________________ ठाण 1667 - अभिधानराजेन्द्रः भाग - 4 ठाण रपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति; श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति / छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकाऽऽदिभावादौदयिकाऽऽदिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतस्तत्रैव गमनम् / अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्या प्रतिपततोऽविशुद्ध्यमानपरिणामस्यानन्तानुबन्धिमिथत्वोदयं यावत् . उपशमश्रेणिमन्तरेणापि कषायवशाबन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति। अप्रशस्तच्छिन्नसन्धानं पुनरौदयिकभावादौपशमिकाऽऽदिभावान्तरसंक्रान्तौ सत्यां पुनस्तत्रैय गमनमिति / इह द्वारद्वयं योगपद्येन व्याख्यातम्। तत्रसन्धानस्थान द्रव्यविषयम् , इतरत्तु भावविषयमिति। उक्त स्थानम्। अथवा भावस्थानं कषायाणां यत् स्थानमिह परिगृह्यते, तेषामेव जेतृद्रव्यत्वेनाधिकृतत्वात्तेषा किं स्थानं,यदाश्रित्य चते भवन्ति? शब्दाऽऽदिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयतिपंचसु कामगुणेसुं, सद्दफरिसरसरूवगंधेसु / जस्स कसाया वटुं-ति मूलठाणं तु संसारे / / 84 // तत्रेच्छाऽनङ्गरूपः कामः, तस्य गुणाः, यानाश्रित्य चासौ चेतसो विकारमादर्शयति / तेच शब्दस्पर्शरसरूपगन्धाः, तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु, यस्य जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणो रागद्वेषतिमिरोपप्लुतमनोज्ञेतरविषयोपलब्धौ सत्यां कषाया वर्तन्ते प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दाऽऽदिविषयोदभूतकषायाः, संसारे संसारविषयं, मूलस्थानमेवेति। एतदुक्तं भवति-रागाऽऽधुपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावाऽऽरोपणेनान्धादप्यन्धतमः कामी मोदते / तत आह" दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति। कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते॥१॥" द्वेषं वा कर्कशशब्दाऽऽदौ व्रजतीति। ततश्चमनोज्ञेतरशब्दाऽऽदिविषयाः कषायाणां मूलस्थानं, तेच संसारस्येति गाथातात्पर्यार्थः / आचा०नि० 1 श्रु०२ अ०१ उ० / उत्त० / नि० चू०। सूत्र०। कहि णं भंते ! बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं अट्ठसु पुढवीसु / तं जहा-रयणप्पभाए, सक्करप्पभाए, वालुयप्पभाए, पंकप्पमाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए, अहे सत्तमाए ईसिप्पभाराए, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु निरएसु निरयावलियासु निरयपत्थडेसु, उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, तिरियलोए टंकेसु कूडेसु सेलेसु सिहरिसु पन्भारेसु विजयेसु वक्खारेसु वासेसु वासहरपव्वएसु वा वेलासु वेइयासु दारेसु तोरणेसु दीवेसु समुद्देसु / एत्थं णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेनभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। 