________________ ठाण 1668 - अभिधानराजेन्द्रः भाग - 4 ठाण णेषु द्वाराऽऽदिसंबन्धिषु, किंबहुना ? सामस्त्येन सर्वेषु द्वीपेषु समुद्रेषु / "एत्थ णं'' इत्यादि / अत्र एतेषु स्थानेषु बादरपृथिवीकायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि, मया, अन्यैरपि तीर्थकृ द्भिः / "उववाएणं' इत्यादि / उपपातो बादरपृथिवीकायिकाना पर्याप्तानां यदनन्तरमुक्तं तत्प्राप्त्याभिमुख्यमिति भावः, तेनोपपातमङ्गीकृत्येति भावः / लोकस्य चतुर्दशरज्ज्वात्मकस्यासङ्ख्येयभागे। अत्रैके व्याचक्षते-ऋजुसूत्रनयो विचित्रः, ततो यदा परिस्थूरऋजुसूत्रनयदर्शनन बादरपृथिवीकायिकाः पर्याप्ताश्चिन्त्यन्ते, तदा ये स्वस्थानप्राप्ता आहाराऽऽदिपर्याप्तिपरिसमाप्त्या विशिष्टविपाकतो बादरपर्याप्तपृथिवीकायिकाऽऽयुर्वेदयन्ते, त एव द्रष्टव्याः, नापान्तरालगतावपि. तदानीं विपाकाऽऽयुर्वेदनासंभवात् / स्वस्थानं च तेषां रत्नप्रभाऽऽदिक समुदितमपि लोकस्यासढयेयभागे वर्तते / तत उपपाते नापि लोकस्यासङ्ख्येयभागगता वेदि-तव्याः / अन्ये त्वभिदधतिपर्याप्ता हि नाम-बादरपृथिवीकायिकः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपि परिगृह्यमाणा लोकस्यासङ्ख्येयभाग एवेति न कश्चिद्दोषः। तथा चसमुद्घातेनापि लोकस्यासङ्ख्येयभाग एव वक्ष्यन्ते / अन्यथा समुद्घातावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादस ख्येयभागवर्तिता नोपपद्यत इति / तत्त्वं पुनः केवलिनो विदन्ति, विशिष्टश्रुतविदो वा। तथा-(समुग्घाएणं लोगस्स असंखेजइ भागे इति) समुद्घातेन समुद्घातमधिकृत्य, लोकस्यासङ्ख्येयभागे / इयमत्र भावना-यदा बादरपर्याप्तपृथिवीकायिकाः सोपक्रममायुषा, निरुपक्रममायुषा वा त्रिभागाऽऽद्यवशेषायुषः परभविकमायुर्बद्धा मारणान्तिक समुद्घातेन समवहन्यन्ते, तदा ते विक्षिप्ताऽऽत्मप्रदेशदण्डा अपि लोकस्यासङ्ख्येयतम एव भागे वर्तन्ते, स्तोकत्वात् / बादरपृथिवीकायिकपर्याप्तायुश्चाद्याप्यक्षीणमिति पर्याप्तबादरपृथिवीकायिका अपि लभ्यन्ते / इह पूर्वं पृथिव्यादिषु स्वस्थानमात्रमुक्तम् / इदानीं स्वस्थानेनापि कियतिलोकस्य भागे वर्तन्ते इति निरूपयति-(सहाणेणं लोगस्स असंखेजइ भागे इति) स्वस्थानं रत्नप्रभाऽऽदि / तत्र समुदितमपि लोकस्यासंख्येयभागवति / तथाहि-रत्नप्रभा अशीतियोजनसहस्राधिकलक्षप्रमाणपिण्डभावा, एवं शेषा अपि पृथिव्यः स्वस्वधनभावेन वक्तव्याः / पातालकलशा अपि योजनलक्षावगाहाः, नरकाऽऽवासास्त्रिसहस्रयोजनोच्छ्रयाः, विमानान्यपि द्वात्रिंशद्योजनशतबहुलानि; ततः सर्वेषामपि परिमितभावात् समुदितानामप्यसंख्येयभागवर्तितैवेति॥ कहिणं भंते ! बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणापण्णत्ता ? गोयमा ! जत्थेव बादरपुढविकाइयाणं पञ्जत्तगाणं ठाणा पण्णत्ता, तत्थेव बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पपणत्ता / उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे॥ बादरापर्याप्तपृथिवीकायिकसूत्रे-(उववाएणं सव्वलोए, समुग्घाएण सव्वलोए इति) इहापर्याप्ता बादरपृथिवीकायिका अपान्तरालगतावपि स्वस्थानेऽपि चापर्याप्तवादरपृथिवीकायिकाऽऽयुर्विशिष्टविपाकतो वेदयन्ते, तथा देवनैरयिकवर्जेभ्यः शषसर्वकायेभ्यश्चोपपद्यन्ते, उद्वृत्ता अपि च देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु गच्छन्ति। ततोऽपान्तरालगतावपि वर्तमाना अमी गृह्यन्ते इति / प्रभूताश्च स्वभावतोऽपीत्युपपातेन समद्घातेन च सर्वलोके वर्तन्ते / अन्ये तु अभिदधतिस्वभावतएवामी बहव इति, उपपातेन समुद्घातेन च सर्वलोकव्यापिनः, तत्रोपपातः केषाश्चिद्वक्रगत्या, तत्र ऋजुगतिः सुप्रतीता / वक्रस्थापना चैवम्-अत्र यदेव प्रथमं वकमेके सहरन्ति, तदेवापरेतद्वक्रदेशमापूरयन्ति, एवं द्वितीयवक्रदेशसंहरणेऽपि, तत्रोत्पत्तावपि प्रवाहतो निरन्तरमापूरणं भावनीयम् / (सहाणेणं लोगस्स असंखेज्जइभागे इति) यथा पर्याप्तानां भावितं, तथा अपर्याप्तानामपि भावनीयम् , तन्निश्चयैस्तेषामुत्पादभावात! कहि णं भंते ! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपजत्तगाण य ठाणा पण्णत्ता? गोयमा ! सुहमपुढविकाइया जे पज्जत्तगा, जे य अपजत्तगा,ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोएपरियावन्नगा पण्णत्ता समणाउसो ! प्रज्ञा०२ पद०। कहि णं भंते ! अणंतरोववण्णगबायरपुढविकाइयाणं ठाणा पण्णत्ता? गोयमा ! सट्ठाणेणं अट्ठसु पुढवीसुतं जहा-रयणप्पभा जहा सहाणपदे०जाव दीवसमुद्देसु / एत्थ णं अणंतरोववण्णगाणं बादरपुढविकाइयाणं ठाणा पण्णत्ता / उववातेणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेजइभागे। (भ०) सट्ठाणेणं सव्वेसिंजहा ठाणपदे, तेसिं पज्जत्तगाणं बायराणं उववायसमुग्घायसवाणाणि जहा तेसिं चेव अपज्जत्तगाणं बादराणं, सुहमाणं सव्वेसिं जहा पुढवीकाइयाणं भणिया, तहेव भाणियव्वा० जाव वणस्सइकाइय त्ति / भ०३४ श० 1 उ० / कहि णं भंते ! बादरआउकाइयाणं पञ्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं सत्तमु घणोदधिसु सत्तसु घणोदधिबलएसु, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु, उडलोए कप्पेसु कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, तिरियलोए अगडेसु तलाएसु सरेसु नदीसु दहेसु वावीसु पुक्खरिणीसुदीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलपंतियासु उज्झरेसु णिज्झरेसु चिल्ललेसु. पल्ललेसु वेप्पिणेसुदीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु जलभूमिआसु / एत्थ णं बादरआउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता / उववाएणं लोयस्स असंखेज्जइभागे० / कहिणं भंते ! वायरआउकाइयाणं अपनत्तगाण ठाणा पण्णत्ता ? गोयमा! जत्थेव बादरआउकाइयाणं पज्जत्तगाणं ठाणा, तत्थेव बादरआउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता / उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेजइभागे / कहिणं भंते ! सुहुमआउकाइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! सुहुमआउकाइया जे य पज्जतगा, जे य अपज्जत्तगा, ते सव्वे एगविहा अविसेसा