SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ठवणाकुल 1660 - अभिधानराजेन्द्रः भाग - 4 ठवणाकुल णादोषाणामेव स्वगतानेकभेदसूचकः / आह-गोचरप्रविष्टानां साधूनां कथाप्रबन्धः कर्तुं न कल्पते / अमी च साधव इत्थमेषणादोषाऽऽदीनां कथाप्रबन्धतः कथं न दोषभाजो भवन्तीति ? उच्यते-न च नैवात्र, कथाप्रबन्धदोषा भवन्ति। यदिह भक्तपानलोलुपतया कथां प्रबध्नीयुः, ततो भवेयुर्दोषाः, तच नास्ति, एषणाशुद्धिहेतोरेव तेषामित्थं कथनात्। अथ च प्रत्युतेत्थं कथयद्भिस्तैर्गीतार्थैर्गुणाः-बालवृद्धाऽऽधुपष्ट - म्भगुरुप्रभृतयः, साधिता भवन्ति। कथं पुनस्ते कथयन्ति? इत्याहठाणं गमणागमणं, वावारं पिंडसोहिमुल्लोगं / जाणताण वि तुभं, बहुवक्खेवाण कहयामो / / 773 / / स्थानं नाम-आत्मप्रवचनसंयमोपघातवर्जितो भूभागः। यत्र स्थितस्य गवाश्वमहिषाऽऽदेराहननाऽऽदिन भवति, स आत्मोपघातवर्जितः / यत्र तु निर्द्धमनाऽऽद्यशुचिस्थानव्यतिरिक्ते प्रदेशे स्थितस्य लोकः प्रवचनस्यावर्ण नबूयात् , स प्रवचनोपघातवर्जितः। यत्र पुनः पृथिव्यादिकायानां विराधना न भवति, स संयमोपघातवर्जितः / गमनं, गच्छता षट्कायानामुपमर्दनं कुर्वता नगन्तव्यम्। एवमागमनमपि, भिक्षां गृहीत्वा साधुसंमुखमागच्छता दायके नोपयुक्ते नाऽऽगन्तव्यम् / व्यापारः कर्तनकण्डनपेषणाऽऽदिकः। तं च सम्यग् ज्ञापयन्तिईदृशे व्यापारे भिक्षा ग्रहीतुं कल्पते, ईदृशे तु नेति। पिण्डशुद्धेरुल्लोकं लेशोद्देशं कथयन्तिइत्थमाधाकर्माऽदयो दोषा उपजायन्ते ; इत्थमेभिर्दोषैरदुष्टः पिण्डः साधूनां दीयमानः शुद्धो बहुफलश्च भवतीत्येवंपिण्डनियुक्तिलेशतो ज्ञापयन्तीति भावः / तथा यद्यपियूयमिदं साधुधर्मरूपमग्रेऽपि जानीथ, तथाऽपि युष्माकं बहुव्याक्षेपाणामविस्मरणार्थ कथयाम इति। अपि चकेसिंचि अभिग्गहिया, अणमिग्गहिएसणाय के सिंचि। मा हु अवन्नं काहिह, सव्वे वि हु ते जिणाणाए।। 774 / / केषाञ्चित्साधूनाम् , अभिगृहीता एषणा। यथा-जिनकल्पिका-नाम्। केषाञ्चित्तु अनभिगृहीता। यथा-गच्छवासिनाम् , सप्तस्वपि एषणासु तेषां भक्तपानस्य ग्रहणात्। एवं चापरां भक्तपानग्रहणसामाचारी दृष्ट्वा यूयं मा / अवज्ञा करिष्यथ। कुतः? इत्याह-सर्वेऽपिते भगवन्तो जिनकल्पिकाः स्थविरकल्पिकाश्च, जिनाऽऽज्ञायां वर्तन्ते, स्वस्वकल्पस्थितिपरिपालनात् / अतो न केऽप्यवज्ञातुमर्हन्तीति भावः। किंचसंविग्गमावियाणं, लुद्धगदिटुंतभावियाणं च / मुत्तूण खेत्तकाले, भावं च कहिंति सुद्धछ / 775 / / येषां श्राद्धानां पुरत एषणादोषाः कथ्यन्ते, ते द्विधासंविग्नभाविताः, लुब्धकदृष्टान्तभाविताश्च / संविग्नरुद्यतविहारिभिर्भाविताः संविग्नभाविताः। ये तु पार्श्वस्थाऽऽदिभिर्लुब्धकदृष्टान्तेन भावितास्ते लुब्धकदृष्टान्तभाविताः / कथमिति चेत् ? उच्यते-पार्श्वस्थाः श्राद्धानित्थं प्रज्ञापयन्ति / यथा-कस्यापि हरिणस्य पृष्ठतो लुब्धको धावति, तस्य हरिणस्य पलायनं श्रेयः लुब्धकस्यापि तत्पृष्ठतो-ऽनुधावनं श्रेयः। एवं साधोरप्यनेषणीयग्रहणतः पलायितुमेव युज्यते; श्रावकस्यापि तेन तेनोपायेन साधोरेषणीयमनेषणीयं वा दातुमेव युज्यते इति / इत्थं द्विविधानामपि श्राद्धानां पुरतः शुद्धं द्वाचत्वारिंशदोषरहितं, यदुञ्छमिवोञ्छस्तोकस्तोकग्रहणात् , तच्छुद्धोज्छम् , उत्सर्गपदमित्यर्थः / तत्कथयन्ति। किं सर्वदैव ? नेत्याह-मुक्त्वा क्षेत्रकालौ, भावं चेति। क्षेत्रं कर्कशक्षेत्रमध्वान वा, कालं दुर्भिक्षाऽऽदिकं, भावं ग्लानत्वाऽऽदिकं प्रतीत्य, ते श्राद्धाः किञ्चि-दपवादमपि ग्राह्यन्ते। अपि च-इदमपि ते श्राद्धा ज्ञापनीयाःसंथरणम्मि असुद्ध, दोण्ह दि गिण्हंतदितयाणऽहियं / आउरदिटुंतेणं, तं चेव हियं असंथरणे / / 776 / / संस्तरण नाम-प्राशुकमेषणीयं वा अशनाऽऽदि पर्याप्त प्राप्यते, न च किमपिग्लानत्वं विद्यते; तत्राशुद्धम्-अप्राशुकमनेषणीयं च, गृह्णतो ददतच, द्वयोरपि, अहितमपथ्यम् गृह्णतः संयमवाधाविधायित्वात्। ददतस्तु भवान्तरे स्वल्पायुर्निबन्धकर्मोपार्जनात् / तदेवाशुद्धम् , असंस्तरणे अनिवहि, दीयमानं च हितं पथ्यं भवति / आह-कथं यदेवाकल्प्यं , तदेव च कल्प्यं भवितुमर्हतीति ? उच्यते-आतुरो रोगी, तस्य दृष्टान्तेनेदं मन्तव्यम् / यथा हि-रोगिणः कामप्यवस्थामाश्रित्य अन्नौषधाऽऽदिकमपथ्यं भवति, काञ्चित्पुनः समाश्रित्य तदेव पथ्यम् ; एवमिहापि भावनीयम् / तदेव भावितम्- " साहति य पियधम्मा, एषणदोसे अभिग्गहविसेसे।" (770 गाथा) इति। अथ यदुक्तम्-(एवं तु विहिगहणे त्ति) तत्र विधिग्रहणं भावयतिसंचइयमसंचइयं, नाऊण असंचयं तु गिण्हति।। संचइयं पुण कले, निव्वंधे चेव संतरितं / / 777 / / प्रायोग्यद्रव्यं द्विधा-सञ्चयिकमसञ्चयिकं च / सञ्चयिकंघृतगुडमोदकाऽऽदि / असञ्चयिकं तुदुग्धदधिशालिसूपाऽऽदि / तत्र यदसञ्चायिक, तत् स्थापनाकुलेषु प्रभूतं ज्ञात्वा गृह्णन्ति / सञ्चायिक पुनग्लानप्राघूर्णकाऽऽदौ महति कार्ये उत्पन्ने गृह्णन्ति / अथ श्राद्धानां महानिर्बन्धो भवति, ततोऽग्लाना अपि गृह्णन्ति, परं सान्तरितम् ; न दिने दिने इति भावः / एष सञ्चयिकग्रहणस्यापवाद उक्तः / अथापवादस्यापवादमाहअहवण सड्ढाविभवे, कालं भावं च बालबुड्डाई। नाउ निरंतरगहणं, अछिन्नभावे य ठायति / / 778 // "अहवण ति" अखण्डमव्ययं प्रकारान्तरद्योतनार्थम् / श्रावकाणां श्रद्धां दानरुचिं तीव्रां परिज्ञाय, विभवं च विपुलतरं तदीयगृहेऽवगम्य, कालं दुर्भिक्षाऽऽदिकं, भावंचग्लानत्वाऽऽदिकं, ज्ञात्वा, बालवृद्धाऽऽदयो वा आप्यायिता भवन्तीति ज्ञात्वा, निरन्तर-ग्रहणमपि कुर्वन्तिः सञ्चयिकमपि दिने दिने गृह्णन्तीति भावः। यावच दायकस्य दानभावोन व्यवच्छिद्यते, तावदच्छिन्ने भावे तिष्ठन्ति : दीयमानं प्रतिषेधयन्तीत्यर्थः / यथा तेषां भूयोऽपि श्रद्धा जायते। अथ स्थापनाकुले भक्तपानग्रहणे सामाचारीमभिधित्सुराहदव्वपमाणं गणणा,खारिय फोडिय तहेव अद्धाय। संविग्ग एगठाणे, अणेगसाहूसु पन्नरस // 776 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy