SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ठवणा 1684 - अभिधानराजेन्द्रः भाग - 4 ठवणा (कुमुणं पियत्ति) कुमुणितमपिकरम्बाऽऽविरूपतया कृतमयि, यावन्तं कालमविनाशनात् कालं, तस्य स्थापना द्रष्टव्या। परतस्तु क्वथितत्वाद् दुष्यते एवेति भावः / तदेवं क्षीराऽऽदिक परम्परास्थापितमुक्तम्। साम्प्रतभिक्षुरसाऽऽदिकमपि परम्परास्थापितमाहरसकक्कवपिंडगुला-मच्छंडियखंडसकराणं च / होइ परंपरठवणा, अन्नत्थ व जुज्जए तत्थ / / इह केनापि साधुना किमपि प्रयोजनमुद्दिश्य कोऽपीक्षुरसं याचितः / स प्रतिज्ञातवान् क्षणान्तरे दास्यामि / साधुना चान्योक्षुरसो लब्धः। पूर्वमभ्यर्थितश्च ऋणभीत इव तमिक्षुरसं कक्कवं करोति, यावत् शर्करेति। एतेषां चेक्षुरसकक्कवाऽऽदीनामुत्तरोत्तरपिण्डगुडाऽऽदिपर्यायाऽऽपादनपुरस्सरं ध्रियमाणानां स्थापना परम्परस्थापना। एवमन्यत्रापि द्रव्यान्तरे यत्रैव परम्परया स्थापना घटते, तत्र परम्परास्थापना द्रष्टव्या। यावच स्थापितस्य नाधाकर्मसंभवः, तावदात्मार्थीकृतं कल्पते। कृतपाकाऽऽरम्भंतुन कल्पते। सम्प्रति " हत्थगयघरंतरं जाव " इति व्याचिख्यासुराहभिक्खग्गाही एग-त्थ कुणइ विइउ दोसु उवओगं / तेण परं उक्खित्ता, पाहुडिया होइ ठविया उ॥ भिक्षाग्राही एकत्रोपयोगं करोति, द्वितीयस्तु द्वयोहयोः, तत्र त्रिषु गृहेषूपयोगसम्भवे स्थापनादोषो न भवति / गृहत्रयात्परं साध्वर्थमुत्पादिता भिक्षा प्राभृतिका स्थापना भवति / उक्तं स्थापनाद्वार-म्। पिं०। स्थाप्यते इति स्थापना / वक्ष्यमाणेनाऽऽरोपणाप्रकारेण शुद्धीभूतेभ्यः सञ्चयमासेभ्यो शेषा मासास्तेषां प्रतिनियतदिवसग्रहणतो व्यवस्थापने, व्य० 10 उ० / नि० चू०। (प्रस्थापनाभेदाः ' पच्छित्त' शब्दे वक्ष्यन्ते) अनुज्ञायाम् , एतच्च पञ्चमं गौणमनुज्ञानाम् / नं० / पर्युषणायाम् , वर्षाकल्पादन्या मर्यादा स्थाप्यते अनयेति व्युत्पत्तेः। नि० चू० 10 उ०। (विशेषः ' पजुसणा' शब्दे वक्ष्यते) ठवणाकप्प-पु०(स्थापनाकल्प) अकल्पस्थापनाकल्प-शैक्षस्थापनाकल्पोभयरूपे साध्वाचारे, बृ०। ठवणाकप्पो दुविहो, अकप्पठवणाय सेहठवणा य। पढमो अकप्पिएणं, आहाराऽऽदीन गिण्हावे // स्थापनाकल्पो द्विविधः-अकल्पस्थापनाकल्पः, शैक्षस्थापनाकल्पश्च / तत्राकल्पिकेनानधीतपिण्डैपणाऽऽदिसूत्रार्थेन, आहाराऽऽदिकं न ग्राहयेत्-नाऽऽनाययेत् / तेन नीतं न कल्पत इत्यर्थः / एष प्रथमःअकल्पस्थापनाकल्प उच्यते। अट्ठारसे य पुरिसे, वीसं इत्थीउ एस णपुंसाय। दिक्खेति जो ण एते, सेहट्ठवणाए सो कप्पो॥ अष्टादश भेदाः पुरुषे पुरुषविषयाः, विंशतिः स्त्रियो, दश नपुंस-काः।। एतानष्टचत्वारिंशतमतलान् शैक्षान् यो न दीक्षते, स एष कल्पकल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते / बृ० 6 उ०। नि० चू०। पं० भा०। ठवणाकम्म-न०(स्थापनाकर्म) स्थापनं प्रतिष्ठायनं स्थापना, तस्याः कर्म करणं स्थापनाकर्म / येन ज्ञातेन परमतं दूषयित्वा वमतस्थापना क्रियते तत्स्थापनाकर्मेति भावः / तच्च द्वितीयाने द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाऽऽख्यम्। तत्र युक्तम्-अस्ति काचित् पुष्करिणी कर्दमप्रचुरजला।