________________ ठाण 1666 - अमिधानराजेन्द्रः भाग - 4 ठाण मोक्तसामाचारी नातिक्रामन्ति 1 / तथा राजधानीयत्र राजाऽभिषिच्यते, वासमुपगताः, निवासं प्राप्ता इत्यर्थः / (एगइया य त्ति) एकका एकतरा, निर्ग्रन्था निर्ग्रन्थिका वा, चः पुनरर्थः / अत्र ग्रामाऽऽदौ उपाश्रयं गृहपतिगृहाऽऽदिक मिति / 2 / तथा (अत्थेत्ति) अथ गृहपतिगृहाऽऽदिकमुपाश्रयमलब्ध्वा / (एगइया) एके के चन नागकुमाराऽऽवासाऽऽदौ वासमुपगताः। अथवा (अत्थेत्ति) इह संबध्यते, अस्ति सन्ति भवन्ति, निवासमुपगताः, तस्य च नागकुमाराऽऽवासाऽऽहेरतिशून्यत्वात् / अथवा-बहुजनाऽऽश्रयत्वादनायकत्वाच निर्ग्रन्थिकारक्षार्थमकत एव स्थानाऽऽदि कुर्वाणा नातिक्रामन्तीति 3 / तथा आमुष्णन्तीत्यामोषकाश्चौराः, दृश्यन्ते च इच्छन्ति निर्गन्थिकाः (चीवरवडियाए त्ति) चीवरप्रतिज्ञया वस्त्राणि गृहीष्याम इत्यभिप्रायेण, प्रतिग्रहीतुं यत्रेति गम्यते / तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति 4 / तथा मैथुनप्रतिज्ञयामैथुनार्थमिति 5 / इदमपवादसूत्रम् / उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयः। ताश्चेमाः" भयणपयाण चउण्हं, अण्णतरजुए उ संजए संते। जे भिक्खू विहरेजा, अह वा वि करिज सज्झायं" // 1 // (एकः साधुरेका स्त्रीत्यादिभड़कानामित्यर्थः)। " असणादिं वा हारी, उच्चारादि च आवरिज्जाहिं। निदुरमसाधुजुत्तं, अणंतरकहं च जो कहए॥२॥" (स्त्रीभिः सहेति) " सो आणा अणवत्थं, मिच्छत्तविराहणं तहा दुविह। पावइ जम्हा तेणं, एए उपए वि वजेजा।। 3 / / " " वीयपयमणपज्झे गेलन्नुवसग्गरोहगट्ठाणे। संभमभयवासासु य, खंतियमाईण णिक्खमणे / / 4 / / " ति। (अपवादोऽनात्मवश इत्यर्थः) स्था०५ ठा०२ उ०। परमाण्वादीनां स्थितिपरिणामे, विशे० / स्थीयते अनेनेति स्थानम् / कायोत्सर्गपर्यडूबन्धपद्माऽऽसनाऽऽदिसकलशास्वसिद्धे आसनविशेषे, षो०१२ विव० प्रकारे, स्था० 10 ठा० भेदे, आ० चू० 4 अ०स०। स्था०1 पदे, स्था० 10 ठा०। उत्कर्षापकर्षरूपे (उत्त०३४ अ०) गुणविशेषे, स्था०५ ठा०३ उ०।आकारे, ओघका पर्याये, आव०४ अाकारणे, स्था०२ठा०४ उ००। उपादानकारणे, सूत्र०१श्रु०१अ०२ उ०। आचा०। निमित्ते, स०२६ सम०। तिष्ठन्त्यस्मिन्निति स्थानम्। सामान्ये, भ० 1 श०१ उ० / आचा०। व्य० / वस्तुनि, स्था०६ ठा० / ज्योतिःस्थाने, यन्त्रस्थाने च। नि०१ श्रु०३ वर्ग 3 अ० आश्रये, सूत्र० 1 श्रु०११ अ० स्था०। आव० / आवासे, उत्त०५ अ०। स्थानस्य पञ्चदशधा निक्षेपमाहनाम ठवणा दविए, खेत्तऽद्धा उड्ड उवरई वसही। संजम पग्गह जोधे, अचल गणण संधणा भावे / / 83 / / तत्र द्रव्यस्थानं-ज्ञशरीरभव्यशरीरव्यतिरिक्त, द्रव्याणां सचित्ताचित्तमिश्राणां स्थानमाश्रयः / क्षेत्रस्थानं भरताऽऽदि, ऊवधिस्तिर्यग्लोकाऽऽदि चेति: यत्र क्षेत्रे स्थानं व्याख्यायते / अद्धाकालस्ततस्थानंद्विधा, कायस्थितिभवस्थितिभेदात् / तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसंख्येया उत्सर्पिण्यवसर्पिण्यः / वन-स्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणामसंख्येया वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा, भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्राऽऽत्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शताऽऽदीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकानामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमराऽऽदीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाऽऽदीनां