________________ ठवणाकुल १६९१-अभिधानराजेन्द्रः भाग - 4 ठवणाकुल द्रव्यं शाल्यादि, तस्य प्रमाणं ज्ञातव्यम्-कियदत्र गृहे रसवत्यां शालिमुदगाऽऽदि दिने दिने प्रविशति ? गणना नामकियन्ति घृतपलान्यत्र प्रविशन्ति / यद्वा-कियन्ति मानुषाण्यत्र जेम(य) न्ति / क्षारो लवणं, तेन संस्कृतानि क्षारितानिकरीराऽऽदीनि व्यञ्जना-नि, तानि कियन्त्यत्र पच्यन्त इति? (फोडिय त्ति) स्फोटितानि मरिचजीरकाऽऽदिकटुभाण्डधूपितानि शालनकानि / एतेषामपि तथैव प्रमाण ज्ञातव्यम् / अद्धा कालः, स ज्ञातव्यः-किमत्र प्रहरे वेला, उत सार्द्धप्रहरे, आहोस्वित्प्रहरद्वये इति / एतद् द्रव्यप्रमाणा-ऽऽदि विज्ञाय संविग्नो मोक्षाभिलाषी / (एगठाणे त्ति) एकः संघाटकः, तत्र प्रविशति / यदि पुनरने के साधवः स्थापनाकुलेषु प्रविशन्ति, ततः पञ्चदशाऽ5धाकर्माऽऽदयोऽनिसृष्टान्ता उद्गमदोषा भवन्ति, अध्यवपूरकस्य मिश्रजातएवान्तर्भावात्। एष संग्रहगाथासमासा-र्थः / अस्या एव भाष्यकृद्द्व्याख्यानमाहअसणाइदव्वमाणे, दसपरिमिएँ एगभत्तमुव्वरति। सो एगदिणं कप्पड़ा, निचं तुऽज्झोयरो इहरा (" सो एगदिणं कप्पतिऽणेकतिएँ ओदरो इहरा।" इति प्राचीनपुस्तकस्थ-पाठः) / / 780 // अशनमोदनमुद्गाऽऽदि, आदिग्रहणात्पानकखादिमस्वादिमपरिग्रहः / एतेषां द्रव्याणां परिमितानामपरिमितानां च मानं प्रमाण ज्ञातव्यम् / यत्र परिमितमशनाऽऽदि द्रव्यं प्रविशति, तत्र दशानां मानुषाणां हेतोरुपकस्क्रियमाणे, एकस्यापरस्य योग्यं भक्तं भक्ता-र्थमुद्वरति। स च भक्तार्थ एकस्य साधोः परिपूर्णाऽऽहारमात्ररूप एकं दिनं ग्रहीतुं कल्पते। इतरथा यदि द्वितीयाऽऽदिदिवसेषु गृण्हन्ति, तदा(निच्चं तु त्ति) स साधुभिः प्रतिदिवसं गृह्यमाणो भक्तार्थों नित्यजेमनमेव तैः श्राद्धगण्यते. ततश्च तदर्थमध्यवपूरकः प्रक्षिप्येत। एवं तावत्परिमितमाश्रित्योक्तम्। अयापरिमितमधिकृत्याऽऽहअपरिमियारद्धेण वि, दसण्हमुव्वरइ एगभत्तट्ठो। वंजणसमितिमपिढे, वेसणमाईसु य तहेव / / 781 // यत्र पुनरपरिमितं राध्यते, तत्र दशानां मानुषाणामगिपि नवाष्टाऽऽदिसङ्ख्याकानामपि हेतोः,राद्धे, एकस्य योग्यो भक्तार्थ उदरति।सच दिने दिने कल्पत इति / आह च चूर्णिकृत्-" अपरिमिए पुण भत्ते, दसण्हहारेण विएगस्स भत्तट्टो दिणे दिणे कप्पइचेव।" तथाव्यञ्जनानि तीमनवटिकाभर्जिकाऽऽदीनि। (समितिम त्ति) समिता कणिका, तया निष्पन्नाः, समितिमा:-मण्डकाः, पूपुलिका वा, पिष्ट मुण्डेरकाऽऽदि। सक्तृप्रभृति वा / (वेसणं) मरिचजीरकहिड्डु प्रभृतिकं कटुभाण्डम् / आदिग्रहणाल्लवणशुण्ठ्यादिपरिग्रहः। एतेषामपि परिमाणं तथैव द्रष्टव्यं, यथा अशनाऽऽदीनाम् / एतावता द्रव्यप्रमाणं गणना क्षारितस्फोटितानीति गाथादलं भावितम्। अथ" अद्धा यत्ति " पदं व्याचष्टेसतिकालद्धं नाउं, कुले कुले ताहि तत्थ पविसंति / ओसक्कणाइ दोसा, अलं. बालाइहाणी य॥७२॥ सत्कालाद्धाभिक्षायाः संबन्धी यः, तत्र देशकालरूपोऽद्धा, तं ज्ञात्वा, कुले कुले, तस्मिन् देशे, तत्र काले, प्रविशन्ति / अथ देशकाले अतिक्रान्तेऽप्राप्ते वा प्रविशन्ति, ततोऽवष्वष्कणाऽऽदयो दोषाः / अथावष्वष्कणाऽऽदिकं तानि श्राद्धकान्यशुद्धदानदोषश्रवणव्युत्पनमतीनि न कुर्युः, ततः प्रायोग्यद्रव्यस्यालाभे बालाऽऽदीनां हानिर्भवेदिति। एगो व होज गच्छो, दोन्नि व तिन्नि ठवणा असंविग्ग। सोही गिलाणमाई, असईइ दवाइ एमेव / / 783 / / विवक्षितक्षेत्र एको वा गच्छो भवेत् , द्वौ वा, त्रयो वा / तत्रैकं गच्छमाश्रित्य विधिरुक्तः / अथ द्यादीन् गच्छानधिकृत्य विधिरभिधीयते(ठवणा असंविगे त्ति) येषु असंविग्नाः प्रविशन्ति, तेषां श्राद्ध-कुलानां स्थापना कर्तव्या। न तेषु प्रवेष्टव्यम्। अथ प्रविशन्ति,ततः पञ्चदशोद्गमदोषानापद्यन्ते। (सोहि त्ति) तद्दोषनिष्पन्नाशोधिः प्रायश्चित्तम्।यदा" सोहि त्ति पदं गिलाणमाई" इत्युत्तरपदेन सहयोज्यते। अतोऽयमर्थःग्लानप्राघूर्णकाऽऽदीनामर्थाय, असंविग्नभावितेष्वपि कुलेषु शोधिरेषणाशुद्धिः / तया शुद्धं भक्तं गृह्यते, न कश्चिद्दोषः।"(असई दवाइएमेव त्ति) " अन्यत्रासति अविद्यमाने, द्रवाऽऽदिकमप्येवमेवअसंविग्नभावितकुलेषु ग्रहीतव्यमिति द्वारगाथासमासार्थः / अथैनामेव विवरीषुराहसंविग्गमणुन्नाते, अतिंति अहवा कुले विरंचिंति। अण्णातुंच्छं च सहू , एमेव य संजईवग्गे / / 754 // इह यैस्तत् क्षेत्रं प्रत्युपेक्षितं, तेषु पूर्वस्थितेषु ये अन्ये साधवः समायान्ति, ते साम्भोगिकाः, असाम्भोगिकाश्च / तत्र चासाम्भोगि-केषु संविग्नेषु विधिरुच्यते-संविग्नैर्वास्तव्यसाधुभिः, अनुज्ञाते पूर्वस्थापनाकुलेषु, 'प्रविशत, वयमज्ञातोञ्छ गवेषयिष्यामः, इत्ये - वमनुज्ञायां प्रदत्तायामागन्तुकाः संविग्नाः स्थापनाकुलेषु (अतिंति त्ति) प्रविशन्ति / वास्तव्यास्तु स्थापनाकुलवर्जेषु गुरुबालवृद्धाऽऽदीनामात्मनश्च हेतोभक्तपानमुत्पादयन्ति / अथवा वास्तव्या असहिष्णवः, ततो यावन्तो गच्छाः, तावद्भिर्भागः स्थापनाकुलानि विरचयन्ति-आर्याः ! एतावत्सु कुलेषु भवद्भिः प्रवेष्टव्यम् , एतावत्सु पुनरस्माभिरिति / अथवा यद्यागन्तुकाः (सहू इति) सहिष्णवः समर्थशरीराः, ततोऽज्ञातोञ्छं गवेषयन्तः पर्यटन्ति / एवमेव च संयतीवर्गेऽपि द्रष्टव्यम् / ता अपि व्यादिगच्छसद्भावे एवंविधमेवंविधं कुर्वन्तीत्यर्थः। एवं तु अण्णसंभो-इआण संभोइआण ते चेव। जाणित्ता निव्वंधं, वत्थव्वेणं स तु पमाणं // 785 // एवं तुः पुनरर्थे, एवं पुनर्विधिरन्यसाम्भोगिकानामुक्तः ये तु साम्भोगिकाःपरस्परमेकसामाचारीकाः, तेषामागन्तुकानामर्थाय त एव वास्तव्याः स्थापनाकुलेभ्यो भक्तपानमानीय प्रयच्छन्ति / अथ श्राद्धाः प्राघूर्णकभद्रका अतीव निर्बन्धं कुर्युः / यथा-प्राघूर्णक संघाटकोऽप्यस्मद्गृहे प्रस्थापनीयः / ततो निर्बन्धं ज्ञात्वा, वास्तव्यसंघाटकेनाऽऽगन्तुक संघाटक गृहीत्वा तत्र गन्तव्यम् / यदि च-तत्र प्रचुरप्रायोग्यं प्राप्यते, तत आगन्तुकसंघाटकेन गवेषणा न कर्त्तव्या / यथा-किमित्येतावत्प्रचुरं दीयते ? किं तु, (स तु) स एव वास्तव्यसंघाटकः, तत्र प्रमाण यावन्मात्रं गृहीतव्यम् , यदा कल्पनीयं, तदेतत्सर्वमपि स एव जानातीति भावः / एष एकस्यां वसतौ स्थितानां विधिरुक्तः / बृ०१ उ०। ओघ०।