'कहि णं भंते !' इत्यादि / (कहि त्ति) कस्मिन् , 'ण' शब्दो वाक्यालङ्कारे / भदन्तेति परमगुर्वामन्त्रणम / बादरपृथिवीकायिकानां पर्याप्तानां स्थानानि स्वस्थानाऽऽदीनि प्रज्ञप्तानि प्ररूपितानि ? एवं गौतमस्वामिना प्रश्ने कृते भगवान् वर्द्धमानस्वाम्याह-गौतम!" सहाणेणं "इत्यादि। ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमात्रावाप्तप्रवृष्टश्रुतज्ञानाऽऽवरणक्षयोपशमश्चतुदशपूर्ववित् सर्वाक्षरसन्निपाती विवक्षितार्थप्रतिज्ञानसमन्वित एव, ततः किमर्थपृच्छति? नहि चतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य कश्चित् प्रज्ञापनीयमविदितमस्ति। यत उक्तम्-"संखाईए विभवे, साहइ जं वा पुरो उपेच्छेज्जा। नयणं अणाइसंसी, वियाणई एस छउमत्थो"। 1 // सत्यमेतत्। केवलं जानन्नेव गौतमस्वामी भगवान् अन्यत्र विनयेभ्यः प्रतिपाद्य तत्सम्प्रत्ययनिमित्तं विवक्षितार्थ पृच्छति। यदि वा-प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपंसूत्रम् , अतो भगवानार्यश्यामोऽपीत्थमेव सूत्रं रचयति। अथवा सम्भवति तस्यापि गणभृतो गौतमस्वामिनोऽनाभोगः, छद्मस्थत्वात्। उक्तं च- "न हि नामानाभोगः, छास्थस्येह कस्यचिन्नास्ति। ज्ञानाऽऽवरणीयं हि, ज्ञानाऽऽवरणप्रकृतिकर्म॥१॥' ततो जातसंशयः सन् पृच्छतीति न कश्चिद्दोषः। ' गोयमा! ' इति लोक प्रथितमहाविशिष्टगोत्रभिधायकोपमाऽऽमन्त्रणध्वनिः / हे गौतम ! गौतमगोत्रेति भावार्थः / (सट्टाणेणं इति) स्वस्थानं यत्राऽऽसते बादरपृथिवीकायिकाः पर्याप्ताः आसनाश्च वर्णाऽऽदिविभागेनाऽऽदेष्टु शक्यन्ते तत्स्वस्थानमिति भावः / स्वस्थानग्रहणमुपपातसमुद्धातस्थाननिवृत्त्यर्थम् , तेन स्वस्थानेन, स्वस्थानमङ्गीकृत्येति भावः / अष्टासु पृथिवीषु, सर्वत्र बादरपृथिवीकायिकानां पर्याप्तानां स्थानानीति योगः। ता एवाष्टौ पृथिवीमिग्राहमाह- " तंजहा" इत्यादि। तद्यथा-रत्नप्रभायां यावदष्टम्यामीषत्-प्रारभारायाम् , तथाऽधोलोकेपातालेषु पातालकलशेषु बलयामुखप्रभृतिषु, भवनेषु भवनपतिनिकायाऽऽवासरूपेषु भवनभूमिकारूपेषु। इह भवनग्रहणेन भवनानामेव केवलानां ग्रहणम्; भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि; तथा नरकेषु प्रकीर्णकरूपेषु नरकाऽऽवासेषु, नरकाऽऽवलिकासु आवलिकाव्यवस्थितेषु नरकाऽऽवासेषु , नरकप्रस्तटेषु नरक भूमिरूपेषु, अत्रापि नरकनरकाऽऽवलिकाग्रहणेन केवला एव नरकाऽऽवासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि। ऊर्द्धलोवेकल्पेषु सौधर्मिकाऽऽदिकल्पेषु, अनेन द्वादश देवलोकपरिग्रहः। विमानेष ग्रैवेयकसम्बन्धिषु प्रकीर्णकरूपेषु, विमानाऽऽवलिकासु आवलिकाप्रविष्टे सु ग्रैवेयकाऽऽदिविमानेषु, विमानप्रस्तटेषु विमानभूमिकारूपेषु: अत्रापि प्रस्तटग्रहणं विमानान्तरालभाविनामपि यथासंभवभाविना बादरपर्याप्तपृथिवीकायिकानां स्थानपरिग्रहार्थ ; तथापि तिर्यग्लोकेटड्डेषु छिन्नटड्डेषु, कूटेषु सिद्धाऽऽयतनकूटप्रभृतिषु, शैलेषु शिखरहीनपर्वतेषु, शिखरिषु शिखरयुक्तेषु पवर्तेषु, प्राग्भारेषु ईषत्कुब्जेषु, विजयेषु कच्छाऽऽदिषु, वक्षस्कारेषु विद्युत्प्रभाऽऽदिषु पर्वतेषु, वर्षेषु भरताऽऽदिषु, वर्षधरेसु हिमवदादिपर्वतेषु, वेलासु समुद्राऽऽदिपानीयरमणभूमिषु, वेदिकासु जम्बूद्वीपजगत्याहिसंबन्धिनीषु, द्वारेषु विजयाऽऽदिषु, तोर