तन्मध्यदेशे महापुण्ड-रीकम्। तदुद्धरणार्थ चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकदर्ममार्गे प्रवेष्टुमारब्धाः / ते चाकृततदुद्धरणा एव पड्क्ते निमग्नाः। अन्यस्तु तटस्थोऽसंस्पृष्टकर्दम एदामोधवचनतया तदृद्धृतवानिति ज्ञातम् / उपनयश्चायम्-अत्र कर्दमस्थानीया विषयाः, पुण्डरीकं राजाऽऽदिर्भव्यपुरुषः, चत्वार पुरुषाः परतीर्थिका, पश्चमः पुरुषः, साधुः, अमोघवचनं धर्मदेशना, पुष्करिणी संसारः, तदुद्धारो निर्वाणमिति। अनेनच ज्ञातेन विषयाभिष्वङ्गवतामन्यतीर्थिकानां भव्यस्य संसारानुत्तारकत्वं, साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीति, इदं ज्ञातं स्थापनाकर्मेति। अथवा-आपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत् स्थापनाकर्म। यथा किलमालाकारेण केनापि राजमार्ग पुरीषोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिङ्गुशिवो देवोऽयमिति वदता व्यन्तराऽऽयतनस्थापना कृतेति / एतस्मात् किलाऽऽख्यानकादुक्तार्थः प्रतीयते। इदं स्थापनाकर्मेति // स्था०४ ठा०३ उ०।। अधुना स्थापनाद्वारमभिधित्सुराहठवणाकम्मं एकं, दिलुतो तत्थ पर्पोडरीअं तु / अहवा विसन्नढक्कण-हिंगुसिवकयं उदाहरणं / / 66 / / स्थाप्यते इति स्थापना, तया, तस्याः, तस्यां वा कर्मसम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म / एकमिति तज्जात्यपेक्षया, दृष्टान्तो निदर्शनम् / तत्र स्थापनाकर्मणि, पौण्डरीकं, तु तुशब्दात्तर्थाभूतमन्यच्च / तथा च-पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यगतनिरासेन स्वमतमवस्थापितमिति / अथ-वेत्यादि पश्चार्द्ध सुगमम् / लौकिकं चेदमिति गाथाऽक्षरार्थः / भावार्थस्तु कथानकादवसेयः / तचेदम्-" जहा एगम्मि णगरे एगो मालायरो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ / सो अईव अचााहिओ, ताहे तेण सिग्धं वोसिरिऊण, सा पुप्फपिडिगा तस्सेव उवरि पल्हत्थिया। ताहे लोओ पुच्छइ-किमेयं ति जेणित्थ पुप्फाणि छड्डेसि ? ताहे सो भणइ-अहं अलोविओ, एत्थ हिंगुसिवो नाम / एतं तं वाणमंतरं हिंगसिवं नाम उप्पन्नं / लोएण परिंगहियं / पूया से जाया। खाइं गयं, अज्ज वितं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं / एवं जइ किं वि उड्डाहं पावयणीयं कयं होजा केण वि पमाएण, ताहे तहा पच्छाएयव्वं, जहा पञ्चुण्णं पवयणुब्भावणा हवइ / संजाए उड्डाहे जह गिरिसिद्धेहिं कुसलबुद्धीहिं लोयस्स धम्मसद्धा पवयणवण्णेण सुट्टकया"। एवं तावचरणकरणानुयोगं लोक चाधिकृत्य स्थापना-कर्म प्रतिपादितम्। अधुना द्रव्यानुयोगमधिकृत्योपदर्शयन्नाहसव्वभिचारं हेळं, सहसा वोत्तुं तमेव अन्नेहिं। उववूहइ सप्पसरं, सामत्थं चप्पणो नाउं।। 67 // सह व्यभिचारेण वर्तत इति सव्यभिचारः, तं हेतु-साध्यधर्मान्वयाऽऽदिलक्षणं, सहसा तत्क्षणमेव,"वो "अभिधाय, तमेव हेतुमन्यैहेतुभिरेव, उपबृंहते समर्थयति, सप्रसरमनेकधा स्फारयन् सामर्थ्य प्रज्ञाबलम् / चशब्दो भिन्नक्रमः / आत्मनश्च स्वस्य च ज्ञात्वा विज्ञाय, चशब्दात्परस्य चेति गाथार्थः / / 67 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy