SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ठवणाकुल 1686 - अभिधानराजेन्द्रः भाग - 4 ठवणाकुल इदमकमा अथ वेलाऽतिक्रमभयाद्देशकएव तेषु प्रविशति, तत आत्मनोऽवशं भवेत्, उदरपूरणं न भवेदिति भावः। ततश्चैवमाहारतया तस्यैव अनागाढपरितापनाऽऽदयो दोषाः। अथ क्षपकक्रोधवतो दोषानाहपरिताविज्जइ खमओ, अह गिण्हइ अप्पणो इयर-हाणी। अविदिन्ने कोहिल्लो, रूसइ किं वा तुमं देसि ? // 765 / / यदि क्षपको गुरूणां हेतोः प्रायोग्यं गृह्णाति, नाऽऽत्मनः, ततः स एव परिताप्यते / अथाऽऽत्मनो गृह्णाति, तत इतरेषामाचार्याणा, हानिः परितापना / यस्तु क्रोधवान् , सोऽवितीर्णे-अदत्ते सति रुष्यति / रुष्टश्चागारिणं भणति-यदि भवान् न ददाति, तर्हि मा दात्। किं भवदीयं गृहं दृष्ट्वाऽस्माभिः प्रव्रज्या प्रतिपन्नेति? किं वा त्वं ददासि, येनैवमहं ददामीति गर्वितो भवसि ? इत्यादिभिर्दुर्वचनैः सार्द्ध विपरिणमयति। मानिमायिनोर्दोषानाहऊणाणुहमदिने, यद्धो न य गच्छए पुणो जं वा / माई भद्दगभोई, पंतेण व अप्पणो छाए॥ 766 // यः स्तब्धः मानी, स ऊने तुच्छे दत्ते. (अणुट्ट त्ति) अभ्युत्थाने वा अकृते (अदिन्न त्ति) सर्वथैव वा अदत्ते सति, पुनर्भूयः, तदीयं गृहं न गच्छति। भणति च-श्रावकाणामितरेषां च को विशेषः ? यदि द्वितयेऽपि साधूनामभ्युत्थानाऽऽदिविनयप्रक्रियामन्तरेण भिक्षां प्रवच्छन्ति ? ततो नाहममुष्य गृहं भूयः प्रविशामीति / ततो (जं व त्ति) तद्गृहिप्रवेशं विना प्रायोग्यस्यालाभे यत्किञ्चिदाचार्याऽऽदीनां परितापनाऽऽदिकं भवति, तन्निष्पन्नं प्रायश्चित्तम् / यस्तु मायी भद्रकभोजी, प्रायोग्यमुपाश्रयादहिभुक्त्वा प्रान्तमानयतीति भावः / यताप्रान्तेन वल्लघणकाऽऽदिना, आत्मनो योग्यं स्निग्धमधुर-द्रव्यं छादयति, छादयित्वा च गुरूणां दर्शयति। लुब्धस्य दोषामाहओभासइ खीराई, दिजंते वा न वारई लुद्धो। जेऽणेगविसुणदोसा, एगस्स वि ते उलुद्धस्स।। 767 // यो लुब्धः सन् स्थापनाकुलेषु क्षीराऽऽदीन्यवभाषते / यद्वाश्रद्धातिरेकतस्तैर्दीयमानानि स्निग्धमधुराणिनवारयति, ततश्च येऽनेकेषु स्थापनाकुलं ; प्रविशत्सु चमढणाऽऽदयो दोषा वर्णिताः, ते सर्वेऽप्येकस्यापि लुब्धस्य प्रवेशतो द्रष्टव्याः।। कुतूहलिनः सूत्रार्थप्रतिबद्धस्य च दोषामाहनडमाई पिच्छंतो, ता अत्थइ जाव फिडई वेला। सुत्तत्थे पडिबद्धो, ओसक्कऽभिसक्कमाईया।।७६८ / / या कुतूहली, स नटाऽऽदीन्प्रेक्षमाणस्तावदास्ते, यावद्वेला स्फिटति। यस्तु सूत्रे अर्थे वा प्रतिबद्ध आसक्तः, स गुरूणां धर्मकथाऽऽदिव्यग्रतया यदैवान्तरं लभते, तदैवाप्राप्तकालेऽपि भिक्षार्थमवतरति / वेलाऽतिक्रम वा कृत्वाऽकालवेलाऽऽदाववतरति, ततोऽवष्वष्कणाभिष्वष्कणाऽऽदणे दोषाः। यतश्चैवमतः किं कर्तव्यमिति? आहएसद्दोसविमुक्कं, कडजोगिं नायसीलमायारं। गुरुभत्तिमं विणीयं, वेयावचं तु कारेज्जा / / 766 // एभिरनन्तरोक्तः, दोषैर्विमुक्तं वर्जितम् / किं विशिष्टम् ? इत्याह-कृत योगिनं गीतार्थम् / ज्ञातशीलाऽऽचारम्-ज्ञाते सम्यगवगतं, शीलं प्रियधर्मताऽऽदिरूपम् , आचारश्चक्रवालसामाचारीरूपो यस्य स तथा, तम् / तथा गुरव आचार्याः, तेषु भक्तिमन्तमान्तरप्रतिबन्धोपेतम् / विनीतमभ्युत्थानाऽऽदिबाह्यविनयवन्तम्। एवंविधं शिष्यं वैयावृत्त्यमाचार्यः कारयेत् (" हक्रोरन्यतरस्याम् " // 1 / 4 / 53 / / (पाणि०) हक्रोरणौ यः कर्ता सणौ कर्म वा स्यात।" हक्रोर्नवा // 2 // 2 // 8 // (हैम०) हक्रोरणिकर्ता णौ कर्म वा स्यात्।) आह-किमर्थं वैयावृत्त्यकरस्येयन्तो गुणा मृग्यन्ते ? उच्यतेसाहतिय पियधम्मा, एसणदोसे अभिग्गहविसेसे। एवं तु विहिग्गहणे, दध्वं वर्ल्डति गीयत्था / / 770 / / प्रियधर्माणः, उपलक्षणत्वादपरैरप्यनन्तरोक्तगुणैर्युक्ता वैयावृत्त्यकराः (साहति त्ति) कथयन्ति, एषणादोषान्-मक्षितनिक्षिप्ताऽऽदीनि / यथाइत्थं म्रक्षितदोषो भवति, इत्थं तु निक्षिप्त इत्यादि। एतैश्च दोषैर्दुष्ट साधूनां न दीयते। अभिग्रहविशेषांश्च जिनकल्पिकस्थविरकल्पिकसंबन्धिनः, कथयन्ति। एवम्-उक्तेन विधिना, स्थापनाकुलेषु ग्रहणे, श्रद्धांवर्द्धयन्तो गीतार्थाः, द्रव्यमपि घृताऽऽ-दिकं वर्द्धयन्ति। इदमेव भावतिएसणदोसे व कए, अकए वा जइगुणविकत्थंता। कहयंति असढभावा, एसणदोसे गुणे चेव / / 771 / / एषणादोषे मक्षिताऽऽदौ, कृते वा अकृते वा, यतिगुणान् क्षान्तिमार्दवाऽऽदीन् , विकत्थमानाः-विविधं श्लाध्यमानाः, अशठभायाः कैतववर्जिताः, न भक्षणोपायनिमित्तमिति भावः / एषणादोषान् कथयन्ति। तथा गुणाः-साधूनां प्राशुकैषणीयभक्तपानप्रभवाः पापकर्मनिर्जराऽऽादयः, तांश्च, गीतार्थाः कथयन्ति। यथा-"समणोवासगस्सणं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंतसो निजरा कज्जइ, नत्थिय सो पावकम्मे कज्जइ ति"। अथेत्थं न कथयेयुः, ततः के दोषा इति? आहबालाई परिचत्ता, अकहिंतेऽणेसणाइगहणं वा। न य कहपबंधदोसा, अह य गुणा साहिया होति।। 772 / / तेषु श्राद्धकुलेषु जिनकल्पिका भिक्षार्थमायाताः, तेषां परमान्नाऽऽदिकं लेपकृतमुपनीतं, तैश्च भगवद्भिः प्रतिषिद्धम् / ततस्तानि श्राद्धकानि चिन्तयेयुः- 'एत एव प्रधानाः साधवः, इतरे तु स्निग्धमधुरद्रव्यग्राहिणः सर्वेऽपि नामधारकमात्राः साध्वाभासा एवं इति / ततः श्रद्धाभङ्गभाजितानि भूयः प्रायोग्यद्रव्यं नोपढौकयेयुः / एवमभिग्रहविशेषानकथयद्भिर्गीतार्थीलाऽऽदयः परित्यक्ता भवन्ति / अनेषणातो दोषान् , शुद्धभक्तपानदानस्य च गुणान्न कथयेयुः, ततस्तानि श्राद्धकान्यनेषणां कुर्युः। तत्र च यदि प्रतिषिध्यति, तदाऽपि बालाऽऽदयः परित्यक्तातेषां प्रायोग्याभावे संस्तरणाभावात् / अथ न प्रतिषिध्यते, ततोऽनेषणाऽऽदिग्रहणं भावयेत् / आदिशब्द एष
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy