्वभावत एव शरीरिमात्रमिष्टमभिलाषुकधानिष्ट व्युदसिसिषु चास्तीतीष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनैदम्पर्येण भगवाँस्तीर्थरच क्रचूडामणिर्वद्धमानो जीवाजीवाऽऽदिनवतत्त्वविभागप्रविभागभक्तां सर्वाभ्युदयसाधनां नानाविधसमष्टिव्यष्टिफला द्वादशाङ्गीमेकादशाड़ी वाऽर्थतो विदधदभिदधौ तन्नित्कर्ष निजचरणान्तेवासभ्यो धर धौरेयेभ्यो गणधरप्रवरेभ्यो गौतगाऽऽदिभ्यः। जग्रन्थुश्व सुधर्मस्वामिप्रमुखा जम्बूस्वामिप्रभृतिमुपलक्ष्यार्धमागधीभाषयाऽङ्गोपाङ्गानि / गहनातिगहनतया च तद्विषयाणां संक्षिप्ततराणां तेषां क्रमशो विस्तारमारेभिरेऽन्ये चाऽऽचार्याः। य अपि किल दुष्पमारप्रभावतः पुरुषाणां मन्दमतितया स्मरणशुक्तिदौर्बल्यतया च श्रीमाद् भद्रबाहुस्वामी तत्तद्विषयमात्रसूचिकाभिर्नियुक्तिगाथाभिर्निवबन्धविषयान् सद्याः स्फूर्तिकराभिः, तथापि साऽप्रतकालीनबलउत्तर पञ्चमकालप्राज्यसाम्राज्यतो दुर्बलतरधिषणानां जनानां मनःसु कथाशेषतामेवागमत् तद् जैनसिद्धान्त-- रहस्यमिति सम्प्रधायैव श्रीमद्विजयराजेन्द्रसूरीश्वरमहानुभावाः सङ्गितमु तानबह र्थगुम्फितं परमोपयोगिसकलाऽऽगमविषयसंग्रहाऽऽत्मक कोशमसुं व्यरीरचन्निति क्रियासमभिहारेण तत्र तत्रोपोद्धातप्रस्तावभूमिकाऽऽदौ निरूपितमस्माभिः / श्रीमन्तो विजयराजेन्द्रसूरीश्वराः खलु दुर्लभगुणगणमूर्तय इत्यत्र किमिव बहु बूमः? किन्त्वेतावदेव पर्याप्त नाम, यदिह प्रायोऽनेकगुणगणभाजोऽन्ये सूरयो देशनामादिशन्तोऽपि नो खलु प्राप्नुवन्ति तथाविधं विपश्चिचित्ताऽऽसेचनकवैदुष्यशालित्वम्। अथवा किंबहुना सकललोकप्रसिद्धस्यतस्य परिचयप्रदानेन / प्रकृतं प्रस्तुमः एतद्ग्रन्थपरिशोधनविषये छेदाऽऽदिग्रन्थानां केवलमे के काऽऽदर्शपुस्तकलाभात् लेखकानवधानतो द्विरावृत्तिपड्क्तिवैकल्याऽऽदिदोषाऽऽघ्रातत्वाच तेषामनेककालतः पठनपाठनपरिपाटीविरहात् बहुषु स्थलेषु सामञ्जस्याभावात् सम्भत्यादितर्कग्रन्थानामपि जटिलातिजटिलविषयेषु विज्ञेतरलेखकलेखनमन्तुप्रभावतोऽलग्नकत्वाद् महती दुःस्थता समुद्भूता,तथापि श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि।' इति स्मरणात् "प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विघ्नैः पुनः पुनरपि प्रतिहन्य मानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति // 1 // " इत्यनु-स्मरणाच मूलग्रन्थं टीकातो, टीकाग्रन्थं च मूलतो विविज्य, निशीथमहानिशीथाऽऽदिकेवलाऽर्धमागधीग्रन्थानां टीकाविकलानां प्राकृतव्याकृत्याऽऽदिसाहाय्यात् तत् प्रकृतविषयप्रतिपादकग्रन्थान्तरमननाच गुरुचरणसरोजमकरन्दसमास्वादनलब्धनवनवोन्मेषशालिप्रज्ञावद्भिरस्माभिर्दत्ताबधानतः संशोधितोऽयं कोशग्रन्थो, विशेषतश्चायं भागः, परन्तु Ideem no skill in acting perfect, till the learned are satisfied; the heart of even those that are deeply read, has little confidence in itself. 372191-when delegated agents successfully carry out any great undertaking the credit of success belongs to their masters a: Could dawn ever dispel darkness, had not the thousandrayed luminary placed her, in front of his car? इति निवेदयन्तिसंशोधकाः।