च कायस्थितेर्भावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति। इयमुत्कृष्टा / जघन्या तु सर्वेषामन्तमुहूर्ताऽऽत्मिका, नवरं देवनारकयोर्दशवर्षसहस्राणीति / अथवा अद्धास्थानसमयावलिकामुहूर्ताहोरात्रपक्षमासर्वयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसद्धिारूपमिति / ऊर्ध्वस्थानं तु-कायोत्सर्गाऽऽदिकम् , अस्योपलक्षणात्वान्निषद्याऽऽद्यपि गृह्यते, उपरतिर्विरतिः, तत्स्थानंदेशे सर्वत्र च श्रावकसाधुविषयम्। वसतिस्थानयो यत्र ग्रामगृहाऽऽदौ वसति। संयमस्थान-संयभः सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपराये यथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्ख्येयानि संयमस्थानानि। किं तदसंख्यम् ? इति चेत्, अतीन्द्रियत्वादर्थस्यन साक्षान्निर्देष्टु शक्यते। आगमानुसारोपमया तूच्यते-इहैकसमयत्वेन सूक्ष्माग्निजीवा असंख्येयलोकाऽऽकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असंख्येयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसंख्येयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसंख्येयगुणानि संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः। विशेषतस्तूच्यतेसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसंख्येयलोकाऽऽकाशतुल्यानि संयमस्थानानि सूक्ष्मसंपरायस्यान्तौहूर्तिकत्वादन्तमुहूर्तसमयतुल्यान्यसंख्येयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्ट संयमस्थानम् / अथवा-संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि; सा चानेन क्रमेण भवति / तद्यथाअनन्त चारित्रपर्यायनिष्पादितमेकं संयमस्थानमसंख्येयसंयमस्थाननिर्वत्तितं कण्डकं, तैश्चासंख्येयैर्जनितं षट्स्थानकं, तदसंख्येयाऽऽत्मिका श्रेणीति। प्रग्रहस्थानं तु-प्रकर्षण गृह्यन्ते वाचोऽस्येति प्रग्रहः, ग्राह्यवाक्यो नायक इत्यर्थः। स च लौकिको, लोकोत्तरश्च। तस्य स्थानं प्रग्रहस्थानम्। लौकिकं तावत्पञ्चविधम्। तद्यथा-राजा, युवराजो, महत्तरः, अमात्यः, कुमारश्चेति / लोकोत्तरमपि पञ्चविधम् / तद्यथाआचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदिभेदात् / योधस्थानं पञ्चधा। तद्यथा-लीढप्रत्यालीढवैशाखमण्डलसमपादभेदात्। अचलस्थानं तुचतुर्दा, सादिसपर्यवसानभेदात् / तद्यया-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशाऽऽदाक्वस्थानं जघन्यत एकं समयम् , उत्कृष्टतश्चासंख्येयकालमिति। साद्यपर्यवसानानां सिद्धानां भविष्यदद्वारूपम् ; अनादिसपर्यवसानमतीताद्धारूपस्य शैलेश्यवस्थाऽन्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति। अनाद्यपर्यवसानं धमाधाऽऽकाशानामिति / गणनास्थानम्- एकद्व्यादिकं शीर्षप्रहेलिकापर्यन्तम् / सन्धानस्थानं द्विधाद्रव्यतो, भावतश्च।पुनरप्येकैकंद्विधा, छिन्नाच्छिनभेदात्। तत्र द्रव्यच्छिन्नसन्धानं कशुकाऽऽदेः / अच्छि नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति।भावस्थानमपिप्रशस्ताप्रशस्तभेदादद्वेधा। तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपक श्रेण्यामारोहतो जन